न वां॒ द्यावो॑ह᳚भि॒र्नोत सिन्ध᳚वो॒ न दे᳚व॒त्वं प॒णयो॒ नान᳚शुर्म॒घम् ॥
पदपाठः (Word-by-word)
न । वा॒म् । द्यावः᳚ । अह᳚॑भिः । न । उ॒त । सिन्ध᳚वः । न । दे॒व॒॑त्वम् । प॒णयः᳚ । न । आ॒न॒शुः॒ । म॒घम् ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ युवांरेवत् धनवत् वयोऽन्नं दधाथे उभयंच धारयथः यस्मादेवंतस्माद्रेवत् धनवत् सहदृष्टत्वात् वयइतिगम्यते धनविशिष्टमन्नं हेनरानेतारौ युवांआशाथे अश्नुवाथे अस्मभ्यं ददाथे इत्य- र्थः कीदृशं मायाभिः युवयोःप्रज्ञाभिः इतऊति इतःअस्मदभिमुखं गमनवत् इतोरक्षणवद्वा माहिनं म- हन्नामैतत् अतिमहत् ईदृशोरावयोरेतादृशंसामर्थ्यंकुतइत्यतआह—वांयुवयोर्देवत्वं अहभिरहोभिःरा- त्रिभिः अत्राहःशब्देनरात्रिरभिधीयते द्योशब्देनाह्नः पृथगभिधानात् ताभिःसहिताद्यावोदिवसाना- नशुः तथायुवयोर्देवत्वंपणयोऽसुराअपि नानशुः भघंधनंचनानशिरे लोकत्रयेयुवयोः पराभवितारोन- केपिसन्तीत्यर्थः ॥ ९ ॥
युवंवस्त्राणीतिसप्तर्चं द्वादशंसूक्तं दैर्घतमसं अनादेशपरिभाषयात्रैष्टुभं मैत्रावरुणं पूर्वत्रमैत्रावरुणं- हीत्युक्तत्वात् सूक्तविनियोगोलैंगिकः मैत्रावरुणेपशावाद्यावपायायाज्या प्रदानानामितिखण्डेसूत्रित- म्—युवंवस्त्राणिपीवसावसाथेप्रबाहवासिसृतंजीवसेनइति सैवसमावर्तने नववस्त्रधारणेविनियुक्ता सूत्रितंच—युवंवस्त्राणिपीवसावसाथेइत्यहतेवाससीआच्छाद्येति ।