उ॒र्वी सद्म᳚नी बृह॒ती ऋ॒तेन᳚ हु॒वे दे॒वाना॒मव᳚सा॒ जनि᳚त्री ।
द॒धाते॒ ये अ॒मृतं᳚ सु॒प्रती᳚के॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
द॒धाते॒ ये अ॒मृतं᳚ सु॒प्रती᳚के॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
पदपाठः (Word-by-word)
उ॒र्वी इति᳚ । सद्म᳚नी॒ इति᳚ । बृ॒ह॒ती इति᳚ । ऋ॒तेन᳚ । हु॒वे । दे॒वाना᳚म् । अव᳚सा । जनि᳚त्री॒ इति᳚ ।
द॒धाते॒ इति᳚᳚ । ये इति᳚ । अ॒मृत᳚म् । सु॒प्रती᳚के॒ इति᳚ सु॒॑प्रती᳚के । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
द॒धाते॒ इति᳚᳚ । ये इति᳚ । अ॒मृत᳚म् । सु॒प्रती᳚के॒ इति᳚ सु॒॑प्रती᳚के । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
उर्वी विस्तीर्णे सद्मनी सदनाधारभूते बृहती बृहतयौ महानुभावे देवानामुपलक्षणमेतत् देवमुनु- ष्यादीनां अवसाप्रीत्या निमित्तेनजनित्री वृष्टिसस्ययोर्जनित्र्यौ वृष्ट्यादेः देवानामवसा तर्पणेन नि- मित्तेन ऋतेनयज्ञेनच निमित्तभूतेन हुवेआह्वयामि देवानांहविरर्थमस्मद्यज्ञायेत्यर्थः येसुप्रतीकेशोभ- नरूपे अमृतमुदकं दधाते धारयतम् तेयुवामाह्वयामि शिष्टंस्पष्टम् ॥ ६ ॥