श्रवणम्

1.185.2
भूरिं॒ द्वे अच᳚रन्ती॒ चर᳚न्तं प॒द्वन्तं॒ गर्भ᳚म॒पदी᳚ दधाते ।
नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । द्वे इति᳚ । अच᳚रन्ती॒ इति᳚ । चर᳚न्तम् । प॒त्॑वन्त᳚म् । गर्भ᳚म् । अ॒पदी॒ इति᳚ । द॒धा॒ते॒ इति᳚ ।
नित्य᳚म् । न । सू॒नुम् । पि॒त्रोः । उ॒प॑स्थे᳚ । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अचरन्तीअविचलेद्वेएवैतेद्यावापृथिव्यौ भुरिंबहुतरंचरन्तंपद्वन्तंपादयुक्तंगर्भंगर्भवदाश्रितंकृत्सं- प्राणिजातं अपदीस्वयंपादरहितेदधातेधारयतः अनयोर्मध्येखलुसर्वंजगत् क्षेमेणवर्तते धारणेदृष्टान्तः- पित्रोर्मातापित्रोरुपस्थेउत्संगेवर्तमानंनित्यंध्रुवंसूनुंन आत्मजंपुत्रमिय यथास्नेहेनवर्धयन्तौधारयतोमा- तापितरौतद्वत् अथप्रत्यक्षेणाह—हेद्यावापृथिवीद्यावाप्रुथिव्यौ इतरेतरापेक्षयाद्वित्वमुभयोः नोस्मा- नभ्वात् महतोभयहेतोः पापाद्रक्षतंपालयतं यद्वाअभ्वात् अभ्वंमहत् अत्यर्थमित्यर्थः अभ्वेतिमहन्नाम द्वन्द्वेकृतद्यावादेशस्यद्यावापृथिवीशब्दस्यमध्येरक्षतमितिपदप्रयोगश्छान्दसः आमन्त्रितस्याविद्यमा- नत्वेननिघाताभावः ॥ २ ॥