श्रवणम्

1.130.6
इ॒मां ते॒ वाचं᳚ वसू॒यन्त᳚ आ॒यवो॒ रथं॒ न धीर॒ः स्वपा᳚ अतक्षिषुः सु॒म्नाय॒ त्वाम᳚तक्षिषुः ।
शु॒म्भन्तो॒ जेन्यं᳚ यथा॒ वाजे᳚षु विप्र वा॒जिन᳚म् ।
अत्य᳚मिव॒ शव᳚से सा॒तये॒ धना॒ विश्वा॒ धना᳚नि सा॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ते॒ । वाच᳚म् । व॒सु॒॑यन्तः᳚ । आ॒यवः᳚ । रथ᳚म् । न । धीरः᳚ । सु॒॑अपाः᳚ । अ॒त॒क्षि॒षुः॒ । सु॒म्नाय᳚ । त्वाम् । अ॒त॒क्षि॒षुः॒ ।
शु॒म्भन्तः᳚ । जेन्य᳚म् । य॒था॒ । वाजे᳚षु । वि॒प्र॒ । वा॒जिन᳚म् ।
अत्य᳚म्॑इव । शव᳚से । सा॒तये᳚ । धना᳚ । विश्वा᳚ । धना᳚नि । सा॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेत्वदर्थं वसूयन्तोधनमात्मनइच्छन्तःआयवः दातव्यहवीरूपान्नवन्तऋत्विजः आयवइति- मनुष्यनाम आयवः अनवइतितन्नामसुपाठात् तेइमांक्रियमाणांस्तुतिरूपांवाचं अतक्षिषुः संपादितव- न्तः तत्रदृष्टान्तः—स्वपाः शोभनकर्मवान् कुशलीवा बहुव्रीहौसोर्मनसीइत्युत्तरपदाद्युदात्तत्वम् धीरः धीमान् रथंन रथमिव तंयथाप्रयत्नेनसाधुकरोति तद्वत् एवंकृत्वात्वांसुम्नायसुखायअतक्षिषुः अनुकूल- मुत्पादयन्ति सुम्नमितिसुखनाम सुम्नंसुग्म्यमितितन्नामसुपाठात् किंच हेविप्रमेधाविन्निन्द्र वाजेषुसं- ग्रामेषुयथोत्साहयंन्ति तद्वत् किंच शवसेबलाय धना धनानांसातयेलाभायचस्तुमइतिशेषः ऊतियू- तिजूतिसातीत्यादिनाक्तिनउदात्तत्वं नकेवलंधनमात्रं किंतु विश्वाधनानिसातयेकृत्स्नानिप्रीणनसाध- नानिगवादिधनानि षष्ठ्यर्थेद्वितीया तेषांलाभाय तत्रदृष्टान्तः—धना धने संग्रामेशवसेवैरिजयसाध- नबलाय सातयेतेषामेवधनानांप्राप्तयेचअत्यमिवसततगामिनमश्वमिव तंयथास्तुवन्तितद्वत् ॥ ६ ॥