प्रथमं मण्डलम् - सूक्तम् 5

10 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.5 - सम्पूर्णम्

1 / 10
ऋक्: 1.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.5.1
आ त्वेता॒ नि षी᳚द॒तेन्द्र᳚म॒भि प्र गा᳚यत ।
सखा᳚य॒ः स्तोम᳚वाहसः ॥
▶ पदपाठः (Word-by-word)
आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र᳚म् । अ॒भि । प्र । गा॒य॒त॒ ।
सखा᳚यः । स्तोम᳚॑वाहसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुशब्दः क्षिप्रार्थो निपातः । द्वाभ्यामाङ् भ्यामन्वेतुमितशब्दोऽभ्यसनीयः । हे सखाय ऋत्विजः क्षिप्रमस्मिन्कर्मण्यागच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च निषीदत । उपविशत । उपविश्य चेंद्रमभि प्र गायत । सर्वतः प्रकर्षेण स्तुतः । कीदृशाः सखायः । स्तोमवाहसः । त्रिवृत्पंचदशादिस्तोमानस्मिन्कर्मणि वहंति प्रापयंतीति ॥ आ तु आ निपातत्वादाद्युदात्ताः । इत । इण् गतौ । द्व्यचोऽतस्तिङः (पा ६-३-१३५) इति संहितायां दीर्घत्वम् । नि । निपातत्वादाद्युदात्तः । सीदत । पाघ्राध्मास्थाम्नादाण् दृशीत्यादिना (पा ७-३-७८) सदेः सीदादेशः । सदेरप्रतेः (पा ८-३-६६) इति संहितायां षत्वम् । अभि । उपसर्गाश्चाभिवर्जमिति वचनात्प्रातिपदिकांतोदात्तत्वम् । स्तोमवाहसः । अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिणीभ्यो मन् (उ १-१३९) इति स्तौतेर्मन्प्रत्ययांतः स्तोमशब्दो नित्त्वादाद्युदात्तः । स्तोमं वहंतीति स्तोमवाहसः । वहिहाधाञ् भ्यश्छंदसि (उ ४-२२०) इत्यसुन्प्रत्ययः । तत्र णिदित्यनुवृत्तेरत उपधायाः । पा । ७-२-११६ । इत्युपधाया वृधिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च (उ ४-२२६) इत्यौणादिकसूत्रात्समास अद्युदात्तः ॥ १ ॥

1.5.2 समानपद
पु॒रू॒तमं᳚ पुरू॒णामीशा᳚नं॒ वार्या᳚णाम् ।
इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑तम᳚म् । पु॒रू॒णाम् । ईशा᳚नम् । वार्या᳚णाम् ।
इन्द्र᳚म् । सोमे᳚ । सचा᳚ । सु॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायोऽभिप्रगायतेति पदद्वयमत्रानुवर्तते । हे सखाय ऋत्विजः सचा यूयं सर्वैः सह । यद्वा । सचा परस्परसमवायेन सुतेऽभिषुते सोमे प्रवृत्ते सतींद्रमभिप्रगायत । कीदृशमिंद्रम् । पुरूतमम् । पुरून्बहूञ्छत्रूंस्तमयति ग्लापयतीति पुरूतमः । पुरूणां बहूनां वार्याणां वरणीयानां धनानामीशानं स्वामिनं ॥ पुरूतमम् । तमु ग्लान इति धातोरंतभार्वितण्यर्थात्पचाद्यचि चित्त्वादंतोदात्तेऽपि कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । पुरूणाम् । पृ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पृभिदिव्यधिगृधिधैषिदृशिभ्यः (उ १-२४) इति कुप्रत्ययः । कित्त्वाद्गुणनिषेधे । पा । १-१-५ । उदोष्ठ्यपूर्वस्य (पा ७-१-१०२) इत्युकारः । उरण् रपरः । पा १-१-५१ प्रत्ययस्वरेणांतोदात्तः पुरुशब्दः । अतो मतुपि ह्रस्वादंतोदात्तात्पुरुशब्दात्परस्य नामो नामन्यतरस्याम् (पा ६-१-१७७) इत्यंतोदात्तत्वम् । ईशानम् । ईश ऐश्वर्य इति धातोरनुदात्तेत्त्वात्परस्य शानचो लसार्वधातुकानुदात्तत्वम् । वार्याणाम् । वृङ् संभक्तावित्यस्मादृहलोर्ण्यत् (पा ३-१-१२४) क्यब्विधौ हि वृञ एव ग्रहणं न वृङः । पा ३-१-१०९-१ । तित्स्वरितम् (पा ६-१-१८५) इति प्रत्ययस्वरितं बाधित्वा ईडवंदवृशंसदुहां ण्यतः (पा ६-१-२१४) इति ण्यदंतस्याद्युदात्तत्वम् । यतोऽनावः (पा ६-१-२१३) इत्यत्र तु ण्यतो ग्रहणं न भवति तस्य द्व्यनुबंधकत्वात् । एकानुबंधग्रहणे न द्व्यनुबंधकस्येति नियमात् । सचा । षच समवाये धात्वादेः षः सः (पा ६-१-६४) संपदादित्वाद्भावे क्विप् । पा ३-३-१०८-९ । इति क्विप् । तृतीयैकवचनम् । धातुस्वरेणाद्युदात्तः । सर्वे विधयश्चंदसि विकल्प्यंते । परि ३५ । इति न्यायेन सावेकाच इति सूत्रं न प्रवर्तते । सचेत्यस्य निपातत्वपक्षे स्पष्टमाद्युदात्तत्वं ॥ २ ॥

1.5.3
स घा᳚ नो॒ योग॒ आ भु᳚व॒त्स रा॒ये स पुरं᳚ध्याम् ।
गम॒द्वाजे᳚भि॒रा स नः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । नः॒ । योगे᳚ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर᳚म्॑ध्याम् ।
गम᳚त् । वाजे᳚भिः । आ । सः । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

घशब्दोऽवधारणार्थो निपातः सर्वैस्तच्छब्दैः संबध्यते । स घ स एवेंद्रः पूर्वमंत्रोक्तगुणविशिष्टो नोऽस्माकं योगे पूर्वमप्राप्तस्य पुरुषार्थस्य संबंध आ भुवत् । आभवतु । पुरुषार्थं साधयत्वित्यर्थः । स एव राये धनार्थमा भुवत् । आभवतु । स एव पुरंध्यां योषित्या भुवत् । यद्वा बहुविधायां बुद्धावा भुवत् । पुरंदिर्बहुधीः (नि ६-१३) इति यास्कः । स एव वाचेभिर्देयैरन्नेः सह नोऽस्माना गमत् । आगच्छतु ॥ घ । चादयोऽनुदात्ता इत्यनुदात्तः । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । योगे । घञो इित्त्वादाद्युदात्तत्वम् । भुवत् । भूयात् । भवतेराशीर्लिङि परतो लिङ्याशिष्यङित्यङ्प्रत्ययः । तस्य ङित्वेन गुणाभावादुवङादेशः । कीदाशिषीति यासुण्न भवत्यनित्यमागमशासनमिति वचनात् । तिङ्ङतिङ इति निघातः । ऊडिदंपदाद्यप्पुम्रैद्युभ्य इति राय इत्येतस्य विभक्तेरुदात्तत्वम् । पुरंध्याम् । पुरंधिः पुरुधीः । पृषोदरादित्वात् पा ६-३-१०९ । उकारस्यामादेश ईकारस्य ह्रस्वश्च । आद्युदात्तप्रकरणे दिवोदासादीनां छंदस्युपसंख्यानम् । पा ६-२-९१-१ । इत्याद्युदात्तत्वम् । अथवा पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च (पा ३-३-९३) इति कि प्रत्ययः । अलुक् छांदसः । नब्विषयस्यानिसंतस्येति पुरुशब्द आद्युदात्तः । दासीभारादित्वात् (पा ६-२-४२) पूर्वपदप्रकृतिस्वरत्वम् । गमत् । गमेर्लेटस्तिप् । इतश्च लोपः । परस्मैपदेष्वितीकारलोपः । बहुलं छंदसीति शपो लुक् । लेटोऽडाटावित्यडागमः । आगमा अनुदात्ताः । म ३-१-३-७ । इति तस्यानुदात्तत्वे धातुस्वर एव शिष्यते । वाजेभिः । वृषादित्वादाद्युदात्तः ॥ ३ ॥

1.5.4
यस्य᳚ सं॒स्थे न वृ॒ण्वते॒ हरी᳚ स॒मत्सु॒ शत्र᳚वः ।
तस्मा॒ इन्द्रा᳚य गायत ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । स॒म्॑स्थे । न । वृ॒ण्वते᳚ । हरी॒ इति᳚ । स॒मत्॑सु᳚ । शत्र᳚वः ।
तस्मै᳚ । इन्द्रा᳚य । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समत्सु युद्देषु यस्येंद्रस्य संस्थे रथे युक्तौ हरी द्वावश्चौ शत्रवो न वृण्वते न संभजंते । रथमश्वौ च दृष्ट्वा पलायंत इत्यर्थः । तस्मा इंद्राय तत्संतोषार्थं हे ऋत्विजो गायत । स्तुतिं कुरुत । रण इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु समत्सु समरण इति पठितं ॥ संस्थे । सम्यक् । तिष्ठतीति संस्थो रथः । आतश्चोपसर्गे (पा ३-१-१३६) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृण्वते । प्रत्ययस्वरेणाकार उदात्तः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । पा ६-१-१५८-९ । तिङ्ङतिङ इति निघातो न भवति यद्वृत्तान्नित्यमिति प्रतिषेधात् । पंचमीनिर्देशेऽपि (पा १-१-६७) अत्र व्यवहितेऽपि कार्यमिष्यते । हरतो रथमिति हरी अश्वौ । इन्नित्यनुवृत्तौ हृपिषिरुहिवृतिविदिच्छिदिकीर्तिभ्यश्च (उ ४-११८) इतीन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । समत्सु । संपूर्वादत्तेः क्विप् । शत्रवः शतः सौत्रो धातुर्हिंसार्थः । रुशतिभ्यां क्रुन् (उ ४-१०३) नित्त्वादाद्युदात्तत्वम् । तस्मै । सावेकाच इति विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधात्प्रातिपदिकस्वर एव ॥ ४ ॥

1.5.5
सु॒त॒पाव्ने᳚ सु॒ता इ॒मे शुच᳚यो यन्ति वी॒तये᳚ ।
सोमा᳚सो॒ दध्या᳚शिरः ॥
▶ पदपाठः (Word-by-word)
सु॒त॒॑पाव्ने᳚ । सु॒ताः । इ॒मे । शुच᳚यः । य॒न्ति॒ । वी॒तये᳚ ।
सोमा᳚सः । दधि᳚॑आशिरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे सोमासोऽस्मिन्कर्मणि संपादिताः सोमाः सुतपाव्नेऽभिषुतस्य सोमस्य पानकत्रे । षष्ठ्यर्थे चतुर्थी । तस्य पातुर्वीतये भक्षणार्थं यंति । तमेव प्राप्नुवंति । कीदृशाः सोमाः । सुता अभिषुताः शुचयो दशापवित्रेण शोधितत्वाच्छुद्धा दध्याशिरः । अवनीयमानं दध्याशीर्दोषघातकं येपां सोमानां ते दध्याशिरः ॥ सुतपाव्ने । सुतं पिबतीति सुतपावा । वनिपः पित्त्वाद्दातुस्वर एव शिष्यते । समासे द्वितीयापूर्वपदप्रकृतिस्वरं बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । शुचयः । शुच दीप्तौ । इन्नित्यनुवृत्ताविगुपधात्कित् । उ ४ । ११९ । इतीन् । कित्त्वाल्लघूपधगुणाभावः । नित्त्वादाद्युदात्तत्वम् । वीतये । वी गतिप्रजनकांत्यशनखादनेष्वित्यस्मान्मंत्रे वृषेषपचमनविदभूवीरा उदात्तः पा ३-३-९६ । इति क्तिन्नुदात्तः । सोमासः । षुञ् अभिषवे । अर्तिस्तुसुहुसृधृक्षीत्यादिना (उ १-१३९) मन् । नित्त्वादाद्युदात्तः । आज्जसेरुसुक् । पा । ७-१-५० । इत्यसुगागमः । दध्याशिरः । दधाति पुष्णातीति दधि । डुधाञ् धारणपोषणयोः । आदृगमहनजनः किकिनौ लिट् च (पा ३-२-१७१) इति किन् । लिड्वद्भावाद्द्वर्भावः । कित्त्वादाकारलोपः । नित्त्वादाद्युदात्तत्वम् । शृ हिंसायाम् । शृणाति हिनस्ति सोमेऽवनीयमानं सत्सोमस्य स्वाभाविकं रसमृजीषत्वप्रयुक्तं नीरसं दोषं वेत्याशीः । क्विप्यृत इद्धातोः (पा ७-१-१००) इतीत्वं रपरत्वं च । दध्येवाशीर्येषां सोमानां ते दध्याशिरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥

1.5.6
त्वं सु॒तस्य᳚ पी॒तये᳚ स॒द्यो वृ॒द्धो अ᳚जायथाः ।
इन्द्र॒ ज्यैष्ठ्या᳚य सुक्रतो ॥
▶ पदपाठः (Word-by-word)
त्वम् । सु॒तस्य᳚ । पी॒तये᳚ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ ।
इन्द्र᳚ । ज्यैष्ठ्या᳚य । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इंद्र त्वं सुतस्याभिषुतस्य सोमस्य पीतये पानार्थं ज्यैष्ठ्याय देवेषु ज्येष्ठत्वार्थ च सद्यस्तस्मिन्नेव क्षणे वृद्धोऽजायथाः । अभिवृद्योत्साहेन युक्तोऽभूः ॥ पीतये । पा पान इत्यस्मात्स्थागापापचो भावे (पा ३-३-९५) इति क्तिन् । घुमास्थेत्यादिना (पा ६-४-६६) ईत्वम् । तस्य नित्त्वेपि व्यत्ययेन प्रत्ययोदात्तत्त्वम् । उत्तरसूत्रगतमुदात्त पदमत्रापि वा योजनीयम् । सद्यः । सद्यः परुत्परारीति सूत्रेण (पा ५-३-२२) समानेऽहनीत्यर्थे समानस्य सभावो द्यश्च प्रत्ययो निपात्यते । प्रत्ययस्वरेणोदात्तः । वृद्धः । वृधु वृद्धौ । उदितो वा (पा ७-२-५६) इति क्त्वाप्रत्यय इटो विकल्पितत्वाद्यस्य विभाषा (पा ७-२-१५) इति निष्ठायामिट् प्रतिषेधः । प्रत्ययस्वरेणोदात्तः । ज्यैष्ठ्याय । ज्येष्ठस्य भावो ज्यैष्ठ्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा ५-१-१२४) इति ष्यञ् । ञॆत्त्वादाद्युदात्तः ॥ ६ ॥

1.5.7
आ त्वा᳚ विशन्त्वा॒शव॒ः सोमा᳚स इन्द्र गिर्वणः ।
शं ते᳚ सन्तु॒ प्रचे᳚तसे ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः᳚ । सोमा᳚सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
शम् । ते॒ । स॒न्तु॒ । प्र॑चे᳚तसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वां सोमासः सोमा आ विशंतु । अभिमुख्येन प्रविशंतु । कीदृशाः सोमाः । आशवः । सवनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमंतः । कीदृशेंद्र । गिर्वणो गीर्भिः स्तुतिभिः संभजनीय देवविशेष । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । तथाविध हे इंद्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शं सुखरूपाः सोमाः संतु ॥ गिर्वणः । गृणंतीति गिरः स्तुतयः । गृशब्दे । क्वप्यृत इद्धातोः (पा ७-१-१००) इतीत्वं रपरत्वं च गीर्भिर्वन्यते सेव्यत इति गिर्वणाः । वन षण संभक्तौ । संभक्तिः सेवा । सर्वधातुभ्योऽसुन् (उ ४-१८८) इत्यसुन्प्रत्ययः । प्रचेतसे । बहुव्रीहौ पूर्वपदप्रक्षतिस्वरत्वं ॥ ७ ॥

1.5.8
त्वां स्तोमा᳚ अवीवृध॒न्त्वामु॒क्था श᳚तक्रतो ।
त्वां व᳚र्धन्तु नो॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वाम् । स्तोमाः᳚ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मन्बहुप्रज्ञ वेंद्र त्वां स्तोमाः सामगानां स्तोत्राण्यवीवृधन् । वर्धितवंति । तथा बह्वृचानामुक्था शस्त्राणि त्वामवीवृधन् । यस्मात्पूर्वमेवमासीत्तस्मादिदानीमपि नोऽस्माकं गिरः स्तुतयस्त्वां वर्धंतु । वर्धयंतु । अतिवृद्धं कुर्वंतु ॥ स्तोमाः । मनो नित्त्वादाद्युदात्तः । अवीवृधन् । वृधु वृद्धौ । ण्यंतात् (पा ३-१-२६) लुङि चङि (पा ३-१-४८) उर्ऋत् पा ७-४-७ । इति वृधेरुपधाया ऋकारस्य ऋकारविधानादंतरंगोऽपि गुणो बाध्यते । द्विर्भाव । पा । ६-१-११ । हलादिशेष (पा ७-४-६०) सन्वद्भाव (पा ७-४-९३) उक्थानि । पातृतुदिवचिरिचिसिचिभ्यस्थक् । उ २७ । इति वचेस्थक्प्रत्ययः । तस्य कित्त्वात्संप्रसारणम् । शेश्छंदसि बहुलम् (पा ६-१-७०) इति शिलोपो नलोपश्च । प्रत्ययस्वरेणांतोदात्तः । असामार्थ्यादामंत्रितपरस्यापि न परांगवद्भाव इति नानुदात्तत्वम् । वर्धंतु । अंतर्भावितण्यर्थाद्वृधेर्व्यत्ययेन परस्मैपदं ॥ ८ ॥

1.5.9
अक्षि᳚तोतिः सनेदि॒मं वाज॒मिन्द्र᳚ः सह॒स्रिण᳚म् ।
यस्मि॒न्विश्वा᳚नि॒ पौंस्या᳚ ॥
▶ पदपाठः (Word-by-word)
अक्षि᳚त॑ऊतिः । स॒ने॒त् । इ॒मम् । वाज᳚म् । इन्द्रः᳚ । स॒ह॒स्रिण᳚म् ।
यस्मि᳚न् । विश्वा᳚नि । पौंस्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्र इमं वाजं सोमरूपमन्नं सनेत् । संभजेत् । कीदृश इंद्रः । अक्षितोतिरहिंसितरक्षणः कदाचिदपि रक्षां न विमुंचतीत्यर्थः । कीदृशं वाजं सहस्रिणं प्रकृतौ विकृतिषु च प्रवर्तमानत्वेन सहस्रसंख्यायुक्तम् । यस्मिन्वाचे विश्वानि सर्वाणि पौंस्या पुंस्त्वानि बलानि वर्तंते तादृशं वाजमिति पूर्वत्रान्वयः ॥ अक्षितोतिः । ननु क्षि क्षय इत्ययं धातुरकर्मकः । तस्य च कर्माभावादधिकरणे भावे कर्तरी वा क्तप्रत्ययेन भवितव्यम् । तदिह यदि कर्तर्यथिकरणे वा स्यात्तदा तयोरर्थयोर्ण्यप्रत्ययस्याविधानात्क्क्षिय इत्यनुवृत्तौ (पा ६-४-५९) निष्ठायामण्यदर्थे । पा ६-६० । इति दीर्घेण भवितव्यम् । तथा च क्षियो दीर्घात् (पा ८-२-४६) इति निष्ठानत्वेऽक्षीणेति स्यात् न त्वक्षितेति । अथ नपुंसके भावे क्तः (पा ३-३-११४) इति भावपरः क्षितशब्दो गृह्यते । तदा तस्य ण्यदर्थत्वेनाण्यदर्थ इति निषेधाद्दीर्घनत्वयोरभावात्क्क्षितमिति सिद्ध्यति । तदा तु नञ् तत्पुरुषः प्रकृतेन नान्वेतीति न विद्यते क्षितमत्रेति बहुव्रीहिणैव भवितव्यम् । तथा च नञ् सुभ्याम् (पा ६-२-१७२) इत्युत्तरपदांतोदात्तत्वं स्यात् । पुनरूतिशब्देन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव स्वरस्तिष्ठेदित्यभिमतमाद्युदात्तत्वं न सिद्ध्येदिति । सत्यम् । अत एवात्र क्षिधातुरंतर्भावितण्यर्थो गृह्यते । तेन सकर्मकत्वात्कर्मण्येषा निष्ठा । ततश्चाण्यदर्थ इति निषेधादीर्घो निष्ठानत्वं च न भविष्यति । तथा च नञ्तत्पुरुषे न क्षिताक्षिताक्षयितेत्यर्थः । तत्र चाव्ययपूर्वपदप्रकृतिस्वरत्वेन नञ उदात्तत्वम् । पनरूतिपदेन बहुव्रीहौ स एव स्वरः स्थास्यतीति न कोऽपि दोषः । रि क्षि चिरि जिरि दाशद्रु जिघांसायाम् । धा २७, २८-३३ । इति क्षिणोतेर्हिंसार्थस्य वा कर्मणि निष्ठा । तथा चाहिंसितोतिरित्यर्थ उक्तक्रमेण स्वरः सिध्यतीति न दोषः । सनेत् । वन षण संभक्तौ । भौवादिकः । वाजम् । वृषादित्वादाद्युदात्तः । इंद्रः । रनो नित्त्वादाद्युदात्तः । सहस्रिणं सहस्रमस्यास्ति । अत इनिठनौ पा ५-२-११५ । प्रत्ययस्वरः । विश्वानि । विशेः क्वनि (उ १-१५१) नित्त्वादाद्युदात्तः । पुंसः कर्माणि पौंस्यानि । ब्राह्मणादेराकृतिगणत्वाद्गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा ५-१-१२४) इति ष्यञ् । ञित्वादाद्युदात्तः । प्रथमाबहुवचनस्य सुपां सुलुगित्यादिना डादेशः । ननु स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (पा ४-१-८७) इत्यनेन धान्यानां भवने क्षेत्रे खञ् (पा ५-२-१) इत्येतत्पर्यंतेष्वपत्याद्यर्थेषु नञ् स्नञोर्विधानाद्यथा पुंसोऽपत्यं पौंस्नः पुंस आगतः पौंस्न इत्यादि तद्वत् पुंसो भावः कर्म वेत्यस्मिन्नप्यर्थे ष्यञं बाधित्वा पौंस्नानीत्येव भवितव्यम् । कथमुच्यते पौंस्यानीति । उच्यते । आ च त्वात् (पा ५-१-१२०) इति सूत्रे त्वादित्यवधिनिर्देशाद्ब्रह्मस्त्वः (पा ५-१-१३६) इत्येतत्पर्यंतैरिमनिजादिभिः प्रत्ययैः सह त्वतलोः समावेशः । एवं तत्रैव च शब्दान्न ञ् स्नञोरपि ष्यञादिभिः समावेश एव । न बाध्यबाधकभावः ॥ ९ ॥

1.5.10
मा नो॒ मर्ता᳚ अ॒भि द्रु᳚हन्त॒नूना᳚मिन्द्र गिर्वणः ।
ईशा᳚नो यवया व॒धम् ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । मर्ताः᳚ । अ॒भि । द्रु॒ह॒न् । त॒नूना᳚म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
ईशा᳚नः । य॒व॒य॒ । व॒धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वण इंद्र मर्ता विरोधिनो मनुष्या नोऽस्मदीयानां तनूनां शरीराणां माभि द्रुहन् । अभितो द्रोहं मा कुर्युः । ईशानः समर्थस्त्वं वधं वैरिभिः संपाद्यमानं यवय । अस्मत्तः पृथक्कुरु । मनुष्या इत्यादिषु पंचविंशतिसंख्याकेषु मनुष्यनामसु मर्ता व्राता इति पठितं ॥ मर्ताः । असिहसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् (उ ३-८६) इति तन् । नित्त्वादाद्युदात्तः । अभि । एवमादीनामंतः (फि ४-१४) द्रुहन् । द्रुह जिघांसायाम् । लिङर्थे लेट् (पा ३-४-७) इति । प्रार्थनायाम् (पा ३-३-१६१) लेट् । तस्य झि (पा ३-४-७८) झोंऽतः (पा ७-१-३) इतश्च लोपः परस्मैपदेषु (पा ३-४-९७) इतीकार लोपः । शपो लुक् । वार्वधातुकमपित् । पा । १-२-४ । इति तिङो ङित्त्वाल्लघूपधगुणाभावः (पा १-१-५) तनूनाम् । असामर्थ्यान्न परांगवद्भावः । इंद्र गिर्वणः । गतम् । ईशानः । धातोरनुदात्तेत्त्वाच्छपो लुकि लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यवय । यौतेर्णिचि संज्ञापूर्वको विधिरनित्य इति वृद्धिर्न क्रियते । अथवा यौतीति यव । पचाद्यच् (पा ३-१-१३४) यवं करोतीत्यर्थे तत्करोति तदाचष्टे । पा ३-१-२६, ५-६ । इति णिच् । इष्ठवद्भावाट्टलोपः । पा ६-४-१५५-१ । तस्य स्थानिवद्भावाद्वृद्ध्यभावः (पा १-१-५६) वधम् । हनश्ट वधः (पा ३-३-७६) इति भावेऽप् । तत्सन्नियोगशिष्टः स्थानिवद्भावेनांतोदात्तो वधादेशः उदात्तनिवृत्ति स्वरेणाप उदात्तत्वं ॥ १० ॥