श्रवणम्

1.185.4
अत᳚प्यमाने॒ अव॒साव᳚न्ती॒ अनु᳚ ष्याम॒ रोद᳚सी दे॒वपु᳚त्रे ।
उ॒भे दे॒वाना᳚मु॒भये᳚भि॒रह्नां॒ द्यावा॒ रक्ष᳚तं पृथिवी नो॒ अभ्वा᳚त् ॥
▶ पदपाठः (Word-by-word)
अत᳚प्यमाने॒ इति᳚ । अव᳚सा । अव᳚न्ती॒ इति᳚ । अनु᳚ । स्या॒म॒ । रोद᳚सी॒ इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे ।
उ॒भे इति᳚ । दे॒वाना᳚म् । उ॒भये᳚भिः । अह्ना᳚म् । द्यावा᳚ । रक्ष᳚तम् । पृ॒थि॒वी॒ इति᳚ । नः॒ । अभ्वा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवसास्वतोधिकेनकेनचित् कृतेन अवनेनसमृद्ध्या अतप्यमाने अनीश्वरे तपऎश्वर्यकर्मणइदंरूपम् यद्वाअतप्यमाने अन्यैरपीड्यमाने अवसा अन्नेन अवन्तीतर्पयन्त्यौदेवपुत्रे देवाः व्यवहर्तारोमनुष्याः पुत्रस्थानीयाययोः तादृश्यौलोकद्वयस्थामनुष्यादेवाश्चतदुपजीव्यत्वात्पुत्राइत्युच्यन्ते ईदृश्यौ उभेरो- दसीद्यावापृथिव्यौदेवानामह्नां एतद्रात्रेरप्युपलक्षणम् द्योतमानानामह्नांरात्रीणांचसंबन्धिभिःउभ- येभिरुभयविधैः शीतोष्णादिरूपैर्विलक्षणैर्धनैर्निमित्तभूतैः तेषांलाभायेत्यर्थः तदर्थंयुवां अनुष्याम अनुभवेम शिष्टोव्याख्यातः ॥ ४ ॥