यु॒वोर्दा॒नाय᳚ सु॒भरा᳚ अस॒श्चतो॒ रथ॒मा त᳚स्थुर्वच॒सं न मन्त᳚वे ।
याभि॒र्धियो॑व᳚थ॒ः कर्म᳚न्नि॒ष्टये॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
याभि॒र्धियो॑व᳚थ॒ः कर्म᳚न्नि॒ष्टये॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
यु॒वोः । दा॒नाय᳚ । सु॒॑भराः᳚ । अ॒स॒श्चतः᳚ । रथ᳚म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त᳚वे ।
याभिः᳚ । धियः᳚ । अव᳚थः । कर्म᳚न् । इ॒ष्टये᳚ । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः᳚ । धियः᳚ । अव᳚थः । कर्म᳚न् । इ॒ष्टये᳚ । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
सुभराः शोभनस्तोत्रभरणा असश्चतोऽन्यत्रानासक्ताः स्तोतारो हे अश्विनौ युवोर्युवयो रथमा तस्थुः । अतिष्ठंति । प्राप्नुवंति । किमर्थम् । दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टांतः । वचसं न । यथु न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं मंतवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवंति तद्वत् । अपि च । कर्मन् कर्मणीष्टये । यागार्थं प्रवृतान्धियो ध्यातॄन्विशिष्टज्ञानोपेतान्याभिरूतिभिः पालनैरवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वान्मत्वर्थीयोऽच् । मंतवे । मन ज्ञाने । कमिमनिजनीत्यादिना तुप्रत्ययः । धियः । ध्यायंतीति धियः स्तोतारः । ध्यैचिंतायाम् । क्विप्चेति क्विप् । च शब्देन दृतिग्रहणानुकर्षणात्संप्रसारणम् । कर्मन् । सुपां सुलुगिति सप्तम्या लुक् । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः ॥२ ॥