इन्द्र॒ ज्यैष्ठ्या᳚य सुक्रतो ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । ज्यैष्ठ्या᳚य । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ॥
सायणभाष्यम् (Sayana Commentary)
सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इंद्र त्वं सुतस्याभिषुतस्य सोमस्य पीतये पानार्थं ज्यैष्ठ्याय देवेषु ज्येष्ठत्वार्थ च सद्यस्तस्मिन्नेव क्षणे वृद्धोऽजायथाः । अभिवृद्योत्साहेन युक्तोऽभूः ॥ पीतये । पा पान इत्यस्मात्स्थागापापचो भावे (पा ३-३-९५) इति क्तिन् । घुमास्थेत्यादिना (पा ६-४-६६) ईत्वम् । तस्य नित्त्वेपि व्यत्ययेन प्रत्ययोदात्तत्त्वम् । उत्तरसूत्रगतमुदात्त पदमत्रापि वा योजनीयम् । सद्यः । सद्यः परुत्परारीति सूत्रेण (पा ५-३-२२) समानेऽहनीत्यर्थे समानस्य सभावो द्यश्च प्रत्ययो निपात्यते । प्रत्ययस्वरेणोदात्तः । वृद्धः । वृधु वृद्धौ । उदितो वा (पा ७-२-५६) इति क्त्वाप्रत्यय इटो विकल्पितत्वाद्यस्य विभाषा (पा ७-२-१५) इति निष्ठायामिट् प्रतिषेधः । प्रत्ययस्वरेणोदात्तः । ज्यैष्ठ्याय । ज्येष्ठस्य भावो ज्यैष्ठ्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा ५-१-१२४) इति ष्यञ् । ञॆत्त्वादाद्युदात्तः ॥ ६ ॥