प्रथमं मण्डलम् - सूक्तम् 110

9 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: ऋभवः छन्दः: जगती

सूक्तम् 1.110 - सम्पूर्णम्

1 / 9
ऋक्: 1.110.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.110.1
त॒तं मे॒ अप॒स्तदु᳚ तायते॒ पुन॒ः स्वादि᳚ष्ठा धी॒तिरु॒चथा᳚य शस्यते ।
अ॒यं स᳚मु॒द्र इ॒ह वि॒श्वदे᳚व्य॒ः स्वाहा᳚कृतस्य॒ समु᳚ तृप्णुत ऋभवः ॥
▶ पदपाठः (Word-by-word)
त॒तम् । मे॒ । अपः᳚ । तत् । ऊं॒ इति᳚ । ता॒य॒ते॒ । पुन॒रिति᳚ । स्वादि᳚ष्ठा । धी॒तिः । उ॒चथा᳚य । श॒स्य॒ते॒ ।
अ॒यम् । स॒मु॒द्रः । इ॒ह । वि॒श्व॑दे᳚व्यः । स्वाहा᳚॑कृतस्य । सम् । ऊं॒ इति᳚ । तृ॒प्णु॒त॒ । ऋ॒भ॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो मे मयापोऽग्निष्टोमादिरूपं कर्म ततम् । विस्तारितम् । बहुशः पूर्वमनुष्ठितम् । तदु तदेव पुनस्तायते । विस्तार्यते अनुष्ठीयत इत्यर्थः तत्र स्वादिष्ठा स्वादुतमातिशयेन प्रीतिकरी धीतिः स्तुतिश्चोचथाय स्तुत्याय शस्यते । पठ्यते । अपि चेहास्मिन्यागे समुद्रः समुंदनशीलोऽयं सोमरसो विश्वदेव्यः सर्वेभ्यो देवेभ्यः पर्याप्तो यथा भवति तथा संपादितः । तस्य स्वाहाकृतस्य स्वाहाकारेणाग्नौ प्रक्षिप्तस्य सोमस्य पानेन समु तृप्णुत । सम्यगेव तृप्ता भवत ॥ ततम् । तनु विस्तारे । निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अपः । आप्लृव्याप्तौ । आपः कर्माख्यायां ह्रस्वो नुट्च वा (उ ४-२०७) इत्यसुन् धातोर्ह्रस्वश्च । तायते । तनोतेर्यकि (पा ६-४-४४) इत्यात्वम् । स्वादिष्ठा । स्वादुशब्दादातिशायनिक इष्ठन् । टीरिति टलोपः । उचथाय । वच परिभाषणे । औणादिकोऽथक्प्रत्ययः । वचिस्वपीत्यादिना संप्रसारणम् । समुद्रः । उंदी क्लेदने । स्फायितंचेत्यादिना रक् । अनिदितामिति नलोपः । विश्वदेव्यः । देवार्हो भागो देव्यः । छंदसि चेति यप्रत्ययः । विश्वे सर्वे देव्या यस्मिन्सोमे । बहुव्रीहौ विश्वं संज्ञायामिति व्यत्ययेनासंज्ञायामपि पूर्वपदांतोदात्तत्वम् । स्वाहकृतस्य । स्वाहाशब्दस्य ऊर्यादित्वेन गतित्वात् (पा १-४-६१) गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वम् । तृप्णुत । तृप प्रीणने । स्वादिभ्यः श्नुः । ऋभव । इत्यनेन संहितायामृत्यक इति प्रकृतिभावः ॥ १ ॥

1.110.2
आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा᳚का॒ः प्राञ्चो॒ मम॒ के चि᳚दा॒पयः᳚ ।
सौध᳚न्वनासश्चरि॒तस्य᳚ भू॒मनाग᳚च्छत सवि॒तुर्दा॒शुषो᳚ गृ॒हम् ॥
▶ पदपाठः (Word-by-word)
आ॒॑भो॒गय᳚म् । प्र । यत् । इ॒च्छन्तः᳚ । ऐत᳚न । अपा᳚काः । प्राञ्चः᳚ । मम᳚ । के । चि॒त् । आ॒पयः᳚ ।
सौध᳚न्वनासः । च॒रि॒तस्य᳚ । भू॒मना᳚ । अग᳚च्छत । स॒वि॒तुः । दा॒शुषः᳚ । गृ॒हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवोऽपाकाः परिपक्वज्ञानाः प्रांचः पूर्वकालीना ममापयः प्रापयितारो मदीया ज्ञातयः के चित् एवंभूता ये केचन यूयमाभोगयमुपभोग्यं सोममिच्छंतो यद्यदा प्रैतन तपश्चरितुमरण्यं गतवंतः । ऋभवो हि सुधन्वन आंगिरसस्य पुत्राः । तदुक्तं यास्केन । ऋभुर्विभ्वा वाज इति सुधन्वन आंगिरसस्य त्रयः पुत्रा बभूवुः । नि ११-१६ । इति । कुत्सोऽप्यांगिरसः । अतस्तेन मदीया ज्ञातय इत्युक्तम् । हे सौधन्वनासः सुधन्वनः पुत्राः । तदानीं चरितस्य समुपार्जितस्य तपसो भूमना भूम्ना बहुत्वेन दाशुषो हवींषि दत्तवतः सवितुः सोमाभिषवं कुर्वतो यजमानस्य संबंधि यज्ञगृहमगच्छत । तपसा लब्धसोमाः संतः कृतपाना यूयं गतंवंतः । यद्वा । दाशुषः प्रातःसवनादिष्टग्न्यादिभिरपसारितेभ्य ऋभुभ्यः सोमपानं दत्तवतः सवितुर्गृहं निवासस्थानं तृतीय सवनाख्यमगच्छत । प्राप्ताः । एतत्सर्वमार्भवं शंसतीत्यादौ । ऐ ब्रा ३-३० । विस्पष्टमाम्नातं ॥ आभोगयं आ समंताद्भोग आभोगः । तदर्ह अभोगयः । छंदसिचेति यः । यस्येति लोपाभावश्छांदसः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वा । आङ् पूर्वाद्भुजेरौणादिकः कर्मणि इप्रत्ययः कुत्वं च अमि व्यत्ययेन गुणः । ऐतन । इण् गतौ । लङि मध्यमबहुवचनस्य थस्य तादेशः । तप्तनप्तनथनाश्चेति तस्य तनबादेशः । आडागमो वृद्दिश्च । आपयः । आप्नोतेरौणादिक इप्रत्ययः । भूमना । बहुशब्दात्पृथ्वादिलक्षण इमनिच् । बहोर्लोपो भू च बहोरितीकारलोपो बहोर्भूभावश्च । संज्ञापूर्वकस्य विधेरनित्यत्वादलोपाभावः ॥ २ ॥

1.110.3
तत्स᳚वि॒ता वो᳚॑मृत॒त्वमासु᳚व॒दगो᳚ह्यं॒ यच्छ्र॒वय᳚न्त॒ ऐत᳚न ।
त्यं चि᳚च्चम॒समसु᳚रस्य॒ भक्ष᳚ण॒मेकं॒ सन्त᳚मकृणुता॒ चतु᳚र्वयम् ॥
▶ पदपाठः (Word-by-word)
तत् । स॒वि॒ता । वः॒ । अ॒मृ॒त॒॑त्वम् । आ । अ॒सु॒व॒त् । अगो᳚ह्यम् । यत् । श्र॒वय᳚न्तः । ऐत᳚न ।
त्यम् । चि॒त् । च॒म॒सम् । असु᳚रस्य । भक्ष᳚णम् । एक᳚म् । सन्त᳚म् । अ॒कृ॒णु॒त॒ । चतुः᳚॑वयम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवस्तत्तदानीं सविता सर्वस्य प्रेरको देवो वो युष्माकममृतत्वं देवत्वमासुवत् । आभिमुख्येन प्रेरितवान् । दत्तवानित्यर्थः । यद्यदा यूयमगोह्यं गूहितुमशक्यं सर्वैर्दृश्यमानं सवितारं श्रवयंतोऽपेक्षितं सोमपानं विज्ञापयंतः संत ऐतन आगच्छत । तदानीमिति पूर्वेणान्वयः । यस्माद्यूयं देवैराज्ञापिताः संतोऽसुरस्य त्वष्टुः संबंधिनम् । तेन निर्मितमित्यर्थः । भक्षणं सोमपानसाधनं त्यं तं चमसमेकं चित् असहायमेव संतं चतुर्वयं चतुर्व्यूहमकृणुत । कृतवंतः । सृष्ट्यादौ त्वष्ट्राकृतं चमसं होतृचमसादि मुख्यचमस चतुष्टयरूपेण ऋभवः कृतवंत इत्यर्थः ॥ असुवत् । षू प्रेरणे । तौदादिकः । श्रवयंतः । श्रु श्रवणे । छांदसो वृद्ध्यभावः । ऐतन । लङि मध्यमबहुवचनस्य तादेशे तप्तनप्तनथनाश्चेति तनबादेशः । भक्षणम् । करणे ल्युट् । अकृणुत । कृवि हिंसाकरणयोश्च । लङि मध्यमबहुवचने धिन्विकृण्व्योरच्चेत्युप्रत्ययः । चतुर्वयम् । वय अवयवाः । चत्वारोऽवयवा यस्य स तथोक्तः ॥ ३ ॥

1.110.4
वि॒ष्ट्वी शमी᳚ तरणि॒त्वेन᳚ वा॒घतो॒ मर्ता᳚स॒ः सन्तो᳚ अमृत॒त्वमा᳚नशुः ।
सौ॒ध॒न्व॒ना ऋ॒भव॒ः सूर᳚चक्षसः संवत्स॒रे सम᳚पृच्यन्त धी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
वि॒ष्ट्वी । शमी᳚ । त॒र॒णि॒॑त्वेन᳚ । वा॒घतः᳚ । मर्ता᳚सः । सन्तः᳚ । अ॒मृ॒त॒॑त्वम् । आ॒न॒शुः॒ ।
सौ॒ध॒न्व॒नाः । ऋ॒भवः᳚ । सूर᳚॑चक्षसः । सं॒व॒त्स॒रे । सम् । अ॒पृ॒च्य॒न्त॒ । धी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाघतः । ऋत्विङ्नामैतत् । अत्र च सामर्थ्यात्तद्वंतो लक्ष्यंते । ऋत्विग्भिरुपेता ऋभवः शमी । कर्मनामैतत् । यागदानादीनि । कर्माण्यन्यान्यप्येकं चमसं चतुरस्कृणोतन । ऋ १-१६१-२ । इत्यादिना देवैरुक्तानि कर्माणि तरणित्वेन तरणिरिति क्षिप्रनाम । क्षिप्रत्वेन शैघ्र्येण विष्ट्वी । यद्यप्येतत्कर्मनाम तथाप्यत्र क्रियापरं व्याप्य कृत्वेत्यर्थः । एवं कर्माणि कृत्वा मर्तासो मनुष्या अपि संतोऽमृतत्वं देवत्वमानशुः । आनशिरे । कृतैः कर्मभिर्लेभिरे । देवत्वं प्राप्य च सौधन्वनाः सुधन्वनः पुत्राः सूरचक्षसः सूर्यसमानप्रकाशाः सूर्यसदृशज्ञाना वा ते ऋभवः संवत्सरे संवत्सरावयवभूते वसंतादिकालेऽनुष्ठेयैर्धीतिभिरग्निष्टोमादिकर्मभिः समपृच्यंत । संयुक्ता अभवन् । हविर्भागार्हा बभूवुरित्यर्थः । अत्र निरुक्तम् । कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा मर्तासः संतोऽमृतत्वमानशिरे सौधन्वना ऋभवः सूरख्याना वा सूरप्रज्ञा वा संवत्सरे समपृच्यंत धीतिभिः कर्मभिर्ऋभुर्विभ्वा वाज इति सुधन्वन आंगिरसस्य त्रयः पुत्रा बभूवुः । नि ११-१६ । इति ॥ विष्ट्वी विष्णृ व्याप्तौ । स्नात्त्व्यादयश्च (पा ७-१-४९) क्त्वाप्रत्ययस्य ईकारांतादेशः । शमी । सुपां सुलुगिति शसो लुक् । आनशुः । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । अश्नोतेश्चेत्यभ्यासादुत्तरस्य नुडागमः । अपृच्यंत । पृची संपर्के । कर्मणि लङ् ॥ ४ ॥

1.110.5
क्षेत्र᳚मिव॒ वि म᳚मु॒स्तेज᳚नेन{4}॒ एकं॒ पात्र᳚मृ॒भवो॒ जेह᳚मानम् ।
उप᳚स्तुता उप॒मं नाध᳚माना॒ अम᳚र्त्येषु॒ श्रव᳚ इ॒च्छमा᳚नाः ॥
▶ पदपाठः (Word-by-word)
क्षेत्र᳚म्॑इव । वि । म॒मुः॒ । तेज᳚नेन । एक᳚म् । पात्र᳚म् । ऋ॒भवः᳚ । जेह᳚मानम् ।
उप᳚॑स्तुताः । उ॒प॒॑मम् । नाध᳚मानाः । अम᳚र्त्येषु । श्रवः᳚ । इ॒च्छमा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उपस्तुताः समीपस्थैर्ऋषिभिः स्तुता ऋभवो जेहमानं होमक्रियां प्रति प्रयतमानमेकमसहायं पात्रं पानसाधनं त्वष्ट्रा निर्मितं चमसं मानदंडेन क्षेत्रमिव भूमिमिव तेजनेन तीक्ष्णेन शस्त्रेण चमसचतुष्टयरूपेण कर्तुं वि ममुः । विशेषेण मानं कृतवंतः । किमिच्छंतः । उपमं सर्वेषामुपमानभूतं प्रशस्तं सोमलक्षणमन्नं नाधमाना याचमानाः । एतदेव विवृणोति । अमर्त्येषु मरणरहितेषु देवेषु मध्ये श्रवो हविर्लक्षणमन्नमिच्छमाना इच्छंतः । देवैः सह सोमपानं कामयमानास्तल्लाभाय चतुरश्चमसानकार्षुरित्यर्थः । ममुः । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । तेजनेन । अणोऽप्रगृह्यस्यानुनासिकः (पा ८-४-५७) इत्यनवसाने व्यत्ययेनाकारस्यानुनासिक्यम् । ईषा अक्षादित्वात्प्रकृतिभावः । जेहमानम् । वेहृ जेहृ वाहृ प्रयत्ने । भौवादिकः । अनुदात्तेत्त्वादात्मनेपदम् । उपस्तुताः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उपमम् । माङ् माने । आतश्चोपसर्ग इति कप्रत्ययः । इच्छमानाः । व्यत्ययेनात्मनेपदं ॥ ५ ॥

1.110.6
आ म᳚नी॒षाम॒न्तरि᳚क्षस्य॒ नृभ्य᳚ः स्रु॒चेव᳚ घृ॒तं जु᳚हवाम वि॒द्मना᳚ ।
त॒र॒णि॒त्वा ये पि॒तुर᳚स्य सश्चि॒र ऋ॒भवो॒ वाज᳚मरुहन्दि॒वो रजः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । म॒नी॒षाम् । अ॒न्तरि᳚क्षस्य । नृ॑भ्यः᳚ । स्रु॒चा॑इ᳚व । घृ॒तम् । जु॒ह॒वा॒म॒ । वि॒द्मना᳚ ।
त॒र॒णि॒॑त्वा । ये । पि॒तुः । अ॒स्य॒ । स॒श्चि॒रे । ऋ॒भवः᳚ । वाज᳚म् । अ॒रु॒ह॒न् । दि॒वः । रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंतरिक्षस्यांतरिक्षलोकस्य मध्यमस्थानस्य संबंधिभ्यो नृभ्यो यज्ञ स्य नेतृभ्य ऋभुभ्यः । ऋभवो हि यज्ञ स्य नेतारः । तेन हि देवत्वं प्राप्ताः । यद्वा । अंतरिक्षस्य लोकस्य नेतृभ्यः । मध्यमे स्थाने ह्येते पठ्यंते । तादृशेभ्यः स्रुचेव यथा स्रुचा जुह्वा घृतं क्षरणशीलाज्योपेतं हविरा जुहवाम । मर्यादायामाकारः । यथाशास्त्रं प्रयच्छाम । एवमेव मनीषां स्तुतिं विद्मना वेदनेन ज्ञानेन कुर्म इति शेषः । अपि च ये ऋभवः पितुः सर्वस्य जगतः पालकस्यास्य सूर्यस्य तरणित्वा तरणित्वानि तरणकौशलानि सश्चिरे सूर्यरश्मिभूताः संतः प्रापुः । तदुक्तम् । आदित्यरश्मयोऽप्यृभव उच्यंत इति । ते ऋभवो दिवो रजः । रजःशब्दो लोकवाची । द्योतमानस्य स्वर्गाख्यस्य लोकस्य संबंधिनं वाजं सोमलक्षणमन्नमरुहन् । यागदानादिभिः कर्मभिरन्यैश्च देवोक्तैश्चमसचतुष्टयकरणादिकैः प्राप्नुवन् । स्रुचेव । सावेकाच इति विभक्तेरुदात्तत्वम् । जुहवाम । हु दानादनयोः । लोट्याडुत्तमस्य पिच्चेत्याडागमः । विद्मना । विद ज्ञाने । औणादिको मनिः । न संयोगाद्वमंतादित्यल्लोपाभावः । तरणित्वा । तॄ प्लवनतरणयोः । अर्तिसृधृधम्यश्यवितॄभ्योऽनिरिति कर्तर्यनिप्रत्ययः । तस्य भावस्तरणित्वम् । शेश्छंदसि बहुलमिति शेर्लोपः । सश्चिरे । ग्जुन्च षस्ज गतावित्यत्र सश्चिमप्येके पठंति । व्यत्ययेनात्मनेपदम् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति वचनाद्द्विर्वचनाभावः । इरेचश्चित्त्वादंतोदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । आरुहन् । रुह बीजजन्मनि प्रादुर्भावे च लुङि कृमृदृरुहिभ्यश्चंदसीति च्लेरङादेशः । दिवः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । रजः । रंज रागे । रजंत्यस्मिन्निति रजो लोकः । तदुक्तम् । लोका रजांस्युच्यंते (नि ४-१९) इति । औणादिकोऽधिकरणेऽसुन् । रजकरणजनरजस्सूपसंख्यानमिति नलोपः । सुपां सुलुगिति षष्ठ्यालुक् ॥ ६ ॥

1.110.7
ऋ॒भुर्न॒ इन्द्र॒ः शव᳚सा॒ नवी᳚यानृ॒भुर्वाजे᳚भि॒र्वसु᳚भि॒र्वसु᳚र्द॒दिः ।
यु॒ष्माकं᳚ देवा॒ अव॒साह᳚नि प्रि॒ये॒३॒᳚॑भि ति᳚ष्ठेम पृत्सु॒तीरसु᳚न्वताम् ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । नः॒ । इन्द्रः᳚ । शव᳚सा । नवी᳚यान् । ऋ॒भुः । वाजे᳚भिः । वसु᳚॑भिः । वसुः᳚ । द॒दिः ।
यु॒ष्माक᳚म् । दे॒वाः॒ । अव᳚सा । अह᳚नि । प्रि॒ये । अ॒भि । ति॒ष्ठे॒म॒ । पृ॒त्सु॒तीः । असु᳚न्वताम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः । तत्र शवसा बलेन नवीयान् नवतरः पशस्ततर ऋभुर्नोऽस्माकमिंद्रः परमेश्वरः । अस्माकं रक्षक इत्यर्थः । यद्वा । इंद्र एव प्रसंगादुरु भातीति नैरुक्तव्युत्पत्त्या ऋभुरिति स्तूयते । अपि च । वाजेभिर्वाजैरस्मभ्यं दातव्यैरन्नैर्वसुभिर्निवासहेतुभिर्धनैश्च ऋभुर्वसुरस्माकं निवासयिता । अत एव ददिस्तेषामन्नानां धनानां च दाता भवतु । परोऽर्धर्चः प्रत्यक्षकृतः । हे देवा दानादिगुणयुक्ता ऋभुप्रभृतयो युष्माकं संबंधिनावसा रक्षणेन युक्ते प्रियेऽस्माकमनुकूलेऽहनि दिवसे वर्तमाना वयमसुन्वतां सुन्वद्यजमानविरोधिनां शत्रूणां पृत्सुतीः सेना अभितिष्ठेम ॥ नवीयान् । नवशब्दादातिशायनिक ईयसुन् । वाजेभिः । बहुलं छंदसीति भिस ऐसभावः वसुः । वस निवासे । अस्मादंतर्भावितण्यर्थात् शॄस्वृस्निहीत्यादिनोप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । ददिः । डुदाञ् दाने । आदृगमहन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्भावादि । आतो लोप इटि चेत्याकारलोपः ॥ ७ ॥

1.110.8
निश्चर्म᳚ण ऋभवो॒ गाम᳚पिंशत॒ सं व॒त्सेना᳚सृजता मा॒तरं॒ पुनः᳚ ।
सौध᳚न्वनासः स्वप॒स्यया᳚ नरो॒ जिव्री॒ युवा᳚ना पि॒तरा᳚कृणोतन ॥
▶ पदपाठः (Word-by-word)
निः । चर्म᳚णः । ऋ॒भ॒वः॒ । गाम् । अ॒पिं॒श॒त॒ । सम् । व॒त्सेन᳚ । अ॒सृ॒ज॒त॒ । मा॒तर᳚म् । पुन॒रिति᳚ ।
सौध᳚न्वनासः । सु॒॑अ॒प॒स्यया᳚ । न॒रः॒ । जिव्री॒ इति᳚ । युवा᳚ना । पि॒तरा᳚ । अ॒कृ॒णो॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा कस्यचिदृषेर्धेनुर्मृता । स ऋषिस्तस्या धेनोर्वत्सं दृष्ट्वा ऋभुं तुष्टाव । ऋभवसत्सदृशीमन्यां धेनुं कृत्वा तदीयेन चर्मणा संवीय तेन वत्सेन समयोजयन्निति । अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे ऋभवो यूयं चर्मणश्चर्मणा त्वचा । तृतीयार्थे षष्ठी । गां धेनुं निरपिंशत । निश्शेषेणाश्लिष्टां संयुक्तामकुरुत । तदनंतरं मातरं तां गां पुनर्वत्सेन समसृजत । संसृष्टामकुरुत । समगमयतेति यावत् । अपि च हे सौधन्वनासः सुधन्वन अंगिरसस्य पुत्रा नरो यज्ञस्य नेतार ऋभवः स्वपस्यया शोभनकर्मेच्छया । यागदानाद्याचरणेनेति यावत् । जिव्री जीर्णौ वृद्धौ पितरा मातापितरौ युवाना पुनर्यौवनोपेतावकृणोतन । यूयमकृढ्वं ॥ अपिंशत । पिश अवयवे । तौदादिकः । शे मुचादीनामिति नुम् । सौधन्वनासः । सुधन्वनः पुत्राः सौधन्वनाः । अन् (पा ६-४-१६७) इति प्रकृतिभावः । आज्जसेरसुक् । आमंत्रितस्य चेत्याद्युदात्तत्वम् । स्वपस्यया । शोभनमपः स्वपः । तदिच्छा स्वपस्या । सुप आत्मनः क्यच् । अ प्रत्ययादिति भावेऽकारलप्रत्ययः । जिव्री । जॄष् वयोहानौ । जॄशॄस्तॄजागृभ्यः क्वि न् (उ ४-५४) ऋूत इद्धातोरितीत्वम् । रेफवकारयोः स्थानविपर्ययः । बहुलवचनाद्धलि चेति दीर्घाभावः । नित्त्वादाद्युदात्तत्वम् । युवाना । सुपां सुलुगिति विभक्तेराकारः । पितरा । पितौ च माता च पितरौ । पिता मात्रा (पा १-२-७०) इति पिता शिष्यते । पूर्ववद्विभक्तेराकारः । अकृणोतन । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः तत्सन्नियोगेन वकारस्य चाकारः । अतो लोपे सति तस्य स्धानिवद्भावाल्लघूपधगुणाभावः । लङ् मध्यमबहुवचनस्य तशब्दस्य तप्तनप्तनथनाश्चेति तनबादेशः । तस्य पित्त्वेन ङित्त्वाभावाद्गुणः ॥ ८ ॥

1.110.9
वाजे᳚भिर्नो॒ वाज᳚सातावविड्ढ्यृभु॒मा{4} इ᳚न्द्र चि॒त्रमा द᳚र्षि॒ राधः᳚ ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वाजे᳚भिः । नः॒ । वाज᳚॑सातौ । अ॒वि॒ड्ढि॒ । ऋ॒भु॒॑मान् । इ॒न्द्र॒ । चि॒त्रम् । आ । द॒र्षि॒ । राधः᳚ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ऋभुमान् । ऋभुर्विभ्वा वाज इति त्रयोऽप्यृभुशब्देनोपचारादत्रोच्यंते । तैर्युक्तस्त्वं वाजसातौ वाजस्यान्नस्य संभजने निमित्तभूते सति वाजेभिरन्नैरविड्ढि । अस्मान्व्याप्नुहि । यद्वा । वाजसातिरिति संग्रामनाम । वाजसातौ संग्रामे वाजेभिर्वेजनयुक्तैरश्वैरविड्ढि । अस्मान् रक्ष । अपि च चित्रं चायनीयं राधो धनमा दर्षि । अस्मभ्यं दातुमाद्रियस्व । तृतीयसवने ऋभुभिः सहेंद्र स्यावस्थानात् प्रसंगादत्रेंद्रस्तुतिः । यदेतदस्माभिः प्रार्थितमस्मदीयं तन्मित्रादयो ममहुतां पूजयंतां ॥ वाजसातौ । वन षण संभक्तौ । भावे क्तिन् । जनसनखनं सन् झलोरित्यात्वम् । वाजानां सातिर्यस्मिन् । बहुव्रीहौ । पूर्वपदप्रकृतिस्वरत्वम् । अविड्ढि । विष्लृव्याप्तौ । लोटो हिः । बहुलं छंदसीति शपो लुक् । हुझल्छ्यो हेर्धिः । ष्वुत्वजश्त्वे । छंदस्यपि दृश्यते (पा ६-४-७३) इति दृशीग्रहणाल्लोट्यडागमः । यद्वा । अवतेर्लोट सिब्बहुलं लेटीति बहुलवचनाद्विकरणः सिप् । तस्यार्धधातुकत्वादिट् । आदेशप्रत्यययोरिति षत्वम् । धित्वादि पूर्ववत् । ऋभुमान् । ह्रस्वनुड् भ्यां मतुबिति मतुप उदात्तत्वम् । दर्षि दृङ् आदरे । लोट व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥