याभि॒र्व्य᳚श्वमु॒त पृथि॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । वि॑अ᳚श्वम् । उ॒त । पृथि᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं विपिपानं विशेषेण पार्थिवं रसं पिबंतं याभिरूतिभिररक्षतम् । कीदृशम् । उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा वित्तजानिं लब्धभार्यं कलिमेतत्संज्ञमृषिं याभिरूतिभिर्दुवस्यथः रक्षथः । उतापि च व्यश्वं विगताश्वं पृथिमेतत्संज्ञं वैनं राजर्षिं याभिरूतिभिरावतं अरक्षतम् । अन्यत्पूर्ववत् ॥ विपिपानम् । पा पाने । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । उपस्तुतम् । स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदांतोदात्तत्वम् (पा ६-२-१४७) वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । जायाया निङ् (पा ५-४-१३४) इति समासांतो निङादेशः । लोपो व्योर्वलीति वलि लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्व उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वं ॥ १५ ॥