आ त्वा᳚ विशन्त्वा॒शव॒ः सोमा᳚स इन्द्र गिर्वणः ।
शं ते᳚ सन्तु॒ प्रचे᳚तसे ॥
शं ते᳚ सन्तु॒ प्रचे᳚तसे ॥
पदपाठः (Word-by-word)
आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः᳚ । सोमा᳚सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
शम् । ते॒ । स॒न्तु॒ । प्र॑चे᳚तसे ॥
शम् । ते॒ । स॒न्तु॒ । प्र॑चे᳚तसे ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र त्वां सोमासः सोमा आ विशंतु । अभिमुख्येन प्रविशंतु । कीदृशाः सोमाः । आशवः । सवनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमंतः । कीदृशेंद्र । गिर्वणो गीर्भिः स्तुतिभिः संभजनीय देवविशेष । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । तथाविध हे इंद्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शं सुखरूपाः सोमाः संतु ॥ गिर्वणः । गृणंतीति गिरः स्तुतयः । गृशब्दे । क्वप्यृत इद्धातोः (पा ७-१-१००) इतीत्वं रपरत्वं च गीर्भिर्वन्यते सेव्यत इति गिर्वणाः । वन षण संभक्तौ । संभक्तिः सेवा । सर्वधातुभ्योऽसुन् (उ ४-१८८) इत्यसुन्प्रत्ययः । प्रचेतसे । बहुव्रीहौ पूर्वपदप्रक्षतिस्वरत्वं ॥ ७ ॥