प्रथमं मण्डलम् - सूक्तम् 65

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: द्विपदा विराट्

सूक्तम् 1.65 - सम्पूर्णम्

1 / 10
ऋक्: 1.65.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.65.1
प॒श्वा न ता॒युं गुहा॒ चत᳚न्तं॒ नमो᳚ युजा॒नं नमो॒ वह᳚न्तम् ॥
▶ पदपाठः (Word-by-word)
प॒श्वा । न । ता॒युम् । गुहा᳚ । चत᳚न्तम् । नमः᳚ । यु॒जा॒नम् । नमः᳚ । वह᳚न्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वादशेऽनुवाके नव सूक्तानि । तत्र पश्वेत्यादीनि षट् सूक्तानि द्वैपदानि तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते । अयुक्संख्यासु तु यांत्यातिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः सूत्र्यते हि । पश्वा न तायुमिति द्वैपदम् (आ ८-१२) इति ॥ तत्र पश्वेति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । पश्वा दश पराशरः शाक्त्यो द्वैपदं तदिति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते । वसिष्ठस्य सुतः शुक्तिः शक्तेः पुत्रः पराशर इति । द्विपदा विराट् छंदः । विंशतिका द्विपदा विराजः । अनु १२-८ । इति हि तल्लक्षणम् । अग्निर्देवता । परमाग्नेयमैंद्रादिति परिभाषितम् । पश्वा न तायुमित्यारभ्येत्था हीत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । द्वैपदं तदित्युक्तत्वादिदमादीन षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि ॥ दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात्पूर्वमेतद्द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतं ॥

Sayana bhashya empty

1.65.2
स॒जोषा॒ धीरा᳚ः प॒दैरनु᳚ ग्म॒न्नुप᳚ त्वा सीद॒न्विश्वे॒ यज᳚त्राः ॥
▶ पदपाठः (Word-by-word)
स॒॑जोषाः᳚ । धीराः᳚ । प॒दैः । अनु᳚ । ग्म॒न् । उप᳚ । त्वा॒ । सी॒द॒न् । विश्वे᳚ । यज᳚त्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीरा मेधाविनो देवाः सजोषाः समानप्रीतयः संतो हे अग्ने त्वा पदैर्मागे पादकृतैर्लांछनैरनु ग्मनु । अन्वगमन् । कीदृशम् । पश्वादिधनमपहृत्य दुष्ट्रवेशे गिरिगह्वरे वर्तते तद्वद्गुहा चतंतं अब्रूपायां गुहायां गच्छंतं वर्तमानम् । चततिर्गतिकर्मा । तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते । स निलायत सोऽपः प्राविशत् । तै सं २-६-६-१ । इति । यद्वा । अश्वत्थगुहायां वर्तमानम् । श्रूयते च अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठदिति । तथा नमो युजानं हविर्लक्षणमन्नमात्मना संयुजानं नमो वहंतं देवेभ्यः प्रत्तं हविर्वहंतम् । यजत्रा यजनीया विश्वे सर्वे देवा हे अग्ने त्वा त्वामुप सीदन् । समीपं प्राप्नुवन् । ददृशुरित्यर्थः ॥ पश्वा । तृतीयैकवचनस्य जसादिषु च्छंदसि वावचनमिति नाभावाभावः । उदात्तयण इति विभक्तेरुदात्तत्वम् । गुहा । भिदादिषु पाठादङ् प्रत्ययांतः । वृषादिषु पाठादुद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या लुक् । युजानम् । शानचि बहुलं छंदसीति विकरणस्य लुक् । सजोषाः । जुषी प्रीतिसेवनयोः । समानं जुषंत इति सजोषसः । समानस्य च्छंदसीति सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति जसः सुः । ग्मन् । गमेर्लुङि मंत्रे घसेति च्लेर्लुक् । गमहनेत्यादिनोपधालोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यजत्राः । अमिनक्षीत्यादिनात्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १ ॥ २ ॥

1.65.3
ऋ॒तस्य᳚ दे॒वा अनु᳚ व्र॒ता गु॒र्भुव॒त्परि᳚ष्टि॒र्द्यौर्न भूम᳚ ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । दे॒वाः । अनु᳚ । व्र॒ता । गुः॒ । भुव᳚त् । परि᳚ष्टिः । द्यौः । न । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.65.4
वर्ध᳚न्ती॒मापः᳚ प॒न्वा सुशि᳚श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा᳚तम् ॥
▶ पदपाठः (Word-by-word)
वर्ध᳚न्ति । ई॒म् । आपः᳚ । प॒न्वा । सु॑शि᳚श्विम् । ऋ॒तस्य᳚ । योना᳚ । गर्भे᳚ । सु॑जा᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्त एवार्थः स्पष्टीक्रियते । देवा ऋतस्य गतस्य पलायितस्याग्नेर्व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाण्यनु गुः । अन्वेष्वुमगमन् । तदनंतरं परिष्टिः परितः सर्वतोऽन्वेषणं भुवत् । अभवत् । भूम भूमिरप्यग्नेरन्वेष्वृभिर्देवैर्द्यौर्न स्वर्ग इवाभूत् । इंद्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ता इत्यर्थः । आपोऽब्देवता ईमेनमुदके प्रविष्टमग्निं वर्धंति । प्रवर्धयंति । यथा देवा न पश्यंति तथारक्षन्नित्यर्थः । कीदृशम् । पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम् । ऋतस्य योना । योनिरित्युदकनाम । ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले गर्भे गर्भस्थाने मध्ये सुजातं सुष्ठु प्रादुर्भूतम् । एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत् । तदनंतरं देवास्तमज्ञासिषुरिति भावः । तथा च तैत्तिरीयकम् । स निलायत सोऽपः प्राविशस्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीदिति ॥ व्रता । शेच्छंदसि बहुलमिति शेर्लोपः । गुः । इण् गतौ । इणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । आत इति झेर्जुस् । उस्यपदांतादिति पररूपत्वम् । परिष्टिः । इषु इच्छायाम् । क्तिनि तितुत्रेतीट् प्रतिषेधः । शंकध्वादित्वात्पररूपत्वम् । पा ६-१-९४-४ । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । भूम सुपां सुलुगिति सोर्डादेशः । ह्रस्वश्छांदसः । वर्धंति । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । पन्वा । पन स्तुतौ । औणादिको भाव उप्रत्ययः । सुशिश्वम् । टुओश्वि गतिवृद्ध्योः । आदृगमहनजन इत्यत्रोत्सर्गश्छंदसि । पा ३-२-१७१-२ । इति वचनात्किप्रत्ययः । वचिस्वपीत्यादिना संप्रसारणम् । लिड्वद्भावाद्द्विर्भावे बहुलं छंदसीत्युकारस्येत्वम् । छांदसो यणादेशः । सुः पूजायाम् (पा १-४-९४) इति सो कर्मप्रवचनीयत्वम् । स्वती पूजायाम् (पा २-२-१८) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥ ४ ॥

1.65.5
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥
▶ पदपाठः (Word-by-word)
पु॒ष्टिः । न । र॒ण्वा । क्षि॒तिः । न । पृ॒थ्वी । गि॒रिः । न । भुज्म᳚ । क्षोदः᳚ । न । श॒म्॑भु ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.65.6
अत्यो॒ नाज्म॒न्त्सर्ग᳚प्रतक्त॒ः सिन्धु॒र्न क्षोद॒ः क ईं᳚ वराते ॥
▶ पदपाठः (Word-by-word)
अत्यः᳚ । न । अज्म᳚न् । सर्ग᳚॑प्रतक्तः । सिन्धुः᳚ । न । क्षोदः᳚ । कः । ई॒म् । व॒रा॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रण्वा रमणीया सर्वेषां हृद्या पुष्टिर्न अभिमतफलानामभिवृद्धिरिवाग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्याग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गंतव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्नियर्ज्ञेहविर्भिः प्राप्यत इति भावः । पृथ्वी विस्तिर्णा क्षितिर्न भूमिरिवाग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । गिरिर्न पर्वत इव भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुंजते तद्वदग्नावपि पचंतः सर्वे भुंजते तद्वदग्नावपि पचंतः सर्वे भुंजते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः सर्गफलं भुंजते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान्प्राणिनो भुनक्ति स्वकीयमूलफलादिदानेन पालयति । तद्वदयमपि पापादनुष्ठातृन्प्रमुंचति । तथा चाम्नायते । अग्निर्मा तस्मादेनसः प्र मुंचत्विति । शंभु सुखकरं क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । अज्मन् । संग्रामनामैतत् । अज्मनि संगामेऽत्यो न सतत गमनशीलो जात्यश्व इव सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हंतव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून्हंतुं शीघ्रं गच्छतीति भावः । अपि च सिंधुर्नक्षोदः । स्यंदनशीलमुदकमिवायमपि शीघ्रगामी । यथा निम्नप्रेदेशाभिमुखो जलप्रवाहो दुर्निर्वारः । तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मादीमेनमग्निं को वराते । को वारयेत् । कोऽपि वारयितं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः । रण्व्यते प्राप्यत इति रण्वः कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मणि पचाद्यच् । भुज्म । भुज पालनाभ्यवहारयोः । इषियुधींधीति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुगिति सोर्लुक् । अज्मन् । अज गतिक्षेपणयोः मनिनि वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनाद्वीभावाभावः । सुपां सुलुगिति सप्तम्या लुक् । सर्गप्रतक्तः । सृजविसर्ग इत्यस्माद्घञंतः सर्गशब्द आद्युदात्तः । तन्जु गतौ अस्मादंतर्भावितण्यर्थान्निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । अनिदितामिति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वराते । वृञ् वरणे । अंतर्भावितण्यर्थाल्लेट लेटोऽडाटावित्याडागमः । व्यत्ययेन शप् । वृतोऽन्यत्र (पा ३-४-९४) इत्यैत्वस्य एकल्पितत्वादभावः ॥ ५ ॥ ६ ॥

1.65.7
जा॒मिः सिन्धू᳚नां॒ भ्राते᳚व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना᳚न्यत्ति ॥
▶ पदपाठः (Word-by-word)
जा॒मिः । सिन्धू᳚नाम् । भ्राता᳚॑इव । स्वस्रा᳚म् । इभ्या᳚न् । न । राजा᳚ । वना᳚नि । अ॒त्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.65.8
यद्वात᳚जूतो॒ वना॒ व्यस्था᳚द॒ग्निर्ह᳚ दाति॒ रोमा᳚ पृथि॒व्याः ॥
▶ पदपाठः (Word-by-word)
यत् । वात᳚॑जूतः । वना᳚ । वि । अस्था᳚त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम᳚ । पृ॒थि॒व्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिंधूनां स्यंदनशीलानामपामयमग्निर्जामिर्बंधुः । तासुमुत्पादकत्वात् । तथा चाम्नातम् । अग्नेराप इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बंधुर्बभूवेत्यर्थः । तत्र दृष्टांतः । स्वस्रां स्वसृणां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । तादृशोऽग्निर्वनानि महांत्यरण्यान्यत्ति । भक्षयति । दहतीत्यर्थः । तत्र निदर्शनं राजेभ्यान्न । भियं यंतीति नैरुक्तव्युत्पत्त्येभ्याः शत्रवः । तान्यथा समूलं हिनस्ति तद्वत् । यद्वा । इभ्या धनिनः । तान्यथा धनमपहरन्राजा हिनस्ति तद्वदित्यर्थः । अपि च यद्यदा वातजूतो वातेन प्रेरितः सन्वना वनान्यरण्यानि व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीमग्निर्हासावग्निरेव पृथिव्या भूमेः संबंधीनि रोमौषधिरूपाणि रोमाणि दाति । छिनत्ति । भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः ॥ स्वस्राम् । आमो नुडभावश्छांदसः । अस्थात् । लुङि गातिस्थेति सिचो लुक् । दाति । दाप् लवने । आदादित्वाच्छपो लुक् ॥ ७ ॥ ८ ॥

1.65.9
श्वसि᳚त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति᳚ष्ठो वि॒शामु᳚ष॒र्भुत् ॥
▶ पदपाठः (Word-by-word)
श्वसि᳚ति । अ॒प्॑सु । हं॒सः । न । सीद᳚न् । क्रत्वा᳚ । चेति᳚ष्ठः । वि॒शाम् । उ॒षः॒॑भुत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.65.10
सोमो॒ न वे॒धा ऋ॒तप्र᳚जातः प॒शुर्न शिश्वा᳚ वि॒भुर्दू॒रेभा᳚ः ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । न । वे॒धाः । ऋ॒त॑प्र᳚जातः । प॒शुः । न । शिश्वा᳚ । वि॒॑भुः । दू॒रे॑भाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्देवेभ्यः पलायितः सन्नप्सूदकेषु श्वसिति । प्राणिति । निगूढो वर्तत इत्यर्थः । तत्र दृष्टांतः । हंसो न सीदन् । उदकमध्य उपविशन्हंस इव । कीदृशोऽग्निः । क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन विशां प्रजानां चेतिष्ठोऽतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अंधकारावृतं सर्वमग्नेः प्रकाशाज्जानंति । उषर्भुत् उषस्युषःकालेऽग्नि होत्रादौ प्रबुद्धः सोमो न वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । सोमो वा ओषधीनां राजा । तै सं ६-१-९-१ । इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तरीयकम् । अग्निरन्नादोऽन्नपतिरिति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम् । एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नाद इति । ऋतप्रजातः । ऋतमित्युदकनाम । ऋतावुदकात्प्रादुर्भूतः पशुर्न शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन्विभुः प्रभूतः संपन्नः । यद्वा । शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभू तावयवो जात इत्यर्थः । दूरेभाः । दूरे विप्रकृष्वदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसितीति पूर्वेण संबंधः ॥ श्वसिति । श्वस प्राणने । अदादित्वाच्छपो लुक् । रुदादिभ्यः सार्वधातुके (पा ७-२-७६) इतीडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । शिष्यते । क्रत्वा । जसादिषु च्छंदसि वावचनमिति नाभावाभावः । उषसि बुध्यत इत्युषर्भुत् । बुध अवगमने । क्विप्चेति क्विप् । एकाचो बश इति भष्भावः । अहरादीनां पत्यादिषूपसंख्यानम् (म ८-२-७०) इति सकारस्य रेफादेशः । शिश्वा । शो तनूकरणे । आदेच इत्यात्वम् । शः कित्सन्वच्च (उ १-२१) इत्युप्रत्ययः । सन्वद्भावाद्द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वम् । किद्वद्भावादातो लोप इट चेत्याकारलोपः । प्रथमपक्षे सुपां सुलुगिति सोराकारः । द्वितीये तु पूर्ववन्नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलमिति बहुव्रीहावपि बहुलवचनादलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥ १० ॥