उ॒भा शंसा॒ नर्या॒ माम᳚विष्टामु॒भे मामू॒ती अव᳚सा सचेताम् ।
भूरि᳚ चिद॒र्यः सु॒दास्त᳚राये॒षा मद᳚न्त इषयेम देवाः ॥
भूरि᳚ चिद॒र्यः सु॒दास्त᳚राये॒षा मद᳚न्त इषयेम देवाः ॥
पदपाठः (Word-by-word)
उ॒भा । शंसा᳚ । नर्या᳚ । माम् । अ॒वि॒ष्टा॒म् । उ॒भे इति᳚ । माम् । ऊ॒ती इति᳚ । अव᳚सा । स॒चे॒ता॒म् ।
भूरि᳚ । चि॒त् । अ॒र्यः । सु॒दाः॑त᳚राय । इ॒षा । मद᳚न्तः । इ॒ष॒ये॒म॒ । दे॒वाः॒ ॥
भूरि᳚ । चि॒त् । अ॒र्यः । सु॒दाः॑त᳚राय । इ॒षा । मद᳚न्तः । इ॒ष॒ये॒म॒ । दे॒वाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
उभाशंसाद्यावापृथिव्योरुभयोर्विषयावुभावपिशंसौ नर्यानरेभ्योहितौ ईदृश्यावुभयाश्रयेस्तुती- मामविष्टांरक्षतां यद्वा द्यावापृथिव्यभिमानिदेवयोरेवशंसशब्देनाभिधानात्पुँल्लिङ्गता तथाउभेऊ- तीरक्षिकेद्यावापृथिव्यौमामवसारक्षणेनसचेतांसेवेतां यद्वा प्राणिभ्योहितकरावुभावैहिकामुष्मिकवि- षयौशंसौमामविष्टांप्राप्नुतां तथोभेअप्यूतीतयोः संबन्धिनोः अभिमानिदेवयोरवसास्मत्त र्पणेननिमि- त्तेनसचेतां हेदेवाः द्यावापृथिव्योरन्तर्भूताः सर्वेपिदेवाः अर्यः स्तोतारोवयंसुदास्तराय अतिशयेनशो- भनदातृत्वाय इषान्नेनसोमलक्षणेनमदन्तः मादयन्तः सन्तोभुरिचित् चित् पूजायामभिपूजितंधनमि- शयेमइच्छेम यद्वा अर्यइतिषष्ठ्यारूपं ईश्वरस्यराजादेरपिसुदास्तरायेत्यर्थः शिष्टंसमानम् ॥ ९ ॥ ऋतंदिवइतिद्वेद्यावापृथिवीयेपशौपुरोडाशहविषोनुवाक्ये अग्नीषोमावितिखण्डेसूत्रितम्—ऋतं- दिवोचंपृथिव्याइतिद्वेइति ।