याभि॒ः शंता᳚ती॒ भव᳚थो ददा॒शुषे᳚ भु॒ज्युं याभि॒रव᳚थो॒ याभि॒रध्रि᳚गुम् ।
ओ॒म्याव᳚तीं सु॒भरा᳚मृत॒स्तुभं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
ओ॒म्याव᳚तीं सु॒भरा᳚मृत॒स्तुभं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । शन्ता᳚ती॒ इति॒ शम्॑ता᳚ती । भव᳚थः । द॒दा॒शुषे᳚ । भु॒ज्युम् । याभिः᳚ । अव᳚थः । याभिः᳚ । अध्रि᳚॑गुम् ।
ओ॒म्या॑व᳚तीम् । सु॒॑भरा᳚म् । ऋ॒त॒॑स्तुभ᳚म् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
ओ॒म्या॑व᳚तीम् । सु॒॑भरा᳚म् । ऋ॒त॒॑स्तुभ᳚म् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ ददाशुषे हवींषि दत्तवते यजमानाय याभिरूतिभिः शंताती सुखस्य कर्तारौ भवथः । याभिश्चोतिभिर्भुज्युं तुग्रस्य पुत्रमवथः । याभिश्चाद्रिगुम् । अध्रिगुर्देवानां शमिता । अध्रिगुश्चापापश्च उभौ देवानां शमितारौ । तै । ब्रा ३-६-६-४ । इति श्रुतेः । अपि च ऋतस्तुभम् । ऋतं सत्यं स्तोभत्युच्छारयतीत्यृतस्तुप् । एतत्संज्ञमृषिं ओम्यावतीम् । ओम्येति सुखनाम । तद्युक्तां सुभरां सुखेन भरणीयामिषं याभिरूतिभिः प्रापयथः । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ शंताती । शिवशमरिष्टस्य करे (पा ४-४-१४३) इति तातिल् प्रत्ययः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । दाशृ दाने लिटः क्वसुः । वसो संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ २० ॥