श्रवणम्

1.110.5
क्षेत्र᳚मिव॒ वि म᳚मु॒स्तेज᳚नेन{4}॒ एकं॒ पात्र᳚मृ॒भवो॒ जेह᳚मानम् ।
उप᳚स्तुता उप॒मं नाध᳚माना॒ अम᳚र्त्येषु॒ श्रव᳚ इ॒च्छमा᳚नाः ॥
▶ पदपाठः (Word-by-word)
क्षेत्र᳚म्॑इव । वि । म॒मुः॒ । तेज᳚नेन । एक᳚म् । पात्र᳚म् । ऋ॒भवः᳚ । जेह᳚मानम् ।
उप᳚॑स्तुताः । उ॒प॒॑मम् । नाध᳚मानाः । अम᳚र्त्येषु । श्रवः᳚ । इ॒च्छमा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उपस्तुताः समीपस्थैर्ऋषिभिः स्तुता ऋभवो जेहमानं होमक्रियां प्रति प्रयतमानमेकमसहायं पात्रं पानसाधनं त्वष्ट्रा निर्मितं चमसं मानदंडेन क्षेत्रमिव भूमिमिव तेजनेन तीक्ष्णेन शस्त्रेण चमसचतुष्टयरूपेण कर्तुं वि ममुः । विशेषेण मानं कृतवंतः । किमिच्छंतः । उपमं सर्वेषामुपमानभूतं प्रशस्तं सोमलक्षणमन्नं नाधमाना याचमानाः । एतदेव विवृणोति । अमर्त्येषु मरणरहितेषु देवेषु मध्ये श्रवो हविर्लक्षणमन्नमिच्छमाना इच्छंतः । देवैः सह सोमपानं कामयमानास्तल्लाभाय चतुरश्चमसानकार्षुरित्यर्थः । ममुः । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । तेजनेन । अणोऽप्रगृह्यस्यानुनासिकः (पा ८-४-५७) इत्यनवसाने व्यत्ययेनाकारस्यानुनासिक्यम् । ईषा अक्षादित्वात्प्रकृतिभावः । जेहमानम् । वेहृ जेहृ वाहृ प्रयत्ने । भौवादिकः । अनुदात्तेत्त्वादात्मनेपदम् । उपस्तुताः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उपमम् । माङ् माने । आतश्चोपसर्ग इति कप्रत्ययः । इच्छमानाः । व्यत्ययेनात्मनेपदं ॥ ५ ॥