प्रथमं मण्डलम् - सूक्तम् 151

9 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: मित्रः छन्दः: जगती

सूक्तम् 1.151 - सम्पूर्णम्

1 / 9
ऋक्: 1.151.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.151.1
मि॒त्रं न यं शिम्या॒ गोषु᳚ ग॒व्यवः᳚ स्वा॒ध्यो᳚ वि॒दथे᳚ अ॒प्सु जीज᳚नन् ।
अरे᳚जेतां॒ रोद᳚सी॒ पाज᳚सा गि॒रा प्रति᳚ प्रि॒यं य᳚ज॒तं ज॒नुषा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
मि॒त्रम् । न । यम् । शिम्या᳚ । गोषु᳚ । ग॒व्यवः᳚ । सु॒॑आ॒ध्यः᳚ । वि॒दथे᳚ । अ॒प्॑सु । जीज᳚नन् ।
अरे᳚जेताम् । रोद᳚सी॒ इति᳚ । पाज᳚सा । गि॒रा । प्रति᳚ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा᳚म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निंशिम्या कर्मनामैतत् शिमीशक्तिरितितन्नामसुपाठात् प्रकाशवृष्ट्युत्पादनादिकर्मणामित्रंन मित्रमिवस्थितं यद्वा शिम्येत्येतत् क्रिययासहसंबध्यते गोषुबह्वीषु निमित्तभूतासुगव्यवः गाआत्मन- इच्छन्तः अत्रयद्यपिगव्यवइत्येवालं नगोष्विति तथापि गव्यवइत्यत्रगोस्वामित्वंप्रतिपाद्यते तच्चैक- याद्वित्वादपिस्यात् अतःस्पृहणीयावह्व्यइत्यवगमयितुंगोष्वितिपदं यथा गवामसिगोपतिः । गणा- नांत्वागणपतिम् । तथास्वाध्यः सुष्ठुआध्यातारः फलस्योत्पादयितारः शोभनध्यानावाविदथेयागे अप्सुअंतरिक्षेवैद्युतरूपेणवर्तमानं आपइत्यन्तरिक्षनाम आपः पृथिवीतितन्नामसूक्तत्वात् अग्नेरन्तरि- क्षोत्पत्तिः यदग्नेदिविजाअस्यप्सुजावा अप्स्वग्नेसधिष्टवइत्यादिमन्त्रान्तरेषुप्रसिद्धा प्रियंसर्वेषांप्रियत- मंप्रीणयित्रारंवा यजतंयष्टव्यंअग्निं जनुषांजन्मवतांप्राणिनां अवःप्रति रक्षणंनिमित्तीकृत्यशिम्यामथ- नादिकर्मणाजीजनन् जनयन्तियजमानाः यद्वा अप्सु निमित्तभूतासुजीजनन् सर्वप्राणिनामुपकाराय- वृष्ट्यर्थंचेत्यर्थः एवमुत्पन्नस्याग्नेः पाजसाबलेन गिरा भयंकरशब्देनचरोदसीद्यावापृथिव्यावरेजेतां अकंपेतां अग्नेःसकाशात् कंपनं अरेजेतां रोदसीहोतृवूर्यइत्यादिश्रुतिषुप्रसिद्धम् । नचसर्वरक्षणार्थमुत्पा- दितोऽग्निर्लोकद्वयस्यभीतिमजनयत् किमेतदितिवाच्यं निंदास्तुतित्वात् यथालोकौविभीतः तथाप्रवृ- द्धोभवदितिस्तुतौपर्यवसानात् यद्यप्यत्राग्निरेवप्रतिपाद्यते मित्रस्तुपरंदृष्टान्तितएव तथापिद्युस्थान- स्याग्नेरेवमित्रत्वान्मन्त्रस्यमैत्रत्वमविरुद्धम् यद्वा मित्रंन सखायमिवस्थितंमित्रनामकंदेवं यज्ञेऽन्तरि- क्षेवाऋत्विजः प्रादुर्भावयन्ति शिष्टमेतद्विशेषेण तथैवयोजनीयम् ॥ १ ॥

1.151.2
यद्ध॒ त्यद्वां᳚ पुरुमी॒ळ्हस्य᳚ सो॒मिन॒ः प्र मि॒त्रासो॒ न द᳚धि॒रे स्वा॒भुवः᳚ ।
अध॒ क्रतुं᳚ विदतं गा॒तुमर्च᳚त उ॒त श्रु᳚तं वृषणा प॒स्त्या᳚वतः ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒॑मी॒ळ्हस्य᳚ । सो॒मिनः᳚ । प्र । मि॒त्रासः᳚ । न । द॒धि॒रे । सु॒॑आ॒भुवः᳚ ।
अध᳚ । क्रतु᳚म् । वि॒द॒त॒म् । गा॒तुम् । अर्च᳚ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य᳚॑वतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ यद्यस्मात्कारणाद्वांयुवां पुरुमीह्ळस्यबहुलाभीष्टसेचनस्य सोमिनः स्वाभुवः सो- मवतः स्वाभवनशीलस्य कर्मणिषष्ठी त्यत् उक्तलक्षणंकर्म मित्रासोन मित्राणीव मित्रभूताःऋत्विजः प्रदधिरे प्रकर्षेणधारयन्ति हेतिपूरणः अध अतः कारणात् गातुं युष्मद्गमनं अर्चते षष्ठ्यर्थेचतुर्थी अर्चतःपूजयतोयजमानस्य क्रतुंकर्म विदतंजानीतम् विदेर्लोटिव्यत्ययेनशः उत अपिच हेवृषणा का- मानांवर्षितारौ युवांपस्त्यावतः पस्त्येतिगृहनाम पस्त्यादुरोणइतितन्नामसूक्तत्वात् सदः प्राधीन- वंशादिगृहवतोयजमानस्य आह्वानं स्तोत्रं वाश्रुतंश्रृणुतं छान्दसोविकरणस्यलुक् यद्वा यद्यस्मात्सो- मिनः सोमवतः पुरुमीह्ळस्य एतन्नामकस्यराज्ञोमित्रासोन मित्राणीवस्थिताः स्वाभुवः स्वाभवन- शीलाः स्वस्वव्यापारसमर्थाः दधिरे अधअतः कारणात् तस्यार्चते अर्चतः क्रतुंविदतमित्यादिपूर्ववत् ॥ २ ॥

1.151.3
आ वां᳚ भूषन्क्षि॒तयो॒ जन्म॒ रोद᳚स्योः प्र॒वाच्यं᳚ वृषणा॒ दक्ष᳚से म॒हे ।
यदी᳚मृ॒ताय॒ भर᳚थो॒ यदर्व᳚ते॒ प्र होत्र᳚या॒ शिम्या᳚ वीथो अध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः᳚ । जन्म᳚ । रोद᳚स्योः । प्र॒॑वाच्य᳚म् । वृ॒ष॒णा॒ । दक्ष᳚से । म॒हे ।
यत् । ई॒म् । ऋ॒ताय᳚ । भर᳚थः । यत् । अर्व᳚ते । प्र । होत्र᳚या । शिम्या᳚ । वी॒थः॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषणा कामानांवर्षितारौ हेमित्रावरुणौवांयुवयोः संबन्धिजन्मजननं उत्पत्तिं रोदस्योः द्यावा- पृथिव्योः सक्राशात् द्यावापृथिवीभ्यामेवसर्वेषामुत्पत्तेः यद्वा मित्रइतिसर्वोपकार्यग्निरुच्यते वरुणइ- तितमोनिवारकआदित्यः उभयोःपृथिवीद्युस्थानत्वात् ततः पूर्वमन्त्रेमित्रदृष्टान्तत्वेनाग्निःस्तुतः अत- इदमधिगम्यते अग्निरेवमित्रइति तथान्यत्रापि अग्निंमित्रंनक्षितिषुप्रशंस्यं मित्रंवयंसुधितंभृगवोदधुरि- तिच । प्रवाच्यंस्तुत्यंतादृग्युवयोर्जन्ममहेमहते दक्षसे सर्वविषयबलाय क्षितयोमनुष्यायजमानाः आ- भूषन् सर्वतोलंकुर्वन्तिश्लाघन्तइत्यर्थः जन्मनःप्रवाच्यत्वमाह—यदीं यस्मादेवकारणात् अथवा ईमि- त्यनर्थकः मिताक्षरेष्वनर्थकाः कमीमिद्वितीत्युक्तत्वात् । ऋताय यज्ञायभरथः सामर्थ्यं यत् यस्माच्च- कारणात् अर्वते युष्मान्प्राप्तवते यजमानायचभरथोभिमतं फलं अथवा उभयत्रकर्मणः संप्रदानत्वाच्च- तुर्थी यज्ञंयजमानंचभरथइत्यर्थः तथाच होत्रयास्तुतिरूपयावाचा शिम्या हविःप्रदानादिकर्मणाच प्रवीथः प्रकर्षेणप्राप्नुथः तस्मात्तत्प्रवाच्यंजन्मभूषयन्तीत्यर्थः होत्रेवाङाम होत्रागीरितितन्नामसुपाठा- त् ॥ ३ ॥

1.151.4
प्र सा क्षि॒तिर᳚सुर॒ या महि᳚ प्रि॒य ऋता᳚वानावृ॒तमा घो᳚षथो बृ॒हत् ।
यु॒वं दि॒वो बृ᳚ह॒तो दक्ष᳚मा॒भुवं॒ गां न धु॒र्युप᳚ युञ्जाथे अ॒पः ॥
▶ पदपाठः (Word-by-word)
प्र । सा । क्षि॒तिः । अ॒सु॒रा॒ । या । महि᳚ । प्रि॒या । ऋत᳚॑वानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् ।
यु॒वम् । दि॒वः । बृ॒ह॒तः । दक्ष᳚म् । आ॒॑भुव᳚म् । गाम् । न । धु॒रि । उप᳚ । यु॒ञ्जा॒थे॒ इति᳚ । अ॒पः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअसुरा असुरौ बलवन्तौ मित्रावरुणौ युवयोः याक्षितिः देवयजनरूपा महि महती अत्यधिका प्रिया प्रियतरा प्रीणयित्रीवासाक्षितिः प्रकर्षेणसंपादिता उपसर्गश्रुतेर्योग्यक्रियाध्याहारः तामासीद- तमितिशेषः यागभूमिर्देवानांप्रियेतिप्रसिद्धम आसाद्यच हेऋतावानौऋतवन्तौ युवांबृहत्प्रवृद्धं ऋत- मस्मदीयं यज्ञं आघोषथः अवैकल्येनसंपादितइतिस्तुतमित्यर्थः यतोयुवं युवां बृहतोमहतोदिवोद्युलो- कस्य धुरि दक्षं तर्पणवहनेसमर्थं अथवा बृहतोदिवः महतोद्युलोकस्थदेवान् दक्षं प्रीणयितुमितिशेषः यद्वा कर्मणिषष्ठी दिवोद्योतनात्मकंबृहतः प्रभूतं दक्षं अभिमतसाधनसमर्थं आभुवंसर्वतोभवनशीलं अपः कर्म सोमयागरूपं उपयुंजाथे सेवेथे तत्रत्थं हविःस्वीकरुथ इत्यर्थः उपयोगेदृष्टान्तः-धुरिशारी- रबलस्यनिर्वाहे तदर्थांगांन धेनुमिव तांयथाउपयुंजेततद्वत् यद्वा विकारेप्रकृतिशब्दः क्षीरादिकमिव तस्मादृतमाघोषथः ॥ ४ ॥

1.151.5
म॒ही अत्र᳚ महि॒ना वार᳚मृण्वथो॑रे॒णव॒स्तुज॒ आ सद्म᳚न्धे॒नवः᳚ ।
स्वर᳚न्ति॒ ता उ᳚प॒रता᳚ति॒ सूर्य॒मा नि॒म्रुच᳚ उ॒षस᳚स्तक्व॒वीरि᳚व ॥
▶ पदपाठः (Word-by-word)
म॒ही इति᳚ । अत्र᳚ । म॒हि॒ना । वार᳚म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः᳚ । तुजः᳚ । आ । सद्म᳚न् । धे॒नवः᳚ ।
स्वर᳚न्ति । ताः । उ॒प॒र॑ता᳚ति । सूर्य᳚म् । आ । नि॒॑म्रुचः᳚ । उ॒षसः᳚ । त॒क्व॒वीः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युवां महीमहत्यां सप्तम्येकवचनेपूर्वसवर्णदीर्घःईदूतौचसप्तम्यर्थेइतिप्रगृह्यता अत्रा- स्यांपृथिव्यां महिनामहत्त्वेन याधेनूः वारं वरणीयं प्रदेशमृण्वथः संपादयथः अंतर्भावितण्यर्थोयं गम- नादिव्यवहारस्यतयोरधीनत्वात् द्यावापृथिव्योरभिमानिदेवत्वाच्चमित्रावरुणयोः ताएताधेनवोगावः सायंकालेयुष्मन्महन्वेन अरेणवः अनवद्याः तस्कराद्यनपहारेणानष्टावा तुजः श्रीराणांप्रदात्र्यःतुजति- र्दानकर्मा सद्म्यन् सद्भ्यनिगोष्ठे आआश्रिताः आगच्छन्तिवा उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ताएवं- कारिताधेनवः उपरताति उपरतातौ सप्तम्यालुक् मेघानां विस्तारवत्यन्तरिक्षे मेघाच्छन्नेसति सूर्यं सर्वस्यप्रसवितारं सुवीर्यं शोभनसामर्थ्यं वा सुवीर्योमर्यायथागोपायतइति तत्सूर्यस्यसूर्यत्वमितिश्रु- त्यन्तरात् । आदित्यमभिलक्ष्यस्वरन्ति स्वर्यंतिसुखसंचाराय स्वृशब्दोपतापयोः भौवादिकः कस्मि- न्कालेइतितदुच्यते—निम्रुचः उषसः सर्वेष्वपिसायंकालेषूषःकालेषुच तत्रदृष्टान्तः—तक्ववीरिव त- क्वास्तेनः तस्यवेतागन्तामनुष्यः सयथाक्रोशतितद्गत् एवंनिरुद्धानां गवांसुखसंचारोयुष्मदायत्तइति- तयोःस्तुतिः ॥ ५ ॥

1.151.6
आ वा᳚मृ॒ताय᳚ के॒शिनी᳚रनूषत॒ मित्र॒ यत्र॒ वरु᳚ण गा॒तुमर्च᳚थः ।
अव॒ त्मना᳚ सृ॒जतं॒ पिन्व᳚तं॒ धियो᳚ यु॒वं विप्र᳚स्य॒ मन्म᳚नामिरज्यथः ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । ऋ॒ताय᳚ । के॒शिनीः᳚ । अ॒नू॒ष॒त॒ । मित्र᳚ । यत्र᳚ । वरु᳚ण । गा॒तुम् । अर्च᳚थः ।
अव᳚ । त्मना᳚ । सृ॒जत᳚म् । पिन्व᳚तम् । धियः᳚ । यु॒वम् । विप्र᳚स्य । मन्म᳚नाम् । इ॒र॒ज्य॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ केशिनीः केशवत्योग्नेर्ज्वालाः वांयुवयोः ऋताय यज्ञार्थं आनूषत हविः समर्पणेना- भिपूजयन्तीत्यर्थः कुत्रेतितदुच्यते—हेमित्र हेवरुण युवामुभौ यत्रयागे गातुं गमनं देवयजनदेशंवा गातुरितिपृथिवीनाम गातुः पूषेत्युक्तत्वात् अर्चथः पूजयथः स्वीकुरुथइत्यर्थः आगत्यच त्मना आत्म- नैव अवसृजतं वृष्टिमवाङ्मुखंविसृजतं तथाकृत्वाधियोऽस्मदीयानिकर्माणि पिन्वतं वर्धयतमित्यर्थः एवंकृत्वाविप्रस्यमेधाविनः यजमानस्य मन्मनां मननवतीनां स्तुतीनां युवं युवां इरज्यथः ईश्वरौ स्वामिनौभवथः इरज्यतिरैश्वर्यकर्मा इरज्यतिपत्यतइतितन्नामसूक्तत्वात् ॥ ६ ॥

1.151.7
यो वां᳚ य॒ज्ञैः श᳚शमा॒नो ह॒ दाश᳚ति क॒विर्होता॒ यज᳚ति मन्म॒साध᳚नः ।
उपाह॒ तं गच्छ᳚थो वी॒थो अ᳚ध्व॒रमच्छा॒ गिरः᳚ सुम॒तिं ग᳚न्तमस्म॒यू ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । य॒ज्ञैः । श॒श॒मा॒नः । ह॒ । दाश᳚ति । क॒विः । होता᳚ । यज᳚ति । म॒न्म॒॑साध᳚नः ।
उप᳚ । अह᳚ । तम् । गच्छ᳚थः । वी॒थः । अ॒ध्व॒रम् । अच्छ᳚ । गिरः᳚ । सु॒॑म॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य᳚स्म॒॑यू ॥
▶ सायणभाष्यम् (Sayana Commentary)

योह यःखलुयजमानोवां युवामुद्दिश्ययुवाभ्यांवा यज्ञैर्यागैर्निमित्तभूतैः शशमानः शंसमानोदाश- तिहविरादिकं स्वस्वत्वंनितर्त्य युष्मत्स्वत्वापादनंकरोति यएवकविः अनूचानः येवाअनूचानास्तेक- वयइतिश्रुतेः । अथवाकविर्मेधावी होता सम्यक् होमनिष्पादकोयजमानोमन्मसाधनः मननीयद्रव्य- दक्षिणादिसाधनोपेतः सन् यजति सोमयागादिकंकरोति तमेवयजमानं सुमतिं शोभनप्रज्ञंउपलक्ष्य गच्छथःअह प्राप्नुथःखलु प्राप्यच अध्वरं तदीयंयज्ञं वीथःकामयेथे किंच अस्मयू अस्मान्कामयमानौ युवांगिरः स्तुतीः अच्छ अभिलक्ष्य गन्तं गच्छतं तादृशंमां प्राप्यस्तुतीःस्वीकुरुतमित्यर्थः अत्रयद्यपि तमितिसामान्यनिर्देशःप्रतिभाति तथापि अस्मयूइत्यूक्तत्वाद्दीर्घतमाः स्वात्मानमेव परोक्षतयोक्तवा- नितिगम्यते यद्वा योदाशति यश्चयजतेतमुपेत्यतदीयंयज्ञंकामयेथेअतोस्मयू युवां सुमतिं मां मदीया- गिरः स्तुतीः अच्छ अभिलक्ष्यगच्छतम् ॥ ७ ॥

1.151.8 समानपद
यु॒वां य॒ज्ञैः प्र᳚थ॒मा गोभि᳚रञ्जत॒ ऋता᳚वाना॒ मन᳚सो॒ न प्रयु᳚क्तिषु ।
भर᳚न्ति वां॒ मन्म᳚ना सं॒यता॒ गिरो॑दृ᳚प्यता॒ मन᳚सा रे॒वदा᳚शाथे ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः᳚ । अ॒ञ्ज॒ते॒ । ऋत᳚॑वाना । मन᳚सः । न । प्र॑यु᳚क्तिषु ।
भर᳚न्ति । वा॒म् । मन्म᳚ना । स॒म्॑यता᳚ । गिरः᳚ । अदृ᳚प्यता । मन᳚सा । रे॒वत् । आ॒शा॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतावाना यज्ञवन्तौवृष्ट्युदकवन्तौ वा मित्रावरुणौ युवां प्रथमाप्रथमौ यज्ञैर्यजमानसाधनैर्गो- भिः गोविकारैः पयआदिभिः अंजते व्यंजयन्ति यजमानाः देवभागंयागेषु क्षीरादिभिर्यजन्तइत्यर्त्यः यद्वा गोभिर्वाग्भिरंजते स्तुवन्ति तत्रदृष्टान्तः—प्रयुक्तिषुप्रयोगेषु मनसोन कर्मणिषष्ठी मनइव तद्यथा प्रथमंव्यञ्जयन्ति मुख्यंकुर्वन्ति तसूर्वकत्वात्सर्वव्यवहारस्य किंच वांयुवां मन्मना मननवता संयतायु- वामेवस्मयग्गच्छता चित्तेन गिरः स्तुतीर्भरन्ति संपादयन्ति यस्मादेवं तस्मात् अदृप्यता अनभिभ- वतामनसाप्रकृष्टेन चेत सायुक्तौसन्तौरेवत् धनवत्कर्मास्मदीयमाशाथे अश्नुवाथे व्याप्नुथः ददाथेइत्य- र्थः अश्नोतेर्लिटि अनित्यमागमशासनमितिवचनादिडभावः ॥ ८ ॥

1.151.9
रे॒वद्वयो᳚ दधाथे रे॒वदा᳚शाथे॒ नरा᳚ मा॒याभि᳚रि॒तऊ᳚ति॒ माहि᳚नम् ।
न वां॒ द्यावो॑ह᳚भि॒र्नोत सिन्ध᳚वो॒ न दे᳚व॒त्वं प॒णयो॒ नान᳚शुर्म॒घम् ॥
▶ पदपाठः (Word-by-word)
रे॒वत् । वयः᳚ । द॒धा॒थे॒ इति॒᳚ । रे॒वत् । आ॒शा॒थे॒ इति᳚ । नरा᳚ । मा॒याभिः᳚ । इ॒त॑ऊ᳚ति । माहि᳚नम् ।
न । वा॒म् । द्यावः᳚ । अह᳚॑भिः । न । उ॒त । सिन्ध᳚वः । न । दे॒व॒॑त्वम् । प॒णयः᳚ । न । आ॒न॒शुः॒ । म॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युवांरेवत् धनवत् वयोऽन्नं दधाथे उभयंच धारयथः यस्मादेवंतस्माद्रेवत् धनवत् सहदृष्टत्वात् वयइतिगम्यते धनविशिष्टमन्नं हेनरानेतारौ युवांआशाथे अश्नुवाथे अस्मभ्यं ददाथे इत्य- र्थः कीदृशं मायाभिः युवयोःप्रज्ञाभिः इतऊति इतःअस्मदभिमुखं गमनवत् इतोरक्षणवद्वा माहिनं म- हन्नामैतत् अतिमहत् ईदृशोरावयोरेतादृशंसामर्थ्यंकुतइत्यतआह—वांयुवयोर्देवत्वं अहभिरहोभिःरा- त्रिभिः अत्राहःशब्देनरात्रिरभिधीयते द्योशब्देनाह्नः पृथगभिधानात् ताभिःसहिताद्यावोदिवसाना- नशुः तथायुवयोर्देवत्वंपणयोऽसुराअपि नानशुः भघंधनंचनानशिरे लोकत्रयेयुवयोः पराभवितारोन- केपिसन्तीत्यर्थः ॥ ९ ॥

युवंवस्त्राणीतिसप्तर्चं द्वादशंसूक्तं दैर्घतमसं अनादेशपरिभाषयात्रैष्टुभं मैत्रावरुणं पूर्वत्रमैत्रावरुणं- हीत्युक्तत्वात् सूक्तविनियोगोलैंगिकः मैत्रावरुणेपशावाद्यावपायायाज्या प्रदानानामितिखण्डेसूत्रित- म्—युवंवस्त्राणिपीवसावसाथेप्रबाहवासिसृतंजीवसेनइति सैवसमावर्तने नववस्त्रधारणेविनियुक्ता सूत्रितंच—युवंवस्त्राणिपीवसावसाथेइत्यहतेवाससीआच्छाद्येति ।