श्रवणम्

1.112.23
याभि॒ः कुत्स᳚मार्जुने॒यं श᳚तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च᳚ द॒भीति॒माव᳚तम् ।
याभि᳚र्ध्व॒सन्तिं᳚ पुरु॒षन्ति॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । कुत्स᳚म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति᳚ शत॑क्रतू । प्र । तु॒र्वीति᳚म् । प्र । च॒ । द॒भीति᳚म् । आव᳚तम् ।
याभिः᳚ । ध्व॒सन्ति᳚म् । पु॒रु॒॑सन्ति᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतू बहुविधकर्माणावश्विनौ । आर्जुनेयं अर्जुन इतींद्रस्य नाम । तथा च वाजसनेयकम् । एतद्वा इंद्रस्य गुह्यं नाम यदर्जुन इति । तस्य पुत्रं कुत्सं याभिरूतिभिः प्रावतम् । प्रकर्षेणारक्षतम् । तथा तुर्वीतिं दभीतिं च याभिरूतिभिः प्रावतम् । अपि च । याभिर्ध्वसंतिमेतत्संज्ञं पुरुषंतिमेतन्नामानं च ऋषिमावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिः सहास्मानपि सुष्ठ्वागच्छतं ॥ आर्जुनेयम् । शुभ्रादिभ्यश्च (पा ४-१-१२३) इति चशब्दोऽनुक्तसमुच्चयार्थः इत्युक्तत्वात् ढक् । तुर्वीतिम् । तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । दन्भु दंभे औणादिकः कीतिप्रत्ययः । ध्वसंतिम् । ध्वंसु गतौ च । औणादिको झिङ् प्रत्ययः । अनिदितामिति नलोपः झोंऽतः । पुरुषंतिम् । पुरु सनोति ददातीति पुरुषंतिः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेत्यनुनासिकलोपोपधादीर्घयोर्निषेधः ॥ २३ ॥