याभि॒ः पठ᳚र्वा॒ जठ᳚रस्य म॒ज्मना॒ग्निर्नादी᳚देच्चि॒त इ॒द्धो अज्म॒न्ना ।
याभि॒ः शर्या᳚त॒मव᳚थो महाध॒ने ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
याभि॒ः शर्या᳚त॒मव᳚थो महाध॒ने ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । पठ᳚र्वा । जठ᳚रस्य । म॒ज्मना᳚ । अ॒ग्निः । न । अदी᳚देत् । चि॒तः । इ॒द्धः । अज्म᳚न् । आ ।
याभिः᳚ । शर्या᳚तम् । अव᳚थः । म॒हा॒॑ध॒ने । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः᳚ । शर्या᳚तम् । अव᳚थः । म॒हा॒॑ध॒ने । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ जठरस्य । जठरमुदरं भवति जग्धमस्मिन्ध्रियत इति यास्कः (नि ४-७) जठरोपलक्षितस्य शरीरस्य मज्मना बलेन युक्तः सन् पठर्वैतत्संज्ञो राजर्षिरज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिर्याभिररूतिभिरा समंताददीदेत् । अदीप्यत । तत्र दृष्टांतः । चितः काष्ठैरभिचित इद्धो यज्ञगृह ऋत्विग्भिः प्रज्वालितोऽग्निर्न । यथाग्निः प्रकाशते तद्वदित्यर्थः । अपि च शर्यातं मानवमिंद्रेण सह स्पर्धमानं महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे याभिरूतिभिरवथः रक्षथः ताभिरित्यादि गतं ॥ अदीदेत् । दीदेतिश्छांदसो दीप्तिकर्मा । अज्मन् । अज गतिक्षेपणयोः । अजंति क्षिपंत्यस्मिन्बाणानित्यधिकरण औणादिको मनिन् । वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनाद्वीभावाभावः । सुपां सुलुगिति सप्तम्या लुक् । महाधने । आन्महत इत्यात्वं ॥ १७ ॥