याभी᳚ र॒सां क्षोद᳚सो॒द्नः पि᳚पि॒न्वथु᳚रन॒श्वं याभी॒ रथ॒माव᳚तं जि॒षे ।
याभि᳚स्त्रि॒शोक᳚ उ॒स्रिया᳚ उ॒दाज᳚त॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
याभि᳚स्त्रि॒शोक᳚ उ॒स्रिया᳚ उ॒दाज᳚त॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । र॒साम् । क्षोद᳚सा । उ॒द्नः । पि॒पि॒न्वथुः᳚ । अ॒न॒श्वम् । याभिः᳚ । रथ᳚म् । आव᳚तम् । जि॒षे ।
याभिः᳚ । त्रि॒॑शोकः᳚ । उ॒स्रियाः᳚ । उ॒त्॑आज᳚त । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः᳚ । त्रि॒॑शोकः᳚ । उ॒स्रियाः᳚ । उ॒त्॑आज᳚त । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
रसा नदी भवति रसतेः शब्दकर्मण इति यास्कः । नि ११-२५ । हे अश्विनौ याभिरूतिभिर्हेतुभूताभी रसां नदीमनावृष्ट्या जलरहितां क्षोदसा कूलानि संपिंषतोद्न उदकेन पिपिन्वथुः युवां पूरितवंतौ । तथानश्वमश्वैर्विर्युक्तमात्मीयं रथं जिषे जेतुं याभिरूतिभिरावतं अगमयतम् । अपि च याभिरूतिभिः कण्वपुत्रस्त्रिशोक ऋषिरुस्रिया अपहृता गा उदाजत उदगमयत् । असुरसकाशाल्लेभे । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ क्षोदसा । क्षुदिर् संपेषणे । औणादिकोऽसुन् । उद्नः । तृतीयैकवचनस्य सुपां सुपो भवंतीति । शसादेशः । पद्दन्नित्यादिनोदकशब्दस्योदन् भावः । भसंज्ञायामल्लोपोऽन इत्यकारलोपः । पिपिन्वथुः । पिवि सेचने । इदित्त्वान्नुम् । जिषे । जि जये । तुमर्थे सेसेनिति क्सेप्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥ १२ ॥