अ॒ने॒हो दा॒त्रमदि᳚तेरन॒र्वं हु॒वे स्व᳚र्वदव॒धं नम᳚स्वत् ।
तद्रो᳚दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
तद्रो᳚दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
पदपाठः (Word-by-word)
अ॒ने॒हः । दा॒त्रम् । अदि᳚तेः । अ॒न॒र्वम् । हु॒वे । स्वः᳚॑वत् । अ॒व॒धम् । नम᳚स्वत् ।
तत् । रो॒द॒सी॒ इति᳚ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
तत् । रो॒द॒सी॒ इति᳚ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
अदितेः एतदन्तरिक्षस्याप्युपलक्षणं अखण्डनीयायाः पृथिव्यास्तादृशस्यान्तरिक्षस्य चसंबन्धिदा- त्रंधनंहुवे आह्वयामि स्पृहयामीत्यर्थः कीदृशंतद्धनं अनेहः अपापंदुः खरहितंसुस्वात्मकं अनर्वं अनर- णं अक्षीणमित्यर्थः स्वर्वत् फलभूतेनस्वर्गेणतद्वत् अवधं अहिंसितं नमस्वत् अन्नवत् ईदृशंधनंहुवे तद- स्माभिःकांक्षितंउक्तलक्षणंधनं हेरोदसी द्यावापृथिव्यौ जरित्रेस्तोत्रेयजमानायजनयतंउत्पादयतं द्या- वेत्यादिव्याख्यातम् ॥ ३ ॥