याभि᳚र्धे॒नुम॒स्वं१॒᳚ पिन्व᳚थो नरा॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । धे॒नुम् । अ॒स्व᳚म् । पिन्व᳚थः । न॒रा॒ । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारावश्विनौ दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्यामृतस्य सोमस्य पानेनोत्पन्नेन मज्जना बलेन युक्तौ युवं युवां तासां यास्त्रिषु लोकेषु वर्तंते तासां सर्वासां विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे । समर्थौ भवथः । यद्वा । मज्मनान्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य प्रशासने प्रदाने क्षयथः । ईश्वरौ भवथः । अपि च याभिरूतिभी रक्षाभिरस्वं प्रसवासमर्थां धेनुं गां शयुनाम्ने ऋषये पिन्वथः सिंचथः । पयसा पूरितवंतावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् । षूङ् प्राणिगर्भविमोचने । सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूर्यस्यामित्यसूः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अमि ओः सुपीति यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरि तत्वम् । पिन्वथः । पिवि सेचने । इदित्त्वान्नुम् । भौवादिकः ॥ ३ ॥