सं॒वि॒व्या॒न ओज᳚सा॒ शवो᳚भिरिन्द्र म॒ज्मना᳚ ।
तष्टे᳚व वृ॒क्षं व॒निनो॒ नि वृ᳚श्चसि पर॒श्वेव॒ नि वृ᳚श्चसि ॥
पदपाठः (Word-by-word)
स॒म्॑वि॒व्या॒नः । ओज᳚सा । शवः᳚॑भिः । इ॒न्द्र॒ । म॒ज्मना᳚ ।
तष्टा᳚॑इव । वृ॒क्षम् । व॒निनः᳚ । नि । वृ॒श्च॒सि॒ । प॒र॒श्वा॑इ᳚व । नि । वृ॒श्च॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रः गभस्त्योर्बाह्वोः वज्रंददृहाणः दृढंगृह्णन् दृहदृहिवृद्धौ लिटःकानच् गभस्तीइतिबाहु- नाम गभस्तीबाहूइतितन्नामसुपाठात् किमर्थंअसनायशत्रोरुपरिक्षेपणाय तिग्मंअत्यन्ततीक्ष्णंवज्रंसं- श्यत् सम्यक् तीक्ष्णीकरोति शोतनूकरणे ओतःश्यनीत्योकारलोपः छान्दसोडभावः यद्वा लेटीतश्चलो- पइतीकारलोपः तत्रदृष्टान्तः—क्षद्भ्येव उदकमिव उदकंयथाशत्रूणां निरसनाय अभिमन्त्रणादिसं- स्कारेणतीक्ष्णीक्रियत द्त् क्ष्रद्भ्येत्युदकनाम क्षद्भ्यनभइतितन्नामसुपाठात् पुनरपितदेवविशेष्यते अहिहत्याह अहेर्वृत्रस्यमेघस्यवाहननाय हन्तेर्हनस्तचेतिक्यप् तकारान्तादेशश्च संश्यत् पूर्वमेवती- क्ष्णंसत् पुनरपिवधायतीक्ष्णयति हेइन्द्र ओजसा बलेन पराभिभवनसामर्थ्येन शवोभिः सेनालक्षणैर्ब- लैः मज्मना शारीरेणचबलेन संविव्यानः सम्यग्युक्तः सन् विव्यानइतिलिटःकानच् ग्राहिज्यावयीति- संप्रसारणं तष्टावृक्षमिव यथाकश्चित्तष्टावृक्षाणां तक्षणस्य साधुकर्ता वनिनोवनसंबन्धिनोवृक्षं निवृ- श्चति स्वोपयोगायनितरांछिनत्ति तक्षणेमतनूकरोति तथात्वमप्यस्मासुवक्रमाचरंतं शत्रुं निवृश्चति किंच परश्वेवनिवृश्चसि यथापरशुना कश्चिच्छिनत्तिवृक्षं तथा त्वमप्युक्तैस्त्रिविधैर्बलैः नितरामस्मद्द्वे- षिणं वृश्चसि ॥ ४ ॥