इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय᳚शसे ।
मि॒त्राय᳚ वोचं॒ वरु᳚णाय स॒प्रथः᳚ सुमृळी॒काय᳚ स॒प्रथः᳚ ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । उ॒त । तुभ्य᳚म् । तत् । दि॒वे । तत् । रु॒द्राय᳚ । स्व॑य᳚शसे ।
मि॒त्राय᳚ । वो॒च॒म् । वरु᳚णाय । स॒॑प्रथः᳚ । सु॒॑मृ॒ळी॒काय᳚ । स॒॑प्रथः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं दस्मोहि शत्रूणामुपक्षपणकर्ताखलु अतएवकारणात् वृषणं स्वतोवर्षणशीलं त्वचं संव- रणवन्तं पुटबन्धनवत् उदकवेष्टनवन्तं कंचिज्जलधारिणंमेघंपिन्वसि निर्भिद्यसेचयसि किंच मर्त्यं म- र्त्यवत् अररुं अरणशीलं गमनस्वभावं कंचिन्मेघं हेशूर विक्रान्त यावीः मिश्रयसि यौतेश्छान्दसेलुङि छान्दसोऽडभावः अवर्षणेनगच्छन्तंबलान्निगृह्यवर्ष्यसीत्यर्थः यथाशूरः कश्चिद्बलवन्तंगच्छन्तंवैरिणं- निगृह्यस्वीकरोति तद्वदित्यर्थः तथा मर्त्यंमरणशीलं शीर्यमाणस्वभावं निरुदकं कंचिन्मेघं परिवृणक्षि सर्वतोवर्जयसि औदासीन्यंकरोषीत्यर्थः हे इन्द्र तत्तादृशंकर्म वर्षणरूपं सप्रथः सर्वतः पृथुयथाभवति- तथा तुभ्यं वोचं ब्रवीमि इन्द्रएव विशेष्यते स्वयशसेस्वकीययशोयुक्ताय तथा दिवेउत त्वदाश्रयभू- तायैद्युलोकदेवतायैअपितत्तादृशंकर्मवोचंब्रवीमि उतशब्दोऽपिशब्दार्थः वर्षणकर्मणः द्युदेवतायाः आनुकूल्यात्तस्याअपि वचनंयुक्तं तथा रुद्रायजगतांदुःखद्रावयित्रेरोदनशीलायवाग्नयेतद्वोचं रुद्रोवैक्रू- रोयदयमग्निरितिश्रुतेः । अग्नेरुद्रत्वं सोरोदीद्यदरोदीत्तद्रुद्रस्यरुद्रत्वमितिश्रुतेः । रोदनस्वभावत्वंप्रसि- द्धं तस्य चाहुतिद्वारावृष्ट्यनुकूलत्वात्तस्यापिकथनंयुक्तं स्वयशसइत्यस्यरुद्रायेत्यनेनवासंबन्धः सन्नि- हितत्वात् योग्यत्वाच्च स्वकीययशोयुक्तायाग्नयेइत्यर्थः तथामित्रायअहरभिमानिदेवतायैतद्वोचं वरु- णायरात्र्यभिमानिदेवतायै अहोरात्रेवैमित्रावरुणै अहोरात्राभ्यांखलुवैपर्जन्योवर्षतीति तथा मैत्रंवा- अहर्वारुणीरात्रिरित्यादिश्रुतिभ्यः मित्रावरुणयोरहोरात्राभिमानिदेवत्वं अतएवश्रुतेः वृष्टिप्रदातृत्वा- त् ताभ्यामपिप्रथनंयुक्तम् सुपृळीकाय शोभनसुखयित्रे प्रजानां एतत्सर्वत्रसंबध्यते उक्तेभ्योदेवेभ्यः सप्रथः सर्वतः पृथुअतिविस्तीर्णंयथाभवतितथा तद्वर्षणकर्मब्रवीमि ॥ ३ ॥