श्रवणम्

1.185.11
इ॒दं द्या᳚वापृथिवी स॒त्यम᳚स्तु॒ पित॒र्मात॒र्यदि॒होप᳚ब्रु॒वे वा᳚म् ।
भू॒तं दे॒वाना᳚मव॒मे अवो᳚भिर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । स॒त्यम् । अ॒स्तु॒ । पितः᳚ । मातः᳚ । यत् । इ॒ह । उ॒प॒॑ब्रु॒वे । वा॒म् ।
भू॒तम् । दे॒वाना᳚म् । अ॒व॒मे इति᳚ । अवः᳚॑भिः । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेद्यावापृथिवी द्यावापृथिव्यौ इदमस्माभिः क्रियमाणंस्तोत्रंसत्यमस्तु अवितथंभवतु फलवद्भव- त्वित्यर्थः इदमित्युक्तंकिंतदित्याह—हेपितर्द्यौः हेमातः पृथिवि वांयुवांप्रतिइहास्मिन्यज्ञेयत्स्तोत्रमु- पब्रुवे उपेत्यब्रवीमि तत्सत्यमस्तु देवानांस्तोतॄणामस्माकं अवमेअन्तिकनामैतत् नित्यसंनिहितेयुवां अवोभिः तर्पणैर्युक्तेभूतंभवतम् अवशिष्टंगतम् ॥ ११ ॥

आनइळाभिरितिसप्तमंसूक्तमेकादशर्चंआग्स्त्यंत्रैष्टुभंवैश्वदेवं आनोवैश्वदेवमित्यनुक्रान्तम् विनियो- गोलैङ्गिकः ।