श्रवणम्

1.151.3
आ वां᳚ भूषन्क्षि॒तयो॒ जन्म॒ रोद᳚स्योः प्र॒वाच्यं᳚ वृषणा॒ दक्ष᳚से म॒हे ।
यदी᳚मृ॒ताय॒ भर᳚थो॒ यदर्व᳚ते॒ प्र होत्र᳚या॒ शिम्या᳚ वीथो अध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः᳚ । जन्म᳚ । रोद᳚स्योः । प्र॒॑वाच्य᳚म् । वृ॒ष॒णा॒ । दक्ष᳚से । म॒हे ।
यत् । ई॒म् । ऋ॒ताय᳚ । भर᳚थः । यत् । अर्व᳚ते । प्र । होत्र᳚या । शिम्या᳚ । वी॒थः॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषणा कामानांवर्षितारौ हेमित्रावरुणौवांयुवयोः संबन्धिजन्मजननं उत्पत्तिं रोदस्योः द्यावा- पृथिव्योः सक्राशात् द्यावापृथिवीभ्यामेवसर्वेषामुत्पत्तेः यद्वा मित्रइतिसर्वोपकार्यग्निरुच्यते वरुणइ- तितमोनिवारकआदित्यः उभयोःपृथिवीद्युस्थानत्वात् ततः पूर्वमन्त्रेमित्रदृष्टान्तत्वेनाग्निःस्तुतः अत- इदमधिगम्यते अग्निरेवमित्रइति तथान्यत्रापि अग्निंमित्रंनक्षितिषुप्रशंस्यं मित्रंवयंसुधितंभृगवोदधुरि- तिच । प्रवाच्यंस्तुत्यंतादृग्युवयोर्जन्ममहेमहते दक्षसे सर्वविषयबलाय क्षितयोमनुष्यायजमानाः आ- भूषन् सर्वतोलंकुर्वन्तिश्लाघन्तइत्यर्थः जन्मनःप्रवाच्यत्वमाह—यदीं यस्मादेवकारणात् अथवा ईमि- त्यनर्थकः मिताक्षरेष्वनर्थकाः कमीमिद्वितीत्युक्तत्वात् । ऋताय यज्ञायभरथः सामर्थ्यं यत् यस्माच्च- कारणात् अर्वते युष्मान्प्राप्तवते यजमानायचभरथोभिमतं फलं अथवा उभयत्रकर्मणः संप्रदानत्वाच्च- तुर्थी यज्ञंयजमानंचभरथइत्यर्थः तथाच होत्रयास्तुतिरूपयावाचा शिम्या हविःप्रदानादिकर्मणाच प्रवीथः प्रकर्षेणप्राप्नुथः तस्मात्तत्प्रवाच्यंजन्मभूषयन्तीत्यर्थः होत्रेवाङाम होत्रागीरितितन्नामसुपाठा- त् ॥ ३ ॥