प्रथमं मण्डलम् - सूक्तम् 129

11 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: इंद्रः छन्दः: अत्यष्टिः

सूक्तम् 1.129 - सम्पूर्णम्

1 / 11
ऋक्: 1.129.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.129.1
यं त्वं रथ᳚मिन्द्र मे॒धसा᳚तये॑पा॒का सन्त᳚मिषिर प्र॒णय᳚सि॒ प्रान᳚वद्य॒ नय᳚सि ।
स॒द्यश्चि॒त्तम॒भिष्ट᳚ये॒ करो॒ वश᳚श्च वा॒जिन᳚म् ।
सास्माक᳚मनवद्य तूतुजान वे॒धसा᳚मि॒मां वाचं॒ न वे॒धसा᳚म् ॥
▶ पदपाठः (Word-by-word)
यम् । त्वम् । रथ᳚म् । इ॒न्द्र॒ । मे॒ध॑सा᳚तये । अ॒पा॒का । सन्त᳚म् । इ॒षि॒र॒ । प्र॒॑नय᳚सि । प्र । अ॒न॒व॒द्य॒ । नय᳚सि ।
स॒द्यः । चि॒त् । तम् । अ॒भिष्ट᳚ये । करः᳚ । वशः᳚ । च॒ । वा॒जिन᳚म् ।
सः । अ॒स्माक᳚म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा᳚म् । इ॒माम् । वाच᳚म् । न । वे॒धसा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र इषिर यज्ञगमनशील त्वंमेधसातये यज्ञस्यदानाय लाभायवा यं यजमानं प्रतिरथं प्रणयसि प्रापयसि द्विकर्मकोयं कीदृशं यजमानं अपाका अपाकं अनल्पप्रज्ञयाधिकारवन्तं पाकःपक्तव्योभवती- तियास्कः । अतएव सन्तं पण्डितंसन्तं किंच हेअनवद्य अनिन्दित यं यजमानं धनविद्यादिनाप्रणयसि प्रकृष्टंनयसि तं यजमानं सद्यश्चित् तदानीमेव तदनुग्रहकालएव अभिष्टये आभिमुख्येनयागाय अभि- मतप्राप्तयेवा अभिपूर्वादिषेःक्तिन् शकंध्वादित्वात्पररूपत्वं गतिरनन्तरइतिगतेः प्रकृतिस्वरत्वं करः समर्थंकरोषि लेटिव्यत्ययेनशप् एवंकृत्वाच वाजिनं हविर्लक्षणमन्नंतद्वन्तं वावशः कामयसेच वष्टेर्ले- ट्यडागमः तिङः परत्वादनिघातः यजमानेनआहूतः सन् शीघ्रमेवागत्य हविःस्वीकृत्य यागंसाधुनि- र्वर्त्य तंचाभिमतफलेनसंयोज्य पुनर्हविः स्वीकरोषीत्यर्थः हेइन्द्र अनवद्यअनिन्दित सर्वैः स्तूयमान तूतुजान अस्माननुग्रहीतुं त्वरमाण तुजेः प्रेरणार्थाल्लिटः कानच् तुजादीनांदीर्घोभ्यासस्येत्यभ्यास- स्यदीर्घत्वम् सत्वं सोचिलोपेचेदितिसंहितायांसोर्लोपः सत्वं वेधसां विविधफलकर्तॄणांमध्येश्रेष्ठतया वेधसां मेधाविनां अस्माकं संबन्धिहविः स्वीकुर्वित्यर्थः तत्रदृष्टान्तः—इमांवाचंन अस्मदीयांस्तु- तिरूपांवाचमिव स्तुतिंयथास्वीकरोषितथाहविरपीत्यर्थः ॥ १ ॥

1.129.2
स श्रु᳚धि॒ यः स्मा॒ पृत᳚नासु॒ कासु᳚ चिद्द॒क्षाय्य᳚ इन्द्र॒ भर᳚हूतये॒ नृभि॒रसि॒ प्रतू᳚र्तये॒ नृभि᳚ः ।
यः शूरै॒ः स्व१॒᳚ः सनि᳚ता॒ यो विप्रै॒र्वाजं॒ तरु᳚ता ।
तमी᳚शा॒नास᳚ इरधन्त वा॒जिनं᳚ पृ॒क्षमत्यं॒ न वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । श्रु॒धि॒ । यः । स्म॒ । पृत᳚नासु । कासु᳚ । चि॒त् । द॒क्षाय्यः᳚ । इ॒न्द्र॒ । भर᳚॑हूतये । नृ॑भिः᳚ । असि᳚ । प्र॑तू᳚र्तये । नृ॑भिः᳚ ।
यः । शूरैः᳚ । स्व१॒᳚रिति᳚ स्वः᳚ । सनि᳚ता । यः । विप्रैः᳚ । वाज᳚म् । तरु᳚ता ।
तम् । ई॒शा॒नासः᳚ । इ॒र॒ध॒न्त॒ । वा॒जिन᳚म् । पृ॒क्षम् । अत्य᳚म् । न । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सवक्ष्यमाणगुणविशिष्टस्त्वं श्रुधि अस्मदाह्वानं स्तोत्रंवाश्रृणु होर्धिभावः यःस्म यःखलुत्वं नृभिः मनुष्यैरेवसद्भिः पश्चाद्देवत्वमापन्नैर्मरुद्भिः पुनस्तएवविशेष्यन्ते नृभिः संग्रामनयनशीलैःइन्द्र- स्यमरुतांसाहाय्यं इन्द्रोमरुद्भिर्मरुतोहैनंनाजहुरित्यादिषुप्रसिद्धम् । तैः सहितः सन् कासुचित् पृतनासु सर्वेषु प्रौढेष्वपि संग्रामेषुभरहूतयेभरणविशिष्टाह्वानयुक्ताय प्रतूर्तयेप्रकृष्टहिंसनाय यद्वा भरहूतयेशू- रोभवप्रहरेत्येवमादिभरणयुक्ताह्वानाय प्रतूर्तयेचशूराणां प्रकृष्टवधायच दक्षाय्योसि प्रवर्धनशीलो- सियद्वा नृभिर्नेतृभिर्यजमानैः प्रार्थितःसन्प्रतूर्तये शत्रूणां पापानांवाप्रकृष्टहिंसनाय दक्षाय्यः असिस- मर्थोसि किंच यस्त्वंशूरैः शौर्योपेतैर्मरुद्भिरन्यैर्भटैर्वा सहितः सन् स्वः स्वयमेवसनिता संग्राममयस्य अन्यस्यवामनीषितस्य सनितासंभक्तासिसत्यपितेषांसाहित्येअन्यनैरपेक्ष्येणैवतरुतासीत्यर्थ: तरते- स्त्रिनि ग्रसितस्कभितेत्यादौनिपात्यते यश्चत्वं विप्रैर्मेधाविभिरृत्विग्भिः स्तुतः सन् वाजं तरुता ते- भ्योऽन्नस्यदातासि विप्रैर्मरुद्भिः सहितइतिवासंबन्धः तंतादृशंवाजिनं गमनवन्तंपृक्षंहविर्लक्षणान्न- वन्तंइन्द्रं ईशानासः सम्यगभ्यर्थयितुं समर्थाऋत्विजः इरधन्तसंराधयन्ति सेवन्ते तत्रदृष्टान्तः— वाजिनं वेजनवन्तं गमनवन्तं पृक्षं घासाद्यन्नवन्तंअत्यंन अश्वमिव तंयथासमर्थाःस्वादुघासप्रदाना- दिनापोषयन्ति तद्वत् अत्यइत्यश्वनामात्योहयइति तन्नामसुपठितत्वात् ॥ २ ॥

1.129.3
द॒स्मो हि ष्मा॒ वृष᳚णं॒ पिन्व᳚सि॒ त्वचं॒ कं चि᳚द्यावीर॒ररुं᳚ शूर॒ मर्त्यं᳚ परिवृ॒णक्षि॒ मर्त्य᳚म् ।
इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय᳚शसे ।
मि॒त्राय᳚ वोचं॒ वरु᳚णाय स॒प्रथः᳚ सुमृळी॒काय᳚ स॒प्रथः᳚ ॥
▶ पदपाठः (Word-by-word)
द॒स्मः । हि । स्म॒ । वृष᳚णम् । पिन्व᳚सि । त्वच᳚म् । कम् । चि॒त् । या॒वीः॒ । अ॒ररु᳚म् । शू॒र॒ । मर्त्य᳚म् । प॒रि॒॑वृ॒णक्षि᳚ । मर्त्य᳚म् ।
इन्द्र᳚ । उ॒त । तुभ्य᳚म् । तत् । दि॒वे । तत् । रु॒द्राय᳚ । स्व॑य᳚शसे ।
मि॒त्राय᳚ । वो॒च॒म् । वरु᳚णाय । स॒॑प्रथः᳚ । सु॒॑मृ॒ळी॒काय᳚ । स॒॑प्रथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं दस्मोहि शत्रूणामुपक्षपणकर्ताखलु अतएवकारणात् वृषणं स्वतोवर्षणशीलं त्वचं संव- रणवन्तं पुटबन्धनवत् उदकवेष्टनवन्तं कंचिज्जलधारिणंमेघंपिन्वसि निर्भिद्यसेचयसि किंच मर्त्यं म- र्त्यवत् अररुं अरणशीलं गमनस्वभावं कंचिन्मेघं हेशूर विक्रान्त यावीः मिश्रयसि यौतेश्छान्दसेलुङि छान्दसोऽडभावः अवर्षणेनगच्छन्तंबलान्निगृह्यवर्ष्यसीत्यर्थः यथाशूरः कश्चिद्बलवन्तंगच्छन्तंवैरिणं- निगृह्यस्वीकरोति तद्वदित्यर्थः तथा मर्त्यंमरणशीलं शीर्यमाणस्वभावं निरुदकं कंचिन्मेघं परिवृणक्षि सर्वतोवर्जयसि औदासीन्यंकरोषीत्यर्थः हे इन्द्र तत्तादृशंकर्म वर्षणरूपं सप्रथः सर्वतः पृथुयथाभवति- तथा तुभ्यं वोचं ब्रवीमि इन्द्रएव विशेष्यते स्वयशसेस्वकीययशोयुक्ताय तथा दिवेउत त्वदाश्रयभू- तायैद्युलोकदेवतायैअपितत्तादृशंकर्मवोचंब्रवीमि उतशब्दोऽपिशब्दार्थः वर्षणकर्मणः द्युदेवतायाः आनुकूल्यात्तस्याअपि वचनंयुक्तं तथा रुद्रायजगतांदुःखद्रावयित्रेरोदनशीलायवाग्नयेतद्वोचं रुद्रोवैक्रू- रोयदयमग्निरितिश्रुतेः । अग्नेरुद्रत्वं सोरोदीद्यदरोदीत्तद्रुद्रस्यरुद्रत्वमितिश्रुतेः । रोदनस्वभावत्वंप्रसि- द्धं तस्य चाहुतिद्वारावृष्ट्यनुकूलत्वात्तस्यापिकथनंयुक्तं स्वयशसइत्यस्यरुद्रायेत्यनेनवासंबन्धः सन्नि- हितत्वात् योग्यत्वाच्च स्वकीययशोयुक्तायाग्नयेइत्यर्थः तथामित्रायअहरभिमानिदेवतायैतद्वोचं वरु- णायरात्र्यभिमानिदेवतायै अहोरात्रेवैमित्रावरुणै अहोरात्राभ्यांखलुवैपर्जन्योवर्षतीति तथा मैत्रंवा- अहर्वारुणीरात्रिरित्यादिश्रुतिभ्यः मित्रावरुणयोरहोरात्राभिमानिदेवत्वं अतएवश्रुतेः वृष्टिप्रदातृत्वा- त् ताभ्यामपिप्रथनंयुक्तम् सुपृळीकाय शोभनसुखयित्रे प्रजानां एतत्सर्वत्रसंबध्यते उक्तेभ्योदेवेभ्यः सप्रथः सर्वतः पृथुअतिविस्तीर्णंयथाभवतितथा तद्वर्षणकर्मब्रवीमि ॥ ३ ॥

1.129.4
अ॒स्माकं᳚ व॒ इन्द्र᳚मुश्मसी॒ष्टये॒ सखा᳚यं वि॒श्वायुं᳚ प्रा॒सहं॒ युजं॒ वाजे᳚षु प्रा॒सहं॒ युज᳚म् ।
अ॒स्माकं॒ ब्रह्मो॒तये॑वा᳚ पृ॒त्सुषु॒ कासु᳚ चित् ।
न॒हि त्वा॒ शत्रु॒ः स्तर᳚ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं᳚ स्तृ॒णोषि॒ यम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । वः॒ । इन्द्र᳚म् । उ॒श्म॒सि॒ । इ॒ष्टये᳚ । सखा᳚यम् । वि॒श्व॑आ᳚युम् । प्र॒॑सह᳚म् । युज᳚म् । वाजे᳚षु । प्र॒॑सह᳚म् । युज᳚म् ।
अ॒स्माक᳚म् । ब्रह्म᳚ । ऊ॒तये᳚ । अव᳚ । पृ॒त्सुषु᳚ । कासु᳚ । चि॒त् ।
न॒हि । त्वा॒ । शत्रुः᳚ । स्तर᳚ते । स्तृ॒णोषि᳚ । यम् । विश्व᳚म् । शत्रु᳚म् । स्तृ॒णोषि᳚ । यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः अस्माकमस्मदर्थं वः युष्मदर्थंचइष्टये यागाय अभिमतैषणायवा इन्द्रमुश्मसि अभिम- तंकामयामहे वशकान्तौ आदादिकः इदन्तोमसिः ग्रहिज्येत्यदिनास्ंप्रसारणं यद्वा अस्माकं सखायमि- तिसंबन्धः कीदृशमिन्द्रं सखायं सखिवदत्यन्तहितकारिणं समानख्यानंवा विश्वायुं विश्वेषां यागानां- गन्तारं प्रासहं प्रकर्षेणशत्रूणांमर्षयितारं सहेःक्विप् नहिवृतीत्यादिनोपसर्गस्यदीर्घः युजं सर्वदायुक्तं सहायभूतमित्यर्थः पुनः सएवविशेष्यते वाजेषु हवीरूपान्नेषु तद्वत्सु यज्ञेषुवा निमित्तभूतेषु प्रासहं यज्ञविघातिनः सहमानं युजं अभिमतफलैर्युक्तं मरुद्भिर्वा किंच हेइन्द्र अस्माकमूतये रक्षणायब्रह्मप- रिवृढंकर्म अव रक्ष कस्तत्रविशेषइतितत्राह—कासुचित् पृत्सु संग्रामेषु पृत्सु समत्स्विति संग्रामनाम- सुपाठात् तन्नामत्वं तेषु त्वा त्वांनहिस्तरते न हिनस्ति नविरोधमाचरति यंस्तृणोपि यंविश्वंशत्रुंस्तृ- णोषिवारयसि सकश्चिदपिशत्रुर्नहिनस्ति तवमहत्त्वेनसर्वेभीताः विधेयाभवन्ति शत्रुभावंनकोप्याच- रति अजातशत्रुत्वादित्यर्थः ॥ ४ ॥

1.129.5
नि षू न॒माति᳚मतिं॒ कय᳚स्य चि॒त्तेजि᳚ष्ठाभिर॒रणि᳚भि॒र्नोतिभि᳚रु॒ग्राभि᳚रुग्रो॒तिभि᳚ः ।
नेषि᳚ णो॒ यथा᳚ पु॒राने॒नाः शू᳚र॒ मन्य᳚से ।
विश्वा᳚नि पू॒रोरप᳚ पर्षि॒ वह्नि᳚रा॒सा वह्नि᳚र्नो॒ अच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
नि । सु । न॒म॒ । अति᳚॑मतिम् । कय᳚स्य । चि॒त् । तेजि᳚ष्ठाभिः । अ॒रणि᳚॑भिः । न । ऊ॒ति॑भिः᳚ । उ॒ग्राभिः᳚ । उ॒ग्र॒ । ऊ॒ति॑भिः᳚ ।
नेषि᳚ । नः॒ । यथा᳚ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य᳚से ।
विश्वा᳚नि । पू॒रोः । अप᳚ । प॒र्षि॒ । वह्निः᳚ । आ॒सा । वह्निः᳚ । नः॒ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र कयस्य कस्यचित् त्वद्भक्तस्ययजमानस्य अतिमतिं अतिक्रान्तमननंविरुद्धमनस्कंशत्रुंनिषू- नम नितरांसुष्ठुनामय अस्मत्प्रणतंकुरु अन्तर्भावितण्यर्थोऽयं हेउग्रउद्गूर्णबलः ऊतिभिः रक्षणैः प्रीति- भिर्वायुक्तःसन् तेजिष्ठाभिररणिभिर्नअतिशयेनतेजस्विभिर्युद्धादिरूपैर्मागैंरिव तेजस्वच्छब्दादातिश- यनिकइष्ठन् विन्मतोर्लुक् टेरितिटिलोपः अतिमतिंवृत्रादिंयथानामितवान् तथास्मद्विरोधिनमपीत्य- र्थः यद्वा उत्तरत्रान्वयः तेजिष्ठाभिररणिभिर्न तेजोयुक्तैर्गमनसाधनैर्यज्ञादिमार्गैर्यथास्मान्योजितवा- नसि तथाउग्राभिः प्रकाशकाभिः ऊतिभीरक्षणैः यागफलभूतैर्नोस्मान्नेषिनयसि अभिमतस्वर्गादि- फलंप्रापयसीत्यर्थः नयतेश्छान्दसःशपोलुक् तत्रदृष्टान्तः—पुरापूर्वस्मिन्काले नः अस्मत्पित्रादीन्यथो- तिभिर्नीतवानसि तथानेषीत्यर्थः हेशूरविक्रान्त त्वं अनेनाः मन्यसे सर्वैरपापत्वेनअवबुध्यसे स्वर्गाद्य- भिमतसाधकत्वादितिभावः यद्वा अनेनास्त्वं अस्मानप्यनेनसोमन्यसे किंच हेइन्द्र वह्निः वृष्ट्यादि- प्रदानेनजगतांनिर्वाहकःसन् पूरोर्मनुष्यस्ययजमानस्यपुरुरितिमनुष्यनाम पूरवः जगतइतितन्नामसु- पाठात् तस्यविश्वानिसर्वाण्येनांसि अपपर्षि अपकृत्यपालयसि पृणातेश्छान्दसः शपोलुक् अतोनः अ-स्माकमपि आसाअन्तिकेदेवयजनदेशे अच्छआभिमुख्येनागत्यवह्निरभिमतानांवोढासन् अप अन- भिमतमपकृत्य पर्षि अभिमतफलंपुरयसि ॥ ५ ॥

1.129.6
प्र तद्वो᳚चेयं॒ भव्या॒येन्द᳚वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज᳚ति रक्षो॒हा मन्म॒ रेज᳚ति ।
स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर᳚जेत दुर्म॒तिम् ।
अव᳚ स्रवेद॒घशं᳚सो॑वत॒रमव᳚ क्षु॒द्रमि᳚व स्रवेत् ॥
▶ पदपाठः (Word-by-word)
प्र । तत् । वो॒चे॒य॒म् । भव्या᳚य । इन्द᳚वे । हव्यः᳚ । न । यः । इ॒ष॑वा᳚न् । मन्म᳚ । रेज᳚ति । र॒क्षः॒॑हा । मन्म᳚ । रेज᳚ति ।
स्व॒यम् । सः । अ॒स्मत् । आ । नि॒दः । व॒धैः । अ॒जे॒त॒ । दुः॒॑म॒तिम् ।
अव᳚ । स्र॒वे॒त् । अ॒घ॑शं᳚सः । अ॒व॒॑त॒रम् । अव᳚ । क्षु॒द्रम्॑इ᳚व । स्र॒वे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भव्याय भवनशीलायप्रतिदिनंकलाभिवृद्भ्यावर्धनशीलायइन्दवेअमृतेनसर्वस्यक्लेदयित्रे तदर्थंतद्व- क्ष्यमाणंकर्मस्तोत्रंवा प्रवोचेयं प्रकर्षेणवक्तुंशक्तोभूयासं स्तुतेरतिमहत्त्वादितिभावः वचेर्लिङ्याशिष्य- ङ् वचउम् कस्यतदिति यइन्दुः इषवान् एषणवान् मन्ममननीयं स्तोत्रंकर्मवाउद्दिश्यरेजति गच्छति रेजतिर्गत्यर्थः रेजतिदघ्यतीतितन्नामसुपाठात् आगमनेदृष्टान्तः—हव्योन होतव्यआह्वातव्योवाहव्यः इन्द्रइव प्रायेणेन्द्रआगच्छेत्यादिनाइन्द्रएवाहूयते सइवसएवविशेष्यते रक्षोहायज्ञविघातकानांरक्षसां- हन्ता मन्म तेषामेवकर्महननादिरूपंरेजतिगच्छति चालयति नाशयतीत्यर्थः सएवेन्दुः स्वयंनिदः णिदिकुत्सायांक्विप् सावेकाचइतिविभक्तेरुदात्तता अस्मन्निन्दितुर्वैरिणः वधैः हननोपायैः हनश्चवधइतिभावेअप् तत्सन्नियोगेनवधादेशः सचादन्तोऽन्तोदात्तः दुर्मतिंदुर्बुद्धिं अस्मत् अस्मत्तः अजेतआक्षिपेत् अवनयेत् किंच अघशंसः अघानां पापानांहिंसादीनांशंसिता स्तेनः अवतरं अत्यन्तनिकृष्टं अवस्वस्थानादवाङ्मुखोभूत्वास्रवेत् गच्छतुअधः पतत्वित्यर्थः अघशंसः स्तेनः अघशंसः वृकइतितन्नामसुपाठात् अवस्रवणमेवप्रार्थ्यते क्षुद्रमिव क्षेप्तुंशक्यमुदकादिकमिव उदकंयथा- तिष्ठति अवस्रवेन्नश्यतितथासावपीत्यर्थः ॥ ६ ॥

1.129.7
व॒नेम॒ तद्धोत्र᳚या चि॒तन्त्या᳚ व॒नेम᳚ र॒यिं र᳚यिवः सु॒वीर्यं᳚ र॒ण्वं सन्तं᳚ सु॒वीर्य᳚म् ।
दु॒र्मन्मा᳚नं सु॒मन्तु᳚भि॒रेमि॒षा पृ᳚चीमहि ।
आ स॒त्याभि॒रिन्द्रं᳚ द्यु॒म्नहू᳚तिभि॒र्यज᳚त्रं द्यु॒म्नहू᳚तिभिः ॥
▶ पदपाठः (Word-by-word)
व॒नेम᳚ । तत् । होत्र᳚या । चि॒तन्त्या᳚ । व॒नेम᳚ । र॒यिम् । र॒यि॒॑वः॒ । सु॒॑वीर्य᳚म् । र॒ण्वम् । सन्त᳚म् । सु॒॑वीर्य᳚म् ।
दुः॒॑मन्मा᳚नम् । सु॒मन्तु᳚॑भिः । आ । ई॒म् । इ॒षा । पृ॒ची॒म॒हि॒ ।
आ । स॒त्याभिः᳚ । इन्द्र᳚म् । द्यु॒म्नहू᳚ति॑भिः । यज᳚त्रम् । द्यु॒म्नहू᳚ति॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वयंयजमानाः तत्तादृशंस्तुत्यंतवरूपं यद्वा तत्तेवयंचितंत्यातवगुणान् ज्ञापयन्त्या चितीसं- ज्ञाने अस्माण्ण्यन्ताच्छतरिव्यत्ययेनशः होत्रया होमसाधनभूतया स्तुतिरूपयावाचा वनेमसंभजेम यद्वा शब्दयेमस्तुतिंकरवामेत्यर्थः होत्रेतिवाङ्माम होत्रागीरितितन्नामसुपाठात् किंच एवंस्तोतारोव- यमपि हेरयिवः विशिष्टधनवन्निन्द्र रयिंधनं वनेमसंभजेम कीदृशंरयिं सुवीर्यंशोभनसामर्य्योपेतं र- ण्वंरमणीयं गन्तव्यंवार्थिभिः सन्तंसर्वदावर्तमानं यज्ञादिद्वाराबहुशोदीयमानमपिप्रवर्धमानं पुनस्त- देवविशेष्यते सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनेनतेषांसंपादयितुंशक्यत्वात् वीरवीर्यौचेत्युत्तरपदाद्यु- दात्तत्वं किंच हेइन्द्र दुर्मन्मानंदुःखेनमंतुंशक्यं ईमेनंत्वां तवमहिम्नोऽतिमहत्त्वात् सुमन्तुभिः शोभनैर्मननैः तत्साधनैःस्तोत्रैर्वा ईषाहवीरूपेणान्नेनच आपृचीमहि सर्वतः संपृक्ताभूयास्म यद्वा इ- षाअन्नेननिमित्तेन पूर्वंधनस्यप्रार्थितत्वात् इदानीमन्नंप्रार्थ्यते पृचीसंपर्के लिङि छान्दसोविकरण- स्यलुक् किंच यजत्रंयागनिष्पादकमिन्द्रं सत्याभिः अविसंवादिनीभिः यथाभिलाषमुपजायमानफला- भिःद्युम्नहूतिभिः हरिवआगच्छ मेधातिथेर्मेषेत्याह्वानैरित्यर्थः पुनस्ताएवविशेष्यन्ते द्युम्नहूतिभिः हविर्लक्षणान्ननिमित्तैराह्वानैरापृचीमहीतिशेषः द्युम्नंद्योततेर्यशोवान्नंवेतियास्कः ॥ ७ ॥

1.129.8
प्रप्रा᳚ वो अ॒स्मे स्वय᳚शोभिरू॒ती प᳚रिव॒र्ग इन्द्रो᳚ दुर्मती॒नां दरी᳚मन्दुर्मती॒नाम् ।
स्व॒यं सा रि᳚ष॒यध्यै॒ या न᳚ उपे॒षे अ॒त्रैः ।
ह॒तेम᳚स॒न्न व᳚क्षति क्षि॒प्ता जू॒र्णिर्न व᳚क्षति ॥
▶ पदपाठः (Word-by-word)
प्र॑प्र᳚ । वः॒ । अ॒स्मे इति᳚ । स्वय᳚शः॑भिः । ऊ॒ती । प॒रि॒॑व॒र्गे । इन्द्रः᳚ । दुः॒॑म॒ती॒नाम् । दरी᳚मन् । दुः॒॑म॒ती॒नाम् ।
स्व॒यम् । सा । रि॒ष॒यध्यै᳚ । या । नः॒ । उ॒प॒॑ई॒षे । अ॒त्रैः ।
ह॒ता । ई॒म् । अ॒स॒त् । न । व॒क्ष॒ति॒ । क्षि॒प्ता । जू॒र्णिः । न । व॒क्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋत्विजः वोयुष्मदर्थं अस्मेअस्मदर्थंचअयमिन्द्रः स्वयशोभिः स्वकीययशोयुक्तैः ऊती ऊतिभिः रक्षणैः दुर्मतीनां दुर्मननयुक्तानांविरोधिनांपरिवर्गेपरितोवर्जनेनिमित्तभूतेसति प्रप्र प्रकृष्टोभवति समर्थोभवतीत्यर्थः द्विर्भावःपादपूरणः यद्वा हेऋत्विजः वोयुष्मदर्थं अस्मे अस्माकं संबन्धिभिः स्वय- शोभिः स्वयमेवान्यनैरपेक्ष्येण स्तोतुंसमर्थैःस्तोत्रैस्तुष्टःसन् ऊती ऊतौरक्षणे प्रप्र प्रकृष्टोभवति उपस- र्गश्रुतेर्योग्यक्रियाध्याहारः कुत्रेतितदुच्यते—दर्मतीनांदुष्टानां परिवर्गेपरितोवर्जनवतिसंग्रामेयागेवा पुनःसएवविशेष्यते दुर्मतीनांदुष्टबहुमानवतां हननबुद्धीनांदरीमन् दरीमणि अतिशयेनदारयितरि एवमिन्द्रे सम्यक् पालयतिसति अन्त्रैर्भक्षकैरस्मद्विरोधिभिर्याजूर्णिः जववतीसेनाजूर्णिर्जवतेर्वाद्रवते- र्वादूनोतेर्वेतियास्कः । नोऽस्मान्प्रतिरिषयध्यै हिंसितुं रिषेर्ण्यन्तात्तुमर्थेशध्यैप्रत्ययः उपेषेउपगन्तुं- अस्मान्प्राप्तुं ईङ्गतौतुमर्थेक्सेप्रत्ययः क्षिप्ताप्रेरितासासेनास्वयंहतेमस्त् हिंसितैवासीत् अतःनवक्षति अस्मान्नवहेत् नप्राप्नोति तथास्मद्धिंसकान् शत्रूनपि पुनर्नवक्षतिनवहति वहतेर्लेट्यडागमः सिब्बहुल- मितिसिप् इन्द्रसामर्थ्येनतत्रैवनष्टाभूदित्यर्थः ॥ ८ ॥

1.129.9
त्वं न᳚ इन्द्र रा॒या परी᳚णसा या॒हि प॒था{4} अ᳚ने॒हसा᳚ पु॒रो या᳚ह्यर॒क्षसा᳚ ।
सच᳚स्व नः परा॒क आ सच᳚स्वास्तमी॒क आ ।
पा॒हि नो᳚ दू॒रादा॒राद॒भिष्टि᳚भि॒ः सदा᳚ पाह्य॒भिष्टि᳚भिः ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । परी᳚णसा । या॒हि । प॒था । अ॒ने॒हसा᳚ । पु॒रः । या॒हि । अ॒र॒क्षसा᳚ ।
सच᳚स्व । नः॒ । प॒रा॒के । आ । सच᳚स्व । अ॒स्त॒म्॑ई॒के । आ ।
पा॒हि । नः॒ । दू॒रात् । आ॒रात् । अ॒भिष्टि᳚॑भिः । सदा᳚ । पा॒हि॒ । अ॒भिष्टि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंनः पथास्मत्संबन्धिनामार्गेण पुरायाहिआगच्छ भस्यटेर्लोपः उदात्तनिवृत्तिस्वरेणतृती- यायाउदात्तत्वं कीदृशेनमार्गेणअनेहसा अपापेन यज्ञगमनमार्गस्यश्रुतिचोदितत्वादनेहस्त्वं यद्वा नोऽ– स्मानुद्दिश्ययाहि किंविशिष्टइति परीणसा परितोनद्धेन रायाअस्मभ्यंदातव्येनबहुविधधनेनयुक्तःसन् हेइन्द्र नोऽस्मान् पराके अत्यन्तदूरदेशात् स्वर्गलक्षणात् आसचस्वसमवेतोभव पराकइतिदूरनाम प- राकेपराचैरितितन्नामसुपाठात् तथा अस्तमीके अत्यन्तान्तिकेदेवयजनदेशे सचस्व अस्मत्प्रत्तंहविः सेवस्व संगच्छस्ववा किंच नोऽस्मान्दूरात् दूरदेशात्स्वर्गादेः सकाशात्पाहि रक्ष आरात्संनिहितादिह- लोकात् पाहिपालय यद्वा दूरात् अयागकालेस्वर्गएवोषित्वास्मान्पाहि पालयआरात् यागकाले संनि- हितेदेवयजनदेशे पाहि केनेतितदुच्यते—अभिष्टि भिः अभिमुखैर्यागैः तन्निर्वाहैः यद्वा अभ्यागमनैः किंबहुना स्दासर्वकालं यागकालेअयागकालेदूरे अन्तिकेचअभिष्टिभिः अभितएषणैः पाहि सम्यक्प- रिपालय ॥ ९ ॥

1.129.10
त्वं न᳚ इन्द्र रा॒या तरू᳚षसो॒ग्रं चि᳚त्त्वा महि॒मा स᳚क्ष॒दव᳚से म॒हे मि॒त्रं नाव᳚से ।
ओजि᳚ष्ठ॒ त्रात॒रवि᳚ता॒ रथं॒ कं चि᳚दमर्त्य ।
अ॒न्यम॒स्मद्रि᳚रिषे॒ः कं चि᳚दद्रिवो॒ रिरि᳚क्षन्तं चिदद्रिवः ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । तरु᳚षसा । उ॒ग्रम् । चि॒त् । त्वा॒ । म॒हि॒मा । स॒क्ष॒त् । अव᳚से । म॒हे । मि॒त्रम् । न । अव᳚से ।
ओजि᳚ष्ठ । त्रातः᳚ । अवि᳚त॒रिति᳚ । रथ᳚म् । कम् । चि॒त् । अ॒म॒र्त्य॒ ।
अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒॑वः॒ । रिरि᳚क्षन्तम् । चि॒त् । अ॒द्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंनः अस्मान् तरूषसा तरुणकुशलेनअस्मानापद्भ्यःउत्तरीतुंशक्तेनरयाधनेनउद्धर्ताभवेति- रोषः हेइन्द्र त्वात्वां उग्रंचित् उद्गूर्णबलंसन्तं त्वामेवमहिमा महत्त्वं अस्मत्स्तोत्रजनितः कश्चिदति- शयः सक्षत् सेवते संभजते उत्कर्षयतीत्यर्थः किमर्थंअवसेत्वत्प्रीतये तत्रदृष्टान्तः—महेमहते अवसेर- क्षणायप्रकाशारोग्यादिरूपायमित्रंन सर्वजनमित्रंसूर्यमिव तंयथामहत्त्वेनसंयोजयन्ति तथेत्यर्थः यद्वा मित्रंन प्रियहितरूपंसखायमिवतंयथामहत्यैप्रीतयेसंभजन्तेतद्वत् किंच हेओजिष्ठओजस्वितम अतिश- येनबलवन् त्रातः रक्षितः अस्मान्पालयितः वा अमर्त्यअमरणधर्मन् इन्द्र अवितः अस्मान् धनेनतर्प- यितस्त्वं कंचिद्रथं वेगवन्तमारुह्यअस्मद्देवयजनंशीघ्रमागच्छेतिशेषः तथा हेअद्रिवः शत्रूणामतिशये- नभक्षकेन्द्र अस्मदन्यं रिरिक्षन्तं चित् अल्पंमहान्तंवाशत्रुमितिशेषः रिरिषेः बाधस्व तथा हेअद्रिवः अद्रेरादर्तः भक्षकवाशत्रूणां अद्रिवन्नद्रिरादृणात्यनेनापिवात्तेः स्यादितिनिरुक्तम् । रिरिक्षंतंचित् अत्यन्तकुत्सितं हिंसन्तमपिशत्रुंरिरिषेः बाधस्व रिषहिंसायां छान्दसःशपःश्लुः पुनर्व्यत्ययेनशः रि- रिक्षन्तं अस्मादेव सनि हलन्ताच्चेति सनः कित्त्वाद्गुणाभावः चिदित्यवकुत्सितः कुल्माषांश्चिदाहरे- त्यवकुत्सितइतियास्केनोक्तत्वात् । यद्वा समुच्चयार्थः कंचिदित्यनेनसहसमुच्चीयते ॥ १० ॥

1.129.11
पा॒हि न᳚ इन्द्र सुष्टुत स्रि॒धो᳚॑वया॒ता सद॒मिद्दु᳚र्मती॒नां दे॒वः सन्दु᳚र्मती॒नाम् ।
ह॒न्ता पा॒पस्य᳚ र॒क्षस᳚स्त्रा॒ता विप्र᳚स्य॒ माव᳚तः ।
अधा॒ हि त्वा᳚ जनि॒ता जीज᳚नद्वसो रक्षो॒हणं᳚ त्वा॒ जीज᳚नद्वसो ॥
▶ पदपाठः (Word-by-word)
पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒॑स्तु॒त॒ । स्रि॒धः । अ॒व॒॑या॒ता । सद᳚म् । इत् । दुः॒॑म॒ती॒नाम् । दे॒वः । सन् । दुः॒॑म॒ती॒नाम् ।
ह॒न्ता । पा॒पस्य᳚ । र॒क्षसः᳚ । त्रा॒ता । विप्र᳚स्य । मा॑व᳚तः ।
अध᳚ । हि । त्वा॒ । ज॒नि॒ता । जीज᳚नत् । व॒सो॒ इति᳚ । र॒क्षः॒॑हन᳚म् । त्वा॒ । जीज᳚नत् । व॒सो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सुष्टुत शोभनस्तुत त्वंस्रिधः दुःखात् तदुत्पादकात्पापाद्वा नोऽस्मान्पाहिरक्ष यतस्त्वं दुर्म- तीनां दुर्मनस्कानां रक्षःप्रभृतीनां नामन्यतरस्यामितिनामउदात्तत्वं सदमित् सर्वदैवअवयाता अधो- यापयिता प्रापयितासि अतःपाहि अतएवहेइन्द्र देवोऽस्मत्स्तुत्याहृष्टः सन् दुर्मतीनां दुष्टमननवतां यागविघातकानां अवयातासि तथारक्षसोरक्षणनिमित्तभूतस्य रक्षोरक्षिततव्यमस्मादितियास्कः । तादृशस्यपापस्य फलप्रतिबन्धरूपस्य हन्ताघातकोसि यद्वा पापस्य पापिनोरक्षसोराक्षसादेर्हन्तासि तथामावतोमत्सदृशस्यविप्रस्य मेधाविनोयजमानस्य त्राता रक्षितासि अध अतोहेतोः हेइन्द्र वसो सर्वेषां निवासभूत त्वात्वांजनिता सर्वस्यजनयिता आदिकर्तापरमेश्वरोजीजनत् अजनयत् उत्पा- दितवान् तथा हेवसो वासयितः त्वा त्वां रक्षोहणं जीजनत् रक्षोहननायोत्पादितवान् जनयतेर्लुङि- चङिरूपं यज्ञादिविघातिनांरक्षः प्रभृतीनां विघातायहीन्द्रस्यावतारः तमिन्द्रं देवानव्यसृज्यन्तेत्या- दिप्रसिद्धिद्योतनार्थोहिशब्दः ॥ ११ ॥

एन्द्रयाह्युपनइतिदशर्चंचतुर्थंसूक्तम् पारुच्छेपमैन्द्रं अन्त्यासनोनव्येभिरित्येषात्रिष्टुप् शिष्टाअत्य- ष्टयः अत्रत्रिष्टुबन्तपरिभाषानाश्रीयते सर्वमात्यष्टमितिविशेषेणप्रतिज्ञातत्वात् एन्द्रयाहिदशान्त्यात्रि- ष्टुबित्यनुक्रमणिका पृष्ठ्यषडहस्यषष्ठेहनिनिष्केवल्यमेतत्सूक्तं षष्ठस्येतिखण्डेसूत्रितम्—एन्द्रयाह्यु- पनः प्रघान्वस्येति महाव्रतेमाध्यन्दिनसवने ब्राह्मणाच्छंसिनोऽनुरूपतृचे प्रथमाएन्द्रयाहीत्येषा महा- व्रतस्यपञ्चविंशतिमितिखण्डेशौनकेनसूत्रितम्-एन्द्रयाह्युपनःपरावतइन्द्रायाहिद्यौरसुरोअनम्नतेति ।