यः शूरै॒ः स्व१॒᳚ः सनि᳚ता॒ यो विप्रै॒र्वाजं॒ तरु᳚ता ।
तमी᳚शा॒नास᳚ इरधन्त वा॒जिनं᳚ पृ॒क्षमत्यं॒ न वा॒जिन᳚म् ॥
पदपाठः (Word-by-word)
यः । शूरैः᳚ । स्व१॒᳚रिति᳚ स्वः᳚ । सनि᳚ता । यः । विप्रैः᳚ । वाज᳚म् । तरु᳚ता ।
तम् । ई॒शा॒नासः᳚ । इ॒र॒ध॒न्त॒ । वा॒जिन᳚म् । पृ॒क्षम् । अत्य᳚म् । न । वा॒जिन᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र सवक्ष्यमाणगुणविशिष्टस्त्वं श्रुधि अस्मदाह्वानं स्तोत्रंवाश्रृणु होर्धिभावः यःस्म यःखलुत्वं नृभिः मनुष्यैरेवसद्भिः पश्चाद्देवत्वमापन्नैर्मरुद्भिः पुनस्तएवविशेष्यन्ते नृभिः संग्रामनयनशीलैःइन्द्र- स्यमरुतांसाहाय्यं इन्द्रोमरुद्भिर्मरुतोहैनंनाजहुरित्यादिषुप्रसिद्धम् । तैः सहितः सन् कासुचित् पृतनासु सर्वेषु प्रौढेष्वपि संग्रामेषुभरहूतयेभरणविशिष्टाह्वानयुक्ताय प्रतूर्तयेप्रकृष्टहिंसनाय यद्वा भरहूतयेशू- रोभवप्रहरेत्येवमादिभरणयुक्ताह्वानाय प्रतूर्तयेचशूराणां प्रकृष्टवधायच दक्षाय्योसि प्रवर्धनशीलो- सियद्वा नृभिर्नेतृभिर्यजमानैः प्रार्थितःसन्प्रतूर्तये शत्रूणां पापानांवाप्रकृष्टहिंसनाय दक्षाय्यः असिस- मर्थोसि किंच यस्त्वंशूरैः शौर्योपेतैर्मरुद्भिरन्यैर्भटैर्वा सहितः सन् स्वः स्वयमेवसनिता संग्राममयस्य अन्यस्यवामनीषितस्य सनितासंभक्तासिसत्यपितेषांसाहित्येअन्यनैरपेक्ष्येणैवतरुतासीत्यर्थ: तरते- स्त्रिनि ग्रसितस्कभितेत्यादौनिपात्यते यश्चत्वं विप्रैर्मेधाविभिरृत्विग्भिः स्तुतः सन् वाजं तरुता ते- भ्योऽन्नस्यदातासि विप्रैर्मरुद्भिः सहितइतिवासंबन्धः तंतादृशंवाजिनं गमनवन्तंपृक्षंहविर्लक्षणान्न- वन्तंइन्द्रं ईशानासः सम्यगभ्यर्थयितुं समर्थाऋत्विजः इरधन्तसंराधयन्ति सेवन्ते तत्रदृष्टान्तः— वाजिनं वेजनवन्तं गमनवन्तं पृक्षं घासाद्यन्नवन्तंअत्यंन अश्वमिव तंयथासमर्थाःस्वादुघासप्रदाना- दिनापोषयन्ति तद्वत् अत्यइत्यश्वनामात्योहयइति तन्नामसुपठितत्वात् ॥ २ ॥