यु॒वां य॒ज्ञैः प्र᳚थ॒मा गोभि᳚रञ्जत॒ ऋता᳚वाना॒ मन᳚सो॒ न प्रयु᳚क्तिषु ।
भर᳚न्ति वां॒ मन्म᳚ना सं॒यता॒ गिरो॑दृ᳚प्यता॒ मन᳚सा रे॒वदा᳚शाथे ॥
भर᳚न्ति वां॒ मन्म᳚ना सं॒यता॒ गिरो॑दृ᳚प्यता॒ मन᳚सा रे॒वदा᳚शाथे ॥
पदपाठः (Word-by-word)
यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः᳚ । अ॒ञ्ज॒ते॒ । ऋत᳚॑वाना । मन᳚सः । न । प्र॑यु᳚क्तिषु ।
भर᳚न्ति । वा॒म् । मन्म᳚ना । स॒म्॑यता᳚ । गिरः᳚ । अदृ᳚प्यता । मन᳚सा । रे॒वत् । आ॒शा॒थे॒ इति᳚ ॥
भर᳚न्ति । वा॒म् । मन्म᳚ना । स॒म्॑यता᳚ । गिरः᳚ । अदृ᳚प्यता । मन᳚सा । रे॒वत् । आ॒शा॒थे॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋतावाना यज्ञवन्तौवृष्ट्युदकवन्तौ वा मित्रावरुणौ युवां प्रथमाप्रथमौ यज्ञैर्यजमानसाधनैर्गो- भिः गोविकारैः पयआदिभिः अंजते व्यंजयन्ति यजमानाः देवभागंयागेषु क्षीरादिभिर्यजन्तइत्यर्त्यः यद्वा गोभिर्वाग्भिरंजते स्तुवन्ति तत्रदृष्टान्तः—प्रयुक्तिषुप्रयोगेषु मनसोन कर्मणिषष्ठी मनइव तद्यथा प्रथमंव्यञ्जयन्ति मुख्यंकुर्वन्ति तसूर्वकत्वात्सर्वव्यवहारस्य किंच वांयुवां मन्मना मननवता संयतायु- वामेवस्मयग्गच्छता चित्तेन गिरः स्तुतीर्भरन्ति संपादयन्ति यस्मादेवं तस्मात् अदृप्यता अनभिभ- वतामनसाप्रकृष्टेन चेत सायुक्तौसन्तौरेवत् धनवत्कर्मास्मदीयमाशाथे अश्नुवाथे व्याप्नुथः ददाथेइत्य- र्थः अश्नोतेर्लिटि अनित्यमागमशासनमितिवचनादिडभावः ॥ ८ ॥