याभि॒ः शारी॒राज᳚तं॒ स्यूम᳚रश्मये॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । शारीः᳚ । आज᳚तम् । स्यूम᳚॑रश्मये । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारावश्विनौ पुरा पूर्वस्मिन्काले शयव एतत्संज्ञकाय ऋषये गातुं दुःखान्नि र्गमनलक्षणं मार्गं याभिरूतिभिरीषथुः युवां वांछितवंतौ । कृतवंतावित्यर्थः । किं तत् । सामर्थ्यात् शयवे चिन्ना सत्या शचीभिः । ऋ १-११६-२२ । इत्यस्यामृचि प्रतिपादितम् । तथात्रये ऋषये शतद्वारे यंत्रगृहेऽसुरैः पीड्यमानाय संतापकारिणोऽग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवंतौ । तथा च मंत्रांतरम् । यवं वृकेणाश्विना वपंता । ऋ १-११७-२१ इति । अपि च स्यमरश्मये स्यूतः संबद्धो रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये याभिरूतिभिः शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूराजतं शत्रून्प्रतिप्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा । नृ नये ऋूदोरप् । सुपां सुलुगिति विभक्तेराकारः । शयवे । शीङ् स्वप्ने । भृमृशीतॄचरीत्यादिना (उ १-७) उप्रत्ययः । ईषथुः । इषु इच्छायाम् । लिट्यथुस्यसवर्ण इति पर्युदासादत् (पा ६-४-७८) अभ्यासस्येयङादेशाभावे सवर्णदीर्घः । शारीः विकारार्थे शरशब्दादनुदात्तादेश्चेत्यञ् । टिड्ढाणञिति ङीप् । स्यूमरश्मये । षिवु तंतुसंताने । सिवेरौणादिको मन्प्रत्ययः । छ्वोः शूडित्यूट् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १६ ॥