याभि॒ः सिन्धुं॒ मधु᳚मन्त॒मस᳚श्चतं॒ वसि᳚ष्ठं॒ याभि᳚रजरा॒वजि᳚न्वतम् ।
याभि॒ः कुत्सं᳚ श्रु॒तर्यं॒ नर्य॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
याभि॒ः कुत्सं᳚ श्रु॒तर्यं॒ नर्य॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । सिन्धु᳚म् । मधु᳚॑मन्तम् । अस᳚श्चतम् । वसि᳚ष्ठम् । याभिः᳚ । अ॒ज॒रौ॒ । अजि᳚न्वतम् ।
याभिः᳚ । कुत्स᳚म् । श्रु॒तर्य᳚म् । नर्य᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः᳚ । कुत्स᳚म् । श्रु॒तर्य᳚म् । नर्य᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ सिंधु स्यंदनशीलां नदीं मधुमंतं मधुसदृशेनोदकेन पूर्णां याभिरूतिभिरसश्चतं अगमयतम् । प्रावाहयतमित्यर्थः । हे अजरौ जरारहितावश्विनौ वसिष्ठमृषिं याभिरूतिभिरजिन्वतम् । अप्रीणयतम् । याभिश्च कुत्सादींस्त्रीनृषीनावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिरस्मानपि सुष्ठ्वागच्छतं ॥ मधुमंतम् । मधुशब्दाद्भूम्नि मतुप् । लिंगव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मादंतर्भावित ण्यर्थाल्लुङ् ॥ ९ ॥