प्रथमं मण्डलम् - सूक्तम् 50

13 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: सूर्यः छन्दः: गायत्री

सूक्तम् 1.50 - सम्पूर्णम्

1 / 13
ऋक्: 1.50.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.50.1
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व᳚हन्ति के॒तवः᳚ ।
दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । त्यम् । जा॒त॑वे᳚दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः᳚ ।
दृ॒शे । विश्वा᳚य । सूर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उदु त्यमिति त्रयोदशर्चं सप्तमं सूक्तं प्रस्कण्वस्यार्षं सूर्य देवत्यम् । अदौ नव गायत्र्यः शिष्टाश्चतस्रोऽनुष्टुभ इत्युक्तम् । तथा चानुक्रांतम् । उदु त्यं सप्तोना सौर्यं नवाद्या गायत्र्य इति ॥ आश्विनशस्त्रे सौर्ये क्रतावुदु त्यमित्यादयो नवर्चः शंसनीयाः । संस्थितेष्वाश्विनायेति खंडे सूत्रितम् । सूर्यो नो दिवि उदु त्यं जातवेदसमिति नव । अ ६-५ । इति ॥

केतवः प्रज्ञापकाः सूर्याश्वा यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यमुदु वहंति । ऊर्ध्वं वहंति । उ इति पादपूरणः । उक्तं च । मिताक्षरेष्वनर्थकाः कमीमिद्विति (नि १-९) किमर्थं विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यंति तथोर्ध्वं वहंतीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् । उद्वहंति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् । नि १२-१५ । इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वम् । चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । दृशे विख्ये च (पा ३-४-११) इति तुमर्थे निपातितः । सूर्यम् । राजसूयसूर्येत्यादिना षू प्रेरण इत्यस्मात् क्यपि रुडागमसहितो निपातितः । आतः प्रत्ययस्य पित्त्वादनुदात्तत्त्वे धातुस्वरेणाद्युदात्तत्वं ॥ १ ॥

1.50.2
अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष᳚त्रा यन्त्य॒क्तुभि᳚ः ।
सूरा᳚य वि॒श्वच᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
अप᳚ । त्ये । ता॒यवः᳚ । य॒था॒ । नक्ष᳚त्रा । य॒न्ति॒ । अ॒क्तु॑भिः᳚ ।
सूरा᳚य । वि॒श्व॑च᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये तायवो यथा प्रसिद्धास्तस्करा इव नक्षत्रा नक्षत्राणि देवगृहरूपाणि । देवगृहा वै नक्षत्राणि । तै ब्रा १ ५ २ ६ । इति श्रुत्यंतरात् । यद्वा । इह लोके कर्मानुष्ठाय ये स्वर्गं प्राप्नुवंति ते नक्षत्र रूपेण दृश्यंते । तथा च श्रूयते । यो वा इह यजतेऽमुं स लोकं नक्षते तन्नक्षत्राणां नक्षत्रत्वम् । तै ब्रा १-५-२-५ । इति । यद्वा । तेषां सुकृतिनां ज्योतींषि नक्षत्राण्युच्यंते । सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि । तै सं ५-४-१-३ । इत्याम्नानात् । यास्कस्त्वाह । नक्षत्राणि नक्षतेर्गतिकर्मणो नेमानि क्षत्राणीति च ब्राह्मणम् (नि ३-२०) इति तथानिधानि नक्षत्राण्यक्तुभी रात्रिभिः सहाप यंति । अपगच्छंति । विश्वचक्षसे विश्वस्य सर्वस्य प्रकाशकस्य सूराय सूर्यस्यागमनं दृष्ट्वेति शेषः । तस्करा नक्षत्राणि च रात्रिभिः सह सूर्य आगमिष्यतीति भीत्या पलायंत इत्यर्थः । तायुरिति स्तेननाम तायुस्तस्कर इति तन्नामसु पाठात् । आक्तुरिति रात्रिनाम । शर्वर्यक्तुरिति तत्र पाठात् । यथा । यथेति पादांत इति सर्वानुदात्तत्वम् । नक्षत्रा । नक्ष गतौ । आमिनक्षियजिबंधिपतिभ्योऽत्रन् (उ ३-१०५) इत्यत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । नभ्राण्नपादित्यत्र वृत्तौ त्वेवमुक्तम् । न क्षरति न क्षीयत इति वा नक्षत्रम् । क्षीयतेः क्षरतेर्वा नक्षत्रमिति निपात्यत इति । शेश्छंदसि बहुलमिति शेर्लोपः । यंति । इण् गतौ । इणो यणिति यणादेशः । सूराय विश्वचक्षसे । विश्वं चष्टे प्रकाशयतीति विश्वचक्षाः । चक्षेर्बहुलं शिच्च (उ ४-२३२) इत्यसुन्प्रत्ययः । शित्त्वेन सार्वधातुकत्वात् । ख्याञादेशाभावः । उभयत्र षष्ठ्यर्थे चतुर्थी वक्तव्या । म २-३-६२-१ । इति चतुर्थी ॥

1.50.3
अदृ᳚श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जना{4}॒ अनु᳚ ।
भ्राज᳚न्तो अ॒ग्नयो᳚ यथा ॥
▶ पदपाठः (Word-by-word)
अदृ᳚श्रम् । अ॒स्य॒ । के॒तवः᳚ । वि । र॒श्मयः᳚ । जना᳚न् । अनु᳚ ।
भ्राज᳚न्तः । अ॒ग्नयः᳚ । य॒था॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य सूर्यस्य केतवः प्रज्ञापका रश्मयो दीप्तयो जनाननु व्यदृश्रम् । जातान्सर्वाननुक्रमेण प्रेक्षंते । सर्वं जगत्प्रकाशयंतीत्यर्थः । तत्र दृष्टांतः । भ्राजंतो दीप्यमाना अग्नयो यथा अग्नय इव ॥ अदृश्रम् । दृशिर् प्रेक्षणे । वर्तमाने लुङ् । इरितो वा (पा ३-१-५७) इति च्लेरङादेशः । रुडित्यनुवृत्तौ बहुलं छंदसि (पा ७-१-८) इति रुडागमः । अत एव बहुलवचनादृदृशोऽङि गुण इति गुणाभाव इत्युक्तम् । तिङां तिङो भवंतीति प्रथमपुरुषबहुवचनस्योत्तमपुरुषै कवचनादेशः । प्रथमपुरुषांत एव शाखांतरे श्रूयते । अदृश्यन्नस्य केतवः । अथ १३-१-१८ । इति । जनानित्यस्य नकारस्य संहितायां रुत्वयात्वादि पूर्ववत् । भ्राजंतः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यती ॥ ३ ॥

1.50.4
त॒रणि᳚र्वि॒श्वद᳚र्शतो ज्योति॒ष्कृद᳚सि सूर्य ।
विश्व॒मा भा᳚सि रोच॒नम् ॥
▶ पदपाठः (Word-by-word)
त॒रणिः᳚ । वि॒श्व॑द᳚र्शतः । ज्यो॒तिः॒॑कृत् । अ॒सि॒ । सू॒र्य॒ ।
विश्व᳚म् । आ । भा॒सि॒ । रो॒च॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चातुर्मास्येषु शुनासीर्ये पर्वण्यस्ति सौर्य एककपालः । तस्य तरणिरित्येषानुवाक्या । तथा च सूत्रितम् । तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः (आ २-२०) इति । तथातिमूर्तिनाम्नेकाहे कृष्ण पक्षे सौरीष्विः कर्तव्या । तस्यामप्येषानुवाक्या । अतिमूर्तिनेति खंडे सूत्रितम् । नवो भवति जायमान स्तरणिर्विश्वदर्शतः (आ ९-८) इति

हे सूर्य त्वं तरणिस्तरिता अन्येन गंतुमशक्यस्य महतोऽध्वनो गंतासि । तथा च स्मर्यते । योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु त इति । यद्वा । उपासकानां रोगात्तारयितासि । आरोग्यं भास्करादिच्छेदिति स्मरणात् । तथा विश्वदर्शतो विश्वृः सर्वैः प्राणिभिर्दर्शनीयः । आदित्यदर्शनस्य चंडालादिदर्शनजनितपापनिर्हरणहेतुत्वात् । तथा चापस्तंबः । दर्शने ज्योतिषां दर्शनमिति । यद्वा । विश्वं सकलं भूतजातं दर्शतं द्रष्टव्यं प्रकाश्यं येन स तथोक्तः । तथा ज्योतिष्कृत् ज्योतिषः प्रकाशस्य कर्ता । सर्वस्य वस्तुनः प्रकाशयितेत्यर्थः । यद्वा । चंद्रादीनां रात्रौ प्रकाशयिता । रात्रौ ह्यब्मयेषु चंद्रादिबिंबेषु सूर्यकिरणाः प्रतिफलिताः संतोऽंधकारं निवारयंति यथा द्वारस्थदर्पणोपरि निपतिताः सूर्यरश्मयो गृहांतर्गतं तमो निवारयिंति तद्वदित्यर्थः । यस्मादेवं तस्माद्विश्वं व्याप्तं रोचनं रोचमानमंतरिक्षमा समंताद्भासि । प्रकाशयसि ॥ यद्वा । हे सूर्य अंतर्यामितया सर्वस्य प्रेरक परमात्मन् तरणिः संसाराब्धेस्तारकोऽसि । यस्मात्त्वं विश्वदर्शतो विश्वैः सर्वैर्मुमुक्षुभिर्दर्शतो द्रष्टव्यः । साक्षात्कर्तव्य इत्यर्थः । अधिष्ठानसाक्षात्कारे ह्यारोपितं निवर्तते । ज्योतिष्कृत् जोतिषः सूर्यादेः कर्ता । तथा चाम्नायते । चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत । तै आ ३-१२-६ । इति । ईदृशस्त्वं चिद्रूपतया विश्वं सर्वं दृश्यजातं रोचनं रोचमानं दीप्यमानं यथा भवति तथा भासि । प्रकाशयसि । चैतन्यस्फुरणे हि सर्वं जगद्दृश्यते । तथा चाम्नायते । तमेव भांतमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति । क उ ५-१५ । इति । तरणिः । तृ प्ल वनतरणयोः । अस्मादंतर्भावितण्यर्थादर्तिसृभृधृधम्यश्यवितृभ्योऽनिरित्य निप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । ज्योतिः करोतीति ज्योतिष्कृत् । क्विप्चेति क्विप् । नित्यं समासेऽनुत्तरपदस्थस्येति विसर्जनीयस्य षत्वम् । भासि । भा दीप्तौ । अंतर्भावितण्यर्थाल्लट्यदादित्याच्छपो लुक् ॥ ४ ॥

1.50.5
प्र॒त्यङ्दे॒वानां॒ विशः᳚ प्र॒त्यङ्ङुदे᳚षि॒ मानु᳚षान् ।
प्र॒त्यङ्विश्वं॒ स्व᳚र्दृ॒शे ॥
▶ पदपाठः (Word-by-word)
प्र॒त्यङ् । दे॒वाना᳚म् । विशः᳚ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु᳚षान् ।
प्र॒त्यङ् । विश्व᳚म् । स्वः᳚ । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वं देवानां विशो मरुन्नामकान्देवान् । मरुतो वै देवानां विशः । तै सं २-२-५-७ । इति श्रुत्यंतरात् । तान्मरुत्संज्ञ कान्देवान् प्रत्यङ्ङुदेषि । तान्प्रतिगच्छन्नुदयं प्राप्नोषि । तेषामभिमुखं यथा भवति तथेत्यर्थः । तथा मानुषान्मनुष्यान् प्रत्यङ्ङुदेषि । तेऽपि यथास्मदभिमुख एव सूर्य उदेतीति मन्यंते । तथा विश्वं व्याप्तं स्वः स्वर्लोकं दृशे द्रष्टुं प्रत्यङ्ङुदेषि । यथा स्वर्लोकवासिनो जनाः स्वस्वाभिमुख्येन पश्यंति तथोदेषीत्यर्थः । एतदुक्तं भवति लोकत्रयवर्तिनो जनाः सर्वेऽपि स्वस्वाभिमुख्येन सूर्यं पश्यंतीति । तथा चाम्नायते । तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति ॥ प्रत्यङ् । प्रत्यंचतीति प्रत्यङ् । अन्चु गतिपूजनयोः । ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । उगिदचामिति नुम् । हल्ङ्यादिसंयोगांतलोपौ । संयोगांतलोपस्यासिद्धत्वादुपधादीर्घन लोपयोरभावः । क्विन्प्रत्ययस्य कुः (पा ८-२-६२) इति कुत्वम् । अनिगंतोऽंचतौ (पा ६-२-५२) इत्यनिगंत इति पर्युदासात्पूर्वपदप्रकृतिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । एषि । इण् गतौ । सिप्यदादित्वाच्छपो लुक् । आदेशप्रत्यययोरिति षत्वम् । स्वः । सुपूर्वादर्तेर्विच् । गुणे यणादेशः । न्यङ् स्वरौ स्वरितौ चेति स्वरितत्वम् । दृशे । दृशिर् प्रेक्षण इत्यस्माद्दृशे विख्ये चेति तुमर्थे निपातितः ॥ ७ ॥ ५ ॥

1.50.6
येना᳚ पावक॒ चक्ष᳚सा भुर॒ण्यन्तं॒ जना{4}॒ अनु᳚ ।
त्वं व᳚रुण॒ पश्य᳚सि ॥
▶ पदपाठः (Word-by-word)
येन᳚ । पा॒व॒क॒ । चक्ष᳚सा । भु॒र॒ण्यन्त᳚म् । जना᳚न् । अनु᳚ ।
त्वम् । व॒रु॒ण॒ । पश्य᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पावक सर्वस्य शोधक वरुणानिष्वनिवारक सूर्य त्वं जनान् जातान्प्राणिनो भुरण्यंतं धारयंतं पोषयंतं वेमं लोकं येन चक्षुसा प्रकाशेनानु पश्यसि अनुक्रमेण प्रकाशयसि । तं प्रकाशं स्तुम इति शेषः । यद्वा । उत्तरस्यामृचि संबंधः । तेन चक्षसा व्येषीति । तथा च यास्केनोक्तम् । तत्ते वयं स्तुम इति वाक्यशेषोऽपि वोत्तरस्या मन्वयस्तेन व्येषि । नि १२-२२ । इति ॥ भुरण्यंतम् । भुरण धारणपोषणयोः । कंड्वादित्वाद्यक् । ततः शतरि कर्तरि शप् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । वरुण । वृञ् वरणे । अस्मादंतर्भावितण्यर्थात्कृवृतृदारिभ्य उनन् (उ ३-५३) इत्युनन्प्रत्ययः । अत्र वरुणशब्देनादित्य एवोच्यते । तथा चान्यत्राम्नातम् । तस्मै मित्रश्च वरुणश्चाजायेता मिति । मित्रश्च वरुणश्च धाता चार्यमा च । तै आ १-१३-३ । इति च ॥ ६ ॥

1.50.7
वि द्यामे᳚षि॒ रज᳚स्पृ॒थ्वहा॒ मिमा᳚नो अ॒क्तुभि᳚ः ।
पश्य॒ञ्जन्मा᳚नि सूर्य ॥
▶ पदपाठः (Word-by-word)
वि । द्याम् । ए॒षि॒ । रजः᳚ । पृ॒थु । अहा᳚ । मिमा᳚नः । अ॒क्तु॑भिः᳚ ।
पश्य᳚न् । जन्मा᳚नि । सू॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वं पृथु विस्तीर्णं रजो लोकम् । लोका रजांस्युच्यंत इति यास्कः (नि ४-१९) कं लोकम् । द्यामंतरिक्षलोकम् । व्येषि । विशेषण गच्छसि । किं कुर्वन् । अहाहान्यक्तुभी रात्रिभिः सह मिमान उत्पादयन् । आदित्यगत्यधीनत्वादहोरात्रविभागस्य । तथा जन्मानि जननवंति भूतजातानि पश्यन् प्रकाशयन् । रजस्पृथ्वित्यत्र च्छंदसि वाप्राम्रेडितयोः (पा ८-३-४९) इति विसर्जनीयस्य सत्वम् । अहा । शेश्छंदसि बहुलमिति शेर्लोपः । मिमानः । माङ् माने । जौहोत्यादिकः । शानचि श्लौ द्विर्भावे भृ ञामिदित्यभ्यासस्येत्वम् । श्नाभ्यस्तयोरात इत्याकारलोपः । अभ्यस्तानामादिरित्यभ्यस्तस्याद्युदात्तत्वम् । जन्मानि । जनी प्रादुर्भावे । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥

1.50.8
स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य ।
शो॒चिष्के᳚शं विचक्षण ॥
▶ पदपाठः (Word-by-word)
स॒प्त । त्वा॒ । ह॒रितः᳚ । रथे᳚ । वह᳚न्ति । दे॒व॒ । सू॒र्य॒ ।
शो॒चिः॑के᳚शम् । वि॒॑च॒क्ष॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य देव द्योतमान विचक्षण सर्वस्य प्रकाशयितः सप्त सप्तसंख्याका हरितोऽत्वा रसहरणशीला रश्मयो वा त्वा त्वां वहंति । प्रापयंति । कीदृशम् । रथेऽवस्थितमिति शेषः । तथा शोचिष्केतम् । शोचींषि तेजांस्येव यस्मिन्केशा इव दृश्यंते स तथोक्तः । तम् । हरित इत्यादित्याश्वानां संज्ञा हरित आदित्यस्येति निघंटावुक्तत्वात् ॥ शोचिष्केशम् । शुच दीप्तौ । अर्चिशुचिहृसृपीत्यादिनेसिप्रत्ययांतोऽंतोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते । नित्यं समासेऽनुत्तरपदस्थस्येति विसर्जनीयस्य षत्वं ॥ ८ ॥

1.50.9
अयु᳚क्त स॒प्त शु॒न्ध्युव॒ः सूरो॒ रथ᳚स्य न॒प्त्य᳚ः ।
ताभि᳚र्याति॒ स्वयु᳚क्तिभिः ॥
▶ पदपाठः (Word-by-word)
अयु᳚क्त । स॒प्त । शु॒न्ध्युवः᳚ । सूरः᳚ । रथ᳚स्य । न॒प्त्यः᳚ ।
ताभिः᳚ । या॒ति॒ । स्वयु᳚क्ति॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरः सर्वस्य प्रेरकः सूर्यः शुंध्युवः शोधिका अश्वस्त्रियः वादृशीः सप्त सप्तसंख्याका अयुक्त । स्वरथे योजितवान् । कीदृश्यः । रथस्य नप्त्यो न पातयित्र्यः याभिर्युक्ताभी रथो याति न पतति तादृशीभिंत्यर्थः । एवं भूताभिस्ताभिरश्वस्त्रीभिः स्वयुक्तिभिः स्वकीययोजनेन रथे संबद्धाभिर्याति । यज्ञगृहं प्रत्यागच्छति । अतस्तस्मै हविर्दातव्यमिति वाक्यशेषः ॥ अयुक्त । युजिर् योगे । स्वरितेत्त्वात्कर्त्रभिप्राय आत्मनेपदम् । लुङि च्लेः सिच् । एकाच इतीट् प्रतिषेधः । लिङ् सिचावात्मनेपदेषु (पा १-२-११) इति सिचः कित्त्वाल्लघूपधगुणाभावः । झलो झलीति सिचः सकारलोपः । चोः कुरिति कुत्वम् । शुंध्युवः । शुन्ध विशुद्धौ । यजिमनिशुंधिदसिजनिभ्यो युः (उ ३-२०) इति युप्रत्ययः । शसि तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङादेशः । सूरः । षू प्रेरणे । सुसूधागृधिभ्यः क्रन् (उ २-२४) इति क्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । नप्त्यः । न पातयतीत्यर्थेनप्तृनेष्टृ (उ २-९६) इत्यादिनोणादिषु नप्तृशब्दस्तृजंतो निपातितः । यन्नेभ्यो ङीबिति ङीप् । यणादेश उदात्तयणो हल्पूर्वादिति ङीप उदात्तत्वम् । सुपां सुपो भवंतीति शसो जसादेशः । ततो यणादेश उदात्तस्वरितयोर्यण इति स्वरितत्वम् । रेफलोपश्छांदसः । उक्तं च । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ इति । शाखांतरे तु नप्त्र्य इत्येव पठ्यते । स्वयुक्तिभिः । स्वकीर्या सूर्यसंबंधि न्यो युक यो योजनानि यासाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥

1.50.10
उद्व॒यं तम᳚स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त᳚रम् ।
दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति᳚रुत्त॒मम् ॥
▶ पदपाठः (Word-by-word)
उत् । व॒यम् । तम᳚सः । परि᳚ । ज्योतिः᳚ । पश्य᳚न्तः । उत्॑त᳚रम् ।
दे॒वम् । दे॒व॒॑त्रा । सूर्य᳚म् । अग᳚न्म । ज्योतिः᳚ । उ॒त्॑त॒मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवभृथेष्टौ होत्रका जलान्निष्क्रम्योद्वयं तमसस्परीति मंत्रं ब्रूयुः । तथा च पत्नीसंयाजैश्चरित्वेति खंडे सूत्रितम् । उद्वयं तमसस्परीत्युदेत्य (आ ६-१२) इति ॥

वयमनुष्ठातारस्तमसस्परि तमस उपरि रात्रेरूर्ध्वं वर्तमानं तमसः पापात्पर्युपरि वर्तमानं वा । पापरहितमित्यर्थः । तथा चाम्नायते । उद्वयं तमसस्परीत्याह पाप्मा वै तमः पाप्मानमेवास्मादप हंति । तै सं ५-१-८-६ । इति । ज्योतिस्तेजस्विनमुत्तरमुद्ग ततरमुत्कृष्वतरं वा देवत्रा देवेषु मध्ये देवं दानादिगुणयुक्तं सूर्यं पश्यंतः स्तुतिभिर्हविर्भिश्चोपासीनाः संत उत्तममुत्कृष्टतमं ज्योतिः सूर्यरूपमगन्म । प्राप्नवाम । तथा च शूयते । अगन्म ज्योतिरुत्तममित्याहासौ वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यं गच्छतीति । युक्तं चैतत् । तं यथा यथोपासते तदेव भवंतीति श्रुत्यंतरात् ॥ तमसस्परि । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम् । ज्योतिष्पश्यंतः । इसुसोः सामर्थ्ये (पा ८-२-४४) इति विसर्जनीयस्य षत्वम् । व्यपेक्षालक्षणं सामर्थ्यं तत्रांगीक्रियते । देवत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्यार्बहुलम् (पा ५-४-५६) इति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः । अगन्म । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लङि बहुलं छंदसीति शपो लुक् । म्वोश्च (पा ८-२-६५) इति धातोर्मकारस्य नकारः । अडागम उदात्तः । पादादित्वान्नि घाताभावः । उत्तमम् । तमपः पित्त्वा दनुदात्तत्वे प्राप्त उत्तमशश्वत्तमौ सर्वत्रेत्युंछादिषु पाठादंतोदात्तत्वं ॥ १० ॥

1.50.11 समानपद
उ॒द्यन्न॒द्य मि᳚त्रमह आ॒रोह॒न्नुत्त᳚रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम᳚ सूर्य हरि॒माणं᳚ च नाशय ॥
▶ पदपाठः (Word-by-word)
उ॒त्॑यन् । अ॒द्य । मि॒त्र॒॑म॒हः॒ । आ॒॑रोह᳚न् । उत्॑त᳚राम् । दिव᳚म् ।
हृ॒त्॑रो॒गम् । मम᳚ । सू॒र्य॒ । ह॒रि॒माण᳚म् । च॒ । ना॒श॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उद्यन्नित्ययं तृचो रोगशांत्यर्थः । तथा चानुक्रमण्यामुक्तम् । अंत्यस्तृचो रोगघ्न उपनिषदिति । युक्तं चैतत् । यस्मादनेन तृचेन त्वग्दोषशांतये प्रस्कण्वः सूर्यमस्तौत् तेन तृचेन स्तुतः सूर्यस्तमृषिं रोगान्निरगमयत् तस्मा दिदानीमपि रोगशांतयेऽनेन तृचेन सूर्य उपासनीयः । तदुक्तं शौनकेन । उद्यन्नद्येति मंत्रोऽयं सौरः पापप्रणाशनः । रोगघ्नश्च विषघ्नश्च भुक्तिमुक्ति फलप्रद इति ॥

हे सूर्य सर्वस्य प्रेरक मित्रमहः सर्वेषामनुकूलदीप्तियुक्त आद्यास्मिन्काल उद्यन् उदयं गच्छन् उत्तरामुद्गततरां दिवमंतरिक्षमारोहन् आभिमुख्येन प्राप्नुवन् । यद्वा । दिवमंतरिक्षमुत्तरामारोहन् उत्कर्षेण प्राप्नुवन् । एवंविधस्त्वं मम हृद्रोगं हृदयगतमांतरं रोगं हरिमाणं शरीरगतकांतिहरणशीलं बाह्यं रोगम् । यद्वा । शरीरगतं हरिद्वर्णं रोगप्राप्तं वैवर्ण्यमित्यर्थः । तदुभयमपि नाशय । मां स्तोतारमुभयविधाद्रोगान्मोचयेत्यर्थः ॥ मित्रमहः । मित्रमनुकूलं महस्तेजो यस्यासौ । आमंत्रितनिघातः । उत्तराम् । उदित्यनेनोपसर्गेण स्वसंसृष्टधात्वर्थो लक्ष्यते । तस्मादातिशायनिकस्तरप्प्रत्ययः । प्रथमपक्षेंतरिक्षविशेषत्वेन द्रव्यप्रकर्षप्रतीतेरां न भवति । द्वितीये त्वारोहण क्रियायाः प्रकर्षो गम्यत इति किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे (पा ५-४-११) इति आमुः । प्रथमपक्षे टाप्तरपोः पित्त्वादनुदात्तत्व उपसर्गस्वर एव शिष्यते । द्वितीये त्वाम्प्रत्ययस्य सति शिष्टत्वात्तस्यैव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । स ह्याकृतिगणः । हृद्रोगम् । वा शोकष्यञ् रोगेषु (पा ६-३-५१) इति हृदयशब्दस्य हृदादेशः । मम । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वम् । हरिमाणम् । हृञ् हरणे । जनिहृभ्यामिमनिन् (उ ४-१४८) इत्यौणादिक इमनिन्प्रत्ययः । व्यत्ययेनांतोदात्तत्वम् । यद्वा । हरिच्छब्दस्य वर्णवाचित्वाद्वर्णदृढादिभ्यः ष्यञ् च (पा ५-१-१२३) इति चकारादिमनिन्प्रत्ययः । इष्ठेमेयःस्वित्यनुवृत्तौ टीरिति टलोपः ॥ ११ ॥

1.50.12
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु᳚ मे हरि॒माणं॒ नि द᳚ध्मसि ॥
▶ पदपाठः (Word-by-word)
शुके᳚षु । मे॒ । ह॒रि॒माण᳚म् । रो॒प॒णाका᳚सु । द॒ध्म॒सि॒ ।
अथो॒ इति᳚ । हा॒रि॒द्र॒वेषु᳚ । मे॒ । ह॒रि॒माण॒म् । नि । द॒ध्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मदीयं हरिमाणं शरीरगतं हरिद्वर्णस्य भावं शुकेषु तादृशं वर्णं कामयमानेषु पक्षिषु तथा रोपणाकासु शारिकासु पक्षिविशेषेषु दध्मसि । स्थापयामः । अथो अपि च हारिद्रवेषु हरितालद्रुमेषु तादृग्वण वत्सु मे मदियं हरिमाणं नि दध्मसि । निदधीमहि । स च हरिमा तत्रैव सुखेनास्तामस्मान्मा वाधिष्टेत्यर्थः ॥ दध्मसि । इदंतो मसिरिति मस इकारागमः ॥ १२ ॥

1.50.13 समानपद
उद᳚गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह᳚सा स॒ह ।
द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि᳚ष॒ते र᳚धम् ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे᳚न । सह᳚सा । स॒ह ।
द्वि॒षन्त᳚म् । मह्य᳚म् । र॒न्धय᳚न् । मो इति᳚ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं पुरोवर्त्यादित्योऽदितेः पुत्रः सूर्यो विश्वेन सदसा सर्वेण जलेन सहोदगात् । उदयं प्राप्तवान् । किं कुर्वन् । मह्यं द्विषंतं रंधयन् । ममोपद्रवकारिणं हिंसन् । अपि चाहं द्विषतेऽनिष्टकारिणे रोगाय मो रधम् । नैव हिंसां करोमि । सूर्य एव अस्मदनिष्टकारिणं रोगं विनाशयत्वित्यर्थः ॥ अगात् एतेर्लुङीणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । आदित्यः । दित्यदित्यादित्येत्यपत्यार्थे प्राग्दीव्यतीयो ण्यप्रत्ययः । रंधयन् । रध हिंसासंराद्ध्योः । ण्यंताल्लटः शतृ । रधिजभोरचि (पा ७-१-६१) इति णौ धातोर्नुमागमः । मो । मा उ निपातद्वयसमुदायो मैवेत्यस्यार्थे । ओत् (पा १-१-१५) इति प्रगृहृत्वे प्लुतप्रगृह्या अचीति प्रकृतिभावः । द्विषते । शतुरनुम इति विभक्तेरुदात्तत्वम् । रधम् । रधेर्लुङि पुषादित्वात् च्लेरङादेशः । रधिजभोरचीति धातोर्नुम् । अनिदितामित्यनुषंगलोपः । न माङ्योग इत्यडभावः ॥ १३ ॥