विश्वं॒ त्मना᳚ बिभृतो॒ यद्ध॒ नाम॒ वि व᳚र्तेते॒ अह᳚नी च॒क्रिये᳚व ॥
पदपाठः (Word-by-word)
विश्व᳚म् । त्मना᳚ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम᳚ । वि । व॒र्ते॒ते॒ इति᳚ । अह᳚नी॒ इति᳚ । च॒क्रिया᳚॑इव ॥
सायणभाष्यम् (Sayana Commentary)
अयोरनयोर्द्यावापृथिव्योर्मध्ये कतरापूर्वापूर्वमुत्पन्ना कतरावा अपरापश्चद्भाविनी एवं पौर्वापर्य- प्रश्नः उभयोरविनाभावेनसहैववर्तमानत्वादितिभावः तथाकथाकेनहेतुनाजातेकिमनयोरुत्पादकमि- त्यर्थः हेकवयः क्रान्तदर्शिनः अतीन्द्रियज्ञायूयंवदत कोविवेदपौर्वापर्यं कारणंचविशेषेणविविच्यवा- जानाति नकेनापिज्ञायतइत्यर्थः अज्ञानेकारणमाह—यद्यस्मात्खलुहेतोर्नामप्रसिद्धम् विश्वंकृत्स्नमपि- जगदविशेषेण त्मना आत्मनैव अन्यनैरपेक्ष्येणैवबिभृतोधारयः यद्वायद्धनामयत्किंचित्पदार्थजातम- स्ति विश्वंतत्सर्वमात्मनाबिभृतः अनेनयत्कारणंब्रूमः तदप्याभ्यामेवभ्रियतइतिकारणाभावः प्रतिपा- दितइति उत्तरेणपौर्वापर्याभावउच्यते अहनीअहोरात्रेएतयोः द्यावापृथिव्योः चक्रियेवचक्रयुक्तेइव विवर्तेते अत्रकतरापूर्वाकतरापरैनयोरित्यादिनिरुक्तंद्रष्टव्यम् ॥ १ ॥