श्रवणम्

1.112.11
याभि᳚ः सुदानू औशि॒जाय᳚ व॒णिजे᳚ दी॒र्घश्र᳚वसे॒ मधु॒ कोशो॒ अक्ष᳚रत् ।
क॒क्षीव᳚न्तं स्तो॒तारं॒ याभि॒राव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । औ॒शि॒जाय᳚ । व॒णिजे᳚ । दी॒र्घ॑श्र᳚वसे । मधु᳚ । कोशः᳚ । अक्ष᳚रत् ।
क॒क्षीव᳚न्तम् । स्तो॒तार᳚म् । याभिः᳚ । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिक् संज्ञा दीर्घतमसः पत्नी । तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्ट्यां जीवनार्थमकरोद्वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ चाश्विनौ मेघं प्रेरितवंतौ । अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ । औशिजायोशिक् पुत्राय वणिजे वाणिज्यं कुर्वते दीर्घश्रवस एतत्संज्ञाय ऋषये याभिर्युष्मदीयाभिरूतिभिर्हेतुभूताभिः कोशो मेघो मधु माधुर्योपेतं वृष्टिजलमक्षरत् असिंचत् । युष्मत्प्रसादादपेक्षिता वृष्टि र्जातेत्यर्थः । अपि चोशिजः पुत्रं स्तोतारं कक्षीवंतमेतत्संज्ञमृषिं याभिरूतिभिरावतम् । अक्षरतं ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ कक्षीवंतम् । कक्ष्यारज्जुरश्वस्य तया युक्तः कक्षीवान् । आसंदीवदष्ठीवच्चक्रीवत्कक्षीवदिति निपातनान्मतुपो वत्वम् । संप्रसारणं ॥ ११ ॥