यद्ध॒ त्यद्वां᳚ पुरुमी॒ळ्हस्य᳚ सो॒मिन॒ः प्र मि॒त्रासो॒ न द᳚धि॒रे स्वा॒भुवः᳚ ।
अध॒ क्रतुं᳚ विदतं गा॒तुमर्च᳚त उ॒त श्रु᳚तं वृषणा प॒स्त्या᳚वतः ॥
अध॒ क्रतुं᳚ विदतं गा॒तुमर्च᳚त उ॒त श्रु᳚तं वृषणा प॒स्त्या᳚वतः ॥
पदपाठः (Word-by-word)
यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒॑मी॒ळ्हस्य᳚ । सो॒मिनः᳚ । प्र । मि॒त्रासः᳚ । न । द॒धि॒रे । सु॒॑आ॒भुवः᳚ ।
अध᳚ । क्रतु᳚म् । वि॒द॒त॒म् । गा॒तुम् । अर्च᳚ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य᳚॑वतः ॥
अध᳚ । क्रतु᳚म् । वि॒द॒त॒म् । गा॒तुम् । अर्च᳚ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य᳚॑वतः ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ यद्यस्मात्कारणाद्वांयुवां पुरुमीह्ळस्यबहुलाभीष्टसेचनस्य सोमिनः स्वाभुवः सो- मवतः स्वाभवनशीलस्य कर्मणिषष्ठी त्यत् उक्तलक्षणंकर्म मित्रासोन मित्राणीव मित्रभूताःऋत्विजः प्रदधिरे प्रकर्षेणधारयन्ति हेतिपूरणः अध अतः कारणात् गातुं युष्मद्गमनं अर्चते षष्ठ्यर्थेचतुर्थी अर्चतःपूजयतोयजमानस्य क्रतुंकर्म विदतंजानीतम् विदेर्लोटिव्यत्ययेनशः उत अपिच हेवृषणा का- मानांवर्षितारौ युवांपस्त्यावतः पस्त्येतिगृहनाम पस्त्यादुरोणइतितन्नामसूक्तत्वात् सदः प्राधीन- वंशादिगृहवतोयजमानस्य आह्वानं स्तोत्रं वाश्रुतंश्रृणुतं छान्दसोविकरणस्यलुक् यद्वा यद्यस्मात्सो- मिनः सोमवतः पुरुमीह्ळस्य एतन्नामकस्यराज्ञोमित्रासोन मित्राणीवस्थिताः स्वाभुवः स्वाभवन- शीलाः स्वस्वव्यापारसमर्थाः दधिरे अधअतः कारणात् तस्यार्चते अर्चतः क्रतुंविदतमित्यादिपूर्ववत् ॥ २ ॥