श्रवणम्

1.130.7
भि॒नत्पुरो᳚ नव॒तिमि᳚न्द्र पू॒रवे॒ दिवो᳚दासाय॒ महि᳚ दा॒शुषे᳚ नृतो॒ वज्रे᳚ण दा॒शुषे᳚ नृतो ।
अ॒ति॒थि॒ग्वाय॒ शम्ब᳚रं गि॒रेरु॒ग्रो अवा᳚भरत् ।
म॒हो धना᳚नि॒ दय᳚मान॒ ओज᳚सा॒ विश्वा॒ धना॒न्योज᳚सा ॥
▶ पदपाठः (Word-by-word)
भि॒नत् । पुरः᳚ । न॒व॒तिम् । इ॒न्द्र॒ । पू॒रवे᳚ । दिवः᳚॑दासाय । महि᳚ । दा॒शुषे᳚ । नृ॒तो॒ इति᳚ । वज्रे᳚ण । दा॒शुषे᳚ । नृ॒तो॒ इति᳚ ।
अ॒ति॒थि॒॑ग्वाय᳚ । शम्ब᳚रम् । गि॒रेः । उ॒ग्रः । अव᳚ । अ॒भ॒र॒त् ।
म॒हः । धना᳚नि । दय᳚मानः । ओज᳚सा । विश्वा᳚ । धना᳚नि । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र नृतो रणेनर्तनशील त्वं दाशुषे हविर्दत्तवते पूरवे अभिमतपूरकायमनुष्याय मनुष्यनामैतत् महि महते दिवोदासायएतन्नामकायराज्ञे दिवोदासे षष्ठ्याअलुगित्यलुक् दिवोदासादीनांछन्दसी- तिपूर्वपदाद्युदात्तत्वं नवतिं एतत्संख्याकानि पुरः शत्रूणांपुराणिभिनत् भिन्नवान सि तथा हेनृतो गात्रविक्षेपणकुशल हस्तपादादिप्रक्षेपेणशत्रूणांहिंसक वज्रेणक्षेपणसमर्थेनायुधेमदाशुषेहविर्दत्तवते दिवोदासायान्यस्मै वाभिनत् तमपिशत्रुंभिन्नवानसि इदानींपरोक्षेणाह-अतिथिग्वायपूजार्थमतिथिं- गच्छते दिवोदासायतदर्थं गमेरौणादिकोड्वप्रत्ययः उग्रः उद्गूर्णबलइन्द्रःपूर्वंपुरभेदनसमये विद्धमपि अम्नियमाणं गिरिमारूढंशंबरं एतन्नामानमसुरं गिरेः दुर्गमात्पर्वतादेः सकाशात् ओजसास्वकीयेनब- लेनअवाभरत् अवाङ्मुखमवकृष्य प्राणंत्दृतवान् किंकुर्वन् महः महांतिधनानि तदीयगवाश्वादीनि दयमानः दिवोदासायराज्ञेसाधयन् दयदानगतिहिंसादानेषु शपः पित्त्वादनुदात्तत्वेशानचोलसार्वधा- तुकस्वरेणधातुस्वरः नकेवलमल्पंधनं किंतु विश्वाधनानि सर्वाण्यपितेषां मणिमक्तादीनि ओजसास्व- कीयेनबलेन दयमानः साधयन् अवाभरत् ॥ ७ ॥