उपाह॒ तं गच्छ᳚थो वी॒थो अ᳚ध्व॒रमच्छा॒ गिरः᳚ सुम॒तिं ग᳚न्तमस्म॒यू ॥
पदपाठः (Word-by-word)
उप᳚ । अह᳚ । तम् । गच्छ᳚थः । वी॒थः । अ॒ध्व॒रम् । अच्छ᳚ । गिरः᳚ । सु॒॑म॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य᳚स्म॒॑यू ॥
सायणभाष्यम् (Sayana Commentary)
योह यःखलुयजमानोवां युवामुद्दिश्ययुवाभ्यांवा यज्ञैर्यागैर्निमित्तभूतैः शशमानः शंसमानोदाश- तिहविरादिकं स्वस्वत्वंनितर्त्य युष्मत्स्वत्वापादनंकरोति यएवकविः अनूचानः येवाअनूचानास्तेक- वयइतिश्रुतेः । अथवाकविर्मेधावी होता सम्यक् होमनिष्पादकोयजमानोमन्मसाधनः मननीयद्रव्य- दक्षिणादिसाधनोपेतः सन् यजति सोमयागादिकंकरोति तमेवयजमानं सुमतिं शोभनप्रज्ञंउपलक्ष्य गच्छथःअह प्राप्नुथःखलु प्राप्यच अध्वरं तदीयंयज्ञं वीथःकामयेथे किंच अस्मयू अस्मान्कामयमानौ युवांगिरः स्तुतीः अच्छ अभिलक्ष्य गन्तं गच्छतं तादृशंमां प्राप्यस्तुतीःस्वीकुरुतमित्यर्थः अत्रयद्यपि तमितिसामान्यनिर्देशःप्रतिभाति तथापि अस्मयूइत्यूक्तत्वाद्दीर्घतमाः स्वात्मानमेव परोक्षतयोक्तवा- नितिगम्यते यद्वा योदाशति यश्चयजतेतमुपेत्यतदीयंयज्ञंकामयेथेअतोस्मयू युवां सुमतिं मां मदीया- गिरः स्तुतीः अच्छ अभिलक्ष्यगच्छतम् ॥ ७ ॥