ऋ॒तं दि॒वे तद᳚वोचं पृथि॒व्या अ᳚भिश्रा॒वाय᳚ प्रथ॒मं सु᳚मे॒धाः ।
पा॒ताम᳚व॒द्याद्दु᳚रि॒ताद॒भीके᳚ पि॒ता मा॒ता च᳚ रक्षता॒मवो᳚भिः ॥
पा॒ताम᳚व॒द्याद्दु᳚रि॒ताद॒भीके᳚ पि॒ता मा॒ता च᳚ रक्षता॒मवो᳚भिः ॥
पदपाठः (Word-by-word)
ऋ॒तम् । दि॒वे । तत् । अ॒वो॒च॒म् । पृ॒थि॒व्यै । अ॒भि॒॑श्रा॒वाय᳚ । प्र॒थ॒मम् । सु॒॑मे॒धाः ।
पा॒ताम् । अ॒व॒द्यात् । दुः॒॑इ॒तात् । अ॒भीके᳚ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः᳚॑भिः ॥
पा॒ताम् । अ॒व॒द्यात् । दुः॒॑इ॒तात् । अ॒भीके᳚ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
सुमेधाः शोभनप्रज्ञोहंदिवेद्युदेवतायैपृथिव्यैपृथिवीदेवतायैतत्तत्प्रीतिकरंऋतंस्तोत्रंप्रथमं मुख्य- नामैतत् प्रतमंप्रकृष्टतमंअवोचंब्रवीमि किमर्थं अभिश्रावाय अभितःसर्वतःश्रवणाय किञ्च पितापाल- कोद्युलोकः मातासस्यादेर्निर्मात्रीप्रुथिवीचोभेअवद्यान्निन्दितात् दुरितात् दुःखप्रापकादंहसः सका- शात्पातां रक्षतां तथां अभीके अन्तिकनामैतत् समीपेएवावोभिरभिमततर्पणैः रक्षतांपालयताम् ॥ १० ॥