श्रवणम्

1.110.9
वाजे᳚भिर्नो॒ वाज᳚सातावविड्ढ्यृभु॒मा{4} इ᳚न्द्र चि॒त्रमा द᳚र्षि॒ राधः᳚ ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वाजे᳚भिः । नः॒ । वाज᳚॑सातौ । अ॒वि॒ड्ढि॒ । ऋ॒भु॒॑मान् । इ॒न्द्र॒ । चि॒त्रम् । आ । द॒र्षि॒ । राधः᳚ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ऋभुमान् । ऋभुर्विभ्वा वाज इति त्रयोऽप्यृभुशब्देनोपचारादत्रोच्यंते । तैर्युक्तस्त्वं वाजसातौ वाजस्यान्नस्य संभजने निमित्तभूते सति वाजेभिरन्नैरविड्ढि । अस्मान्व्याप्नुहि । यद्वा । वाजसातिरिति संग्रामनाम । वाजसातौ संग्रामे वाजेभिर्वेजनयुक्तैरश्वैरविड्ढि । अस्मान् रक्ष । अपि च चित्रं चायनीयं राधो धनमा दर्षि । अस्मभ्यं दातुमाद्रियस्व । तृतीयसवने ऋभुभिः सहेंद्र स्यावस्थानात् प्रसंगादत्रेंद्रस्तुतिः । यदेतदस्माभिः प्रार्थितमस्मदीयं तन्मित्रादयो ममहुतां पूजयंतां ॥ वाजसातौ । वन षण संभक्तौ । भावे क्तिन् । जनसनखनं सन् झलोरित्यात्वम् । वाजानां सातिर्यस्मिन् । बहुव्रीहौ । पूर्वपदप्रकृतिस्वरत्वम् । अविड्ढि । विष्लृव्याप्तौ । लोटो हिः । बहुलं छंदसीति शपो लुक् । हुझल्छ्यो हेर्धिः । ष्वुत्वजश्त्वे । छंदस्यपि दृश्यते (पा ६-४-७३) इति दृशीग्रहणाल्लोट्यडागमः । यद्वा । अवतेर्लोट सिब्बहुलं लेटीति बहुलवचनाद्विकरणः सिप् । तस्यार्धधातुकत्वादिट् । आदेशप्रत्यययोरिति षत्वम् । धित्वादि पूर्ववत् । ऋभुमान् । ह्रस्वनुड् भ्यां मतुबिति मतुप उदात्तत्वम् । दर्षि दृङ् आदरे । लोट व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥