यु॒ष्माकं᳚ देवा॒ अव॒साह᳚नि प्रि॒ये॒३॒᳚॑भि ति᳚ष्ठेम पृत्सु॒तीरसु᳚न्वताम् ॥
पदपाठः (Word-by-word)
यु॒ष्माक᳚म् । दे॒वाः॒ । अव᳚सा । अह᳚नि । प्रि॒ये । अ॒भि । ति॒ष्ठे॒म॒ । पृ॒त्सु॒तीः । असु᳚न्वताम् ॥
सायणभाष्यम् (Sayana Commentary)
ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः । तत्र शवसा बलेन नवीयान् नवतरः पशस्ततर ऋभुर्नोऽस्माकमिंद्रः परमेश्वरः । अस्माकं रक्षक इत्यर्थः । यद्वा । इंद्र एव प्रसंगादुरु भातीति नैरुक्तव्युत्पत्त्या ऋभुरिति स्तूयते । अपि च । वाजेभिर्वाजैरस्मभ्यं दातव्यैरन्नैर्वसुभिर्निवासहेतुभिर्धनैश्च ऋभुर्वसुरस्माकं निवासयिता । अत एव ददिस्तेषामन्नानां धनानां च दाता भवतु । परोऽर्धर्चः प्रत्यक्षकृतः । हे देवा दानादिगुणयुक्ता ऋभुप्रभृतयो युष्माकं संबंधिनावसा रक्षणेन युक्ते प्रियेऽस्माकमनुकूलेऽहनि दिवसे वर्तमाना वयमसुन्वतां सुन्वद्यजमानविरोधिनां शत्रूणां पृत्सुतीः सेना अभितिष्ठेम ॥ नवीयान् । नवशब्दादातिशायनिक ईयसुन् । वाजेभिः । बहुलं छंदसीति भिस ऐसभावः वसुः । वस निवासे । अस्मादंतर्भावितण्यर्थात् शॄस्वृस्निहीत्यादिनोप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । ददिः । डुदाञ् दाने । आदृगमहन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्भावादि । आतो लोप इटि चेत्याकारलोपः ॥ ७ ॥