हवा᳚महे त्वा व॒यं प्रय᳚स्वन्तः सु॒ते सचा᳚ ।
पु॒त्रासो॒ न पि॒तरं॒ वाज᳚सातये॒ मंहि᳚ष्ठं॒ वाज᳚सातये ॥
पदपाठः (Word-by-word)
हवा᳚महे । त्वा॒ । व॒यम् । प्रय᳚स्वन्तः । सु॒ते । सचा᳚ ।
पु॒त्रासः᳚ । न । पि॒तर᳚म् । वाज᳚॑सातये । मंहि᳚ष्ठम् । वाज᳚॑सातये ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र परावतः दूरदेशात्स्वर्गलक्षणान्नोऽस्मानुपयाहि अस्मत्समीपंप्रत्यागच्छ तत्रदृष्टान्तः-अयं- नपुरोवर्ती अग्निरभिषुतः सोमोवाप्रस्तुतत्वान्निर्दिश्यते सइवयद्यपि पुरस्तादुपचारान्निषेधार्थीयोन- कारःसर्वत्र तथाप्यत्रौचित्येनोपमार्थीयोगृह्यते यद्वा परावतोन दूरदेशादिव यद्यपि यज्ञेसर्वदासंनि- हितस्तथापि स्वर्गाख्यादृउरदेशादिव अस्मिन्यज्ञे अयमिती विभक्तिव्यत्ययः अमुंदेवयजनदेशं अच्छ- अभिप्राप्तुं आयाहीतिशेषः तत्रदृष्टान्तः—सत्पतिः सतांसर्वदा वर्तमानानामृत्विजां पालकोयजमान- इव पत्यावैश्वर्येइतिपूर्वपदप्रकृतिस्वरत्वं सयथा विदथानि यज्ञगृहाण्यागच्छति तद्वत् त्वमपि यज्ञ- गृहाण्यागच्छ यद्वा सतां नक्षत्राणां पतिश्चन्द्रमाः राजा राजमानःसन्अस्तमिव सयथा स्वधामस्था- नमागच्छति तद्वत् किंच प्रयस्वन्तोहविर्लक्षणान्नवन्तोवयं यजमानाः त्वा त्वां हवामहे आह्वयामः किमर्थं सुते अभिषुतेसोमेनिमित्तभूतेसति कीदृशावयं सचा ऋत्विग्भिःसहिताः सचासहेत्यर्थइति- यास्कः । आह्वाने दृष्टान्तः—पुत्रासः पुत्राः पितरं न पालकंजनकमिव तंयथावाजसातयेअन्नस्यसं- भजनाय आह्वयन्तितथा वयमपित्वांतदर्थमाह्वयामः किंच मंहिष्ठं मंहनीयं त्वां वाजसातये संग्रा- मप्राप्तये तज्जयाय हविःस्वीकारायवाआह्वयामः ॥ १ ॥ षष्ठेहनिमाध्यंदिनसवनेप्रस्थितयाज्यानांपुरस्तादन्याऋचः प्रक्षेपणीयाः तत्रहोतुःपुरस्तात्पिबा- सोममिन्द्रेत्येषा षष्ठस्यप्रातःसवनइतिखण्डेसूत्रितम—पिबासोममिन्द्रसुवानमद्रिभिरिन्द्रायहिद्यौर- सुरोअनम्नतेति ।