श्रवणम्

1.129.4
अ॒स्माकं᳚ व॒ इन्द्र᳚मुश्मसी॒ष्टये॒ सखा᳚यं वि॒श्वायुं᳚ प्रा॒सहं॒ युजं॒ वाजे᳚षु प्रा॒सहं॒ युज᳚म् ।
अ॒स्माकं॒ ब्रह्मो॒तये॑वा᳚ पृ॒त्सुषु॒ कासु᳚ चित् ।
न॒हि त्वा॒ शत्रु॒ः स्तर᳚ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं᳚ स्तृ॒णोषि॒ यम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । वः॒ । इन्द्र᳚म् । उ॒श्म॒सि॒ । इ॒ष्टये᳚ । सखा᳚यम् । वि॒श्व॑आ᳚युम् । प्र॒॑सह᳚म् । युज᳚म् । वाजे᳚षु । प्र॒॑सह᳚म् । युज᳚म् ।
अ॒स्माक᳚म् । ब्रह्म᳚ । ऊ॒तये᳚ । अव᳚ । पृ॒त्सुषु᳚ । कासु᳚ । चि॒त् ।
न॒हि । त्वा॒ । शत्रुः᳚ । स्तर᳚ते । स्तृ॒णोषि᳚ । यम् । विश्व᳚म् । शत्रु᳚म् । स्तृ॒णोषि᳚ । यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः अस्माकमस्मदर्थं वः युष्मदर्थंचइष्टये यागाय अभिमतैषणायवा इन्द्रमुश्मसि अभिम- तंकामयामहे वशकान्तौ आदादिकः इदन्तोमसिः ग्रहिज्येत्यदिनास्ंप्रसारणं यद्वा अस्माकं सखायमि- तिसंबन्धः कीदृशमिन्द्रं सखायं सखिवदत्यन्तहितकारिणं समानख्यानंवा विश्वायुं विश्वेषां यागानां- गन्तारं प्रासहं प्रकर्षेणशत्रूणांमर्षयितारं सहेःक्विप् नहिवृतीत्यादिनोपसर्गस्यदीर्घः युजं सर्वदायुक्तं सहायभूतमित्यर्थः पुनः सएवविशेष्यते वाजेषु हवीरूपान्नेषु तद्वत्सु यज्ञेषुवा निमित्तभूतेषु प्रासहं यज्ञविघातिनः सहमानं युजं अभिमतफलैर्युक्तं मरुद्भिर्वा किंच हेइन्द्र अस्माकमूतये रक्षणायब्रह्मप- रिवृढंकर्म अव रक्ष कस्तत्रविशेषइतितत्राह—कासुचित् पृत्सु संग्रामेषु पृत्सु समत्स्विति संग्रामनाम- सुपाठात् तन्नामत्वं तेषु त्वा त्वांनहिस्तरते न हिनस्ति नविरोधमाचरति यंस्तृणोपि यंविश्वंशत्रुंस्तृ- णोषिवारयसि सकश्चिदपिशत्रुर्नहिनस्ति तवमहत्त्वेनसर्वेभीताः विधेयाभवन्ति शत्रुभावंनकोप्याच- रति अजातशत्रुत्वादित्यर्थः ॥ ४ ॥