उ॒र्वी पृ॒थ्वी ब᳚हु॒ले दू॒रेअ᳚न्ते॒ उप᳚ ब्रुवे॒ नम᳚सा य॒ज्ञे अ॒स्मिन् ।
द॒धाते॒ ये सु॒भगे᳚ सु॒प्रतू᳚र्ती॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
द॒धाते॒ ये सु॒भगे᳚ सु॒प्रतू᳚र्ती॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
पदपाठः (Word-by-word)
उ॒र्वी इति᳚ । पृ॒थ्वी इति᳚ । ब॒हु॒ले इति᳚ । दू॒रेअ᳚न्ते॒ इति᳚ दू॒रे॑अ᳚न्ते । उप᳚ । ब्रु॒वे॒ । नम᳚सा । य॒ज्ञे । अ॒स्मिन् ।
द॒धाते॒ इति᳚ । ये इति᳚ । सु॒भगे॒ इति᳚ सु॒॑भगे᳚ । सु॒प्रतू᳚र्ती॒ इति᳚ सु॒॑प्रतू᳚र्ती । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
द॒धाते॒ इति᳚ । ये इति᳚ । सु॒भगे॒ इति᳚ सु॒॑भगे᳚ । सु॒प्रतू᳚र्ती॒ इति᳚ सु॒॑प्रतू᳚र्ती । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
उर्वीउर्व्यौ महत्यौपृथ्वी पृथिव्यौ बहुले अनेकप्रकारेणप्रथमाने बाह्वाकारे दूरेअन्ते विप्रकृष्टान्त- देशेअपारेइत्यर्थः ईदृश्यौ युवामस्मिन् यज्ञे नमसानमःसाधनेनस्तोत्रेणउपब्रुवे उपेत्यब्रवीमि स्तौमी- त्यर्थः पुनःकीदृश्यौ येसुभगे शोभनभाग्ये सुप्रतुर्ती सुप्रतरणे शोबनदाने दधातेविश्वं जगत् तेयुवामुप- ब्रुवेस्तौमि ॥ ७ ॥