श्रवणम्

1.185.5
सं॒गच्छ᳚माने युव॒ती सम᳚न्ते॒ स्वसा᳚रा जा॒मी पि॒त्रोरु॒पस्थे᳚ ।
अ॒भि॒जिघ्र᳚न्ती॒ भुव᳚नस्य॒ नाभिं॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
▶ पदपाठः (Word-by-word)
स॒ङ्गच्छ᳚माने॒ इति᳚ स॒म्॑गच्छ᳚माने । यु॒व॒ती इति᳚ । सम᳚न्ते॒ इति॒ सम्॑अ᳚न्ते । स्वसा᳚रा । जा॒मी इति᳚ । पि॒त्रोः । उ॒प॑स्थे᳚ ।
अ॒भि॒जिघ्र᳚न्ती॒ इत्य᳚भि॒॑जिघ्र᳚न्ती । भुव᳚नस्य । नाभि᳚म् । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सङ्गच्छमानेपरस्परमुपकारित्वेनसहयुज्यमाने वृष्टिहविषोश्चपरस्परंउपकार्योपकारकभावःयद्वा पूर्वंसंसृष्टेएवसत्यौ पश्चाद्वियुज्यवृष्टिहविषी अकुर्वन्त्यौपश्चान्मनुष्यैः प्रार्थितैर्देवैः विवाहिते सत्यौ सं- गते अभूतामित्याहुः अयमर्थोद्यावापृथिवीसहास्तामित्यादिब्राह्मणेसमाम्नातः युवतीनित्यतरुपयौ मिश्रयन्त्यौवासर्वेषुभावेषु समन्ते समानान्तिके समानपर्यन्तेवा स्वसारापरस्परंस्वसृभूते जामीब- न्धुभूते प्रजापतेःसकाशात्सहोत्पन्नत्वात्परस्परंजामित्वम् तथाचनिगमौ—दिवञ्चपृथिंवीचान्तरिक्ष- मथोस्वः । यतोद्यावापृथिवीनिष्टतक्षुरिति । पित्रोःसर्वस्यपितृस्थानीययोः पालकयोः तयोरुपस्थे उ- त्सङ्गेस्थितं भुवनस्य भूतजातस्य नाभिंबन्धकमुदकं अभिजिघ्रन्ती अभिघ्राणंकुर्वन्त्यौ स्पृशन्त्यौ स- मानमेतदुदकमित्यादिमन्त्रवर्णादुभयोरुदकप्रदत्वंप्रसिद्धम् ईदृश्यौनोरक्षतम् ॥ ५ ॥