श्रवणम्

1.130.3
अवि᳚न्दद्दि॒वो निहि᳚तं॒ गुहा᳚ नि॒धिं वेर्न गर्भं॒ परि᳚वीत॒मश्म᳚न्यन॒न्ते अ॒न्तरश्म᳚नि ।
व्र॒जं व॒ज्री गवा᳚मिव॒ सिषा᳚स॒न्नङ्गि᳚रस्तमः ।
अपा᳚वृणो॒दिष॒ इन्द्र॒ः परी᳚वृता॒ द्वार॒ इष॒ः परी᳚वृताः ॥
▶ पदपाठः (Word-by-word)
अवि᳚न्दत् । दि॒वः । नि॑हि᳚तम् । गुहा᳚ । नि॒॑धिम् । वेः । न । गर्भ᳚म् । परि᳚॑वीतम् । अश्म᳚नि । अ॒न॒न्ते । अ॒न्तः । अश्म᳚नि ।
व्र॒जम् । व॒ज्री । गवा᳚म्॑इव । सिसा᳚सन् । अङ्गि᳚रः॑तमः ।
अप᳚ । अ॒वृ॒णो॒त् । इषः᳚ । इन्द्रः᳚ । परि᳚॑वृताः । द्वारः᳚ । इषः᳚ । परि᳚॑वृताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः दिवोद्युलोकात् आनीतं सोमं अविन्दत् अलभत लब्धवान् द्युलोकाद्गायत्र्या पक्षिरूप- यापहृतं भूमावानीतं स्वीकृतवानित्यर्थः द्युलोकादानयनंतैत्तिरीये—तृतीयस्यामितोदिविसोमआसी- त्तंगायत्र्याहरदित्यादिषुप्रसिद्धं सएवविशेष्यते गुहानिहितं अतिगोप्येप्रदेशे पर्वतादौ स्थापितं अत- एव निधिंनिधिस्थानीयंअनाशमित्यर्थः आनयनेदृष्टान्तः—वेः पक्षिणोगर्भंन शिशुमिव यथा कपोता- दिस्त्रीपक्षी स्वशिशुं व्याधादिभयात् कस्मिंश्चिदृउर्गमेस्थापयित्वा तत्स्थानमजानती परिभ्रम्यविन्दते तद्वदित्यर्थः पुनःकीदृशं अश्मनि पाषाणे अतिमहति विस्तृते अनन्ते अश्मनि अपरिमितपाषाणे पर्व- तादौ अन्तर्मध्ये परिवीतं लताकंटकादिनापरितोवेष्टितं सत्स्वपीतरेषु देवेषु कोऽस्यातिशयइति तत्राह्—अयमिन्द्रोवज्री वज्रवान् अंगिरस्तमः अतिशयेनांगारवद्दीप्यमानः गवांव्रजमिव पणिना- सुरेणापहृतं भूमौ खनित्वा पाषाणेनपिहितद्वारं गवांव्रजं यथा तमसुरं जित्वा द्वारमुद्घाट्यलब्धवान् तद्वत्सोमं सिषासन् संभक्तुमिच्छन् सनीवन्तर्धेतिविकल्पनादिडभावे जनसनखनेत्यात्वं अविन्दत् अयमर्थः पणिनेवगावइत्यादिश्रुतिषुप्रसिद्धः । तथायमिन्द्रः परीवृताःपरितोमेघेनावृत्ताः इषः अन्नहे- तुभूतस्योदकस्यद्वारः द्वाराणि अपावृणोत् अपवृतान्यकरोत् उद्घाटितवानित्यर्थः तथाकृत्वा इषः इष्यमाणानि व्रीह्याद्यन्नानि परिवृताः भूमौपरितोव्याप्तान्यकरोत् वज्रेणमेघंभित्त्वाजलवर्षणेनस- स्यादिसमृद्धिंकृत्वा व्रीह्यादिकंभूमौव्याप्तमकरोदित्यर्थः यतोयमेवंकृतवान् अतोऽस्यसोमस्वीकारो- युक्तः ॥ ३ ॥