श्रवणम्

1.110.3
तत्स᳚वि॒ता वो᳚॑मृत॒त्वमासु᳚व॒दगो᳚ह्यं॒ यच्छ्र॒वय᳚न्त॒ ऐत᳚न ।
त्यं चि᳚च्चम॒समसु᳚रस्य॒ भक्ष᳚ण॒मेकं॒ सन्त᳚मकृणुता॒ चतु᳚र्वयम् ॥
▶ पदपाठः (Word-by-word)
तत् । स॒वि॒ता । वः॒ । अ॒मृ॒त॒॑त्वम् । आ । अ॒सु॒व॒त् । अगो᳚ह्यम् । यत् । श्र॒वय᳚न्तः । ऐत᳚न ।
त्यम् । चि॒त् । च॒म॒सम् । असु᳚रस्य । भक्ष᳚णम् । एक᳚म् । सन्त᳚म् । अ॒कृ॒णु॒त॒ । चतुः᳚॑वयम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवस्तत्तदानीं सविता सर्वस्य प्रेरको देवो वो युष्माकममृतत्वं देवत्वमासुवत् । आभिमुख्येन प्रेरितवान् । दत्तवानित्यर्थः । यद्यदा यूयमगोह्यं गूहितुमशक्यं सर्वैर्दृश्यमानं सवितारं श्रवयंतोऽपेक्षितं सोमपानं विज्ञापयंतः संत ऐतन आगच्छत । तदानीमिति पूर्वेणान्वयः । यस्माद्यूयं देवैराज्ञापिताः संतोऽसुरस्य त्वष्टुः संबंधिनम् । तेन निर्मितमित्यर्थः । भक्षणं सोमपानसाधनं त्यं तं चमसमेकं चित् असहायमेव संतं चतुर्वयं चतुर्व्यूहमकृणुत । कृतवंतः । सृष्ट्यादौ त्वष्ट्राकृतं चमसं होतृचमसादि मुख्यचमस चतुष्टयरूपेण ऋभवः कृतवंत इत्यर्थः ॥ असुवत् । षू प्रेरणे । तौदादिकः । श्रवयंतः । श्रु श्रवणे । छांदसो वृद्ध्यभावः । ऐतन । लङि मध्यमबहुवचनस्य तादेशे तप्तनप्तनथनाश्चेति तनबादेशः । भक्षणम् । करणे ल्युट् । अकृणुत । कृवि हिंसाकरणयोश्च । लङि मध्यमबहुवचने धिन्विकृण्व्योरच्चेत्युप्रत्ययः । चतुर्वयम् । वय अवयवाः । चत्वारोऽवयवा यस्य स तथोक्तः ॥ ३ ॥