प्रथमं मण्डलम् - सूक्तम् 45

10 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 1.45 - सम्पूर्णम्

1 / 10
ऋक्: 1.45.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.45.1
त्वम᳚ग्ने॒ वसू{4}᳚रि॒ह रु॒द्रा{4} आ᳚दि॒त्या{4} उ॒त ।
यजा᳚ स्वध्व॒रं जनं॒ मनु᳚जातं घृत॒प्रुष᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वसू᳚न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।
यज᳚ । सु॒॑अ॒ध्व॒रम् । जन᳚म् । मनु᳚॑जातम् । घृ॒त॒॑प्रुष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमिह कर्मणि वस्वादीन्यज । उतापि च जनमन्यमपि देवतारूपं प्राणिनं यज । कीदृशं स्वध्वरं शोभनयागयुक्तं मनुजातं मनुवा प्रजापतिनोत्पादितं घृतप्रुषमुदकस्य सेक्तारं ॥ यज । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । स्वध्वरम् । शोभनोऽध्वरो यस्यासौ स्वध्वरः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मनुजातम् । जनेरंतर्भावितण्यर्थात्कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । घृतप्रुषम् । प्रुष प्लुषस्नेहन स्नेचनपूरणेषु । घृतेनोदकेन प्रुष्णाति पूरयतीति घृतप्रुट् । क्विप्चेति क्विप्॥ १ ॥

1.45.2 समानपद
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे᳚ दे॒वा अ᳚ग्ने॒ विचे᳚तसः ।
तान्रो᳚हिदश्व गिर्वण॒स्त्रय᳚स्त्रिंशत॒मा व᳚ह ॥
▶ पदपाठः (Word-by-word)
श्रु॒ष्टी॒॑वानः । हि । दा॒शुषे᳚ । दे॒वाः । अ॒ग्ने॒ । वि॑चे᳚तसः ।
तान् । रो॒हि॒त्॑अ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः᳚॑त्रिंशतम् । आ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विचेतसो विशिष्वप्रज्ञाना देवा दाशुषे हविर्दत्तवते यजमानाय श्रुष्टीवानो हि । श्रुष्टिः फलस्य दानम् । तद्भाजः खलु । हे रोहिदश्व रोहिन्नामकैरश्वैरुपेत गिर्वणो गीर्भिः स्तुतिभिर्वननीयाग्ने । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । त्रयस्त्रिंशतमनया संख्यया संख्यातांस्तान्देवाना वह । इहानय ॥ श्रुष्वीवानः । श्रुष्विः प्रेरणार्थः । भावे क्तिच् । श्रुष्विं वनंति संभजंत इति श्रुष्वीवानः । अन्येभ्योऽपि दृश्यंत इति विच् । छांदसं दीर्घत्वम् । विचेतसः । विशिष्टं चेतो येषां ते । बहुव्रीहौ पूर्वपदप्रकृति स्वरत्वम् । गिर्वणः । गीर्भिर्वननीयो गिर्वणाः । वनतेरसुन् । पूर्वपदस्य ह्रस्वत्वं छांदसम् । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत् । त्रेस्त्रयः (पा ६-३-४८) इति त्रिशब्दस्य त्रयसादेशः । संख्या (पा ६-२-३५) इति पूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

1.45.3
प्रि॒य॒मे॒ध॒वद᳚त्रि॒वज्जात᳚वेदो विरूप॒वत् ।
अ॒ङ्गि॒र॒स्वन्म᳚हिव्रत॒ प्रस्क᳚ण्वस्य श्रुधी॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
प्रि॒य॒मे॒ध॒॑वत् । अ॒त्रि॒॑वत् । जात᳚॑वेदः । वि॒रू॒प॒॑वत् ।
अ॒ङ्गि॒र॒स्वत् । म॒हि॒॑व्र॒त॒ । प्रस्क᳚ण्वस्य । श्रु॒धि॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महिव्रत प्रभूतकर्मन् जातवेदोऽग्ने प्रस्कण्वस्य कण्वपुत्रस्य महर्षेर्हवमाह्वानं श्रुधि । शृणु । तत्र चत्वारो दृष्टांताः । प्रियमेधात्रिविरूपांगिरोनामका एतेषामाह्वानं यथा शृणोषि तद्वत् । अत्र निरुक्तम् । प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वानम् । प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवो यथा प्राग्रमिति । विरूपो नानारूपो महिव्रतो महाव्रत इति च । नि ३-१७ ॥ प्रियमेधवत् । प्रियमेधस्येव । तत्र तस्येव (पा ५-१-११६) इति षष्ठ्यर्थे वतिः । एवमत्रिवदित्यादावपि । प्रस्कण्वादयो गताः ॥ ३ ॥

1.45.4
महि᳚केरव ऊ॒तये᳚ प्रि॒यमे᳚धा अहूषत ।
राज᳚न्तमध्व॒राणा᳚म॒ग्निं शु॒क्रेण᳚ शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
महि᳚॑केरवः । ऊ॒तये᳚ । प्रि॒य॑मे᳚धाः । अ॒हू॒ष॒त॒ ।
राज᳚न्तम् । अ॒ध्व॒राणा᳚म् । अ॒ग्निम् । शु॒क्रेण᳚ । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिकेरवः प्रौढकर्माणः प्रियमेधाः प्रियेण यज्ञेनोपेता ऋषय ऊतये रक्षार्थमग्निमहूषत । आहूतवंतः । कीदृशं अध्वराणां यज्ञानां मध्ये शुक्रेण शोचिषा शुद्धेन प्रकाशेन राजंतं दीप्यमानं ॥ महिकेरवः । मह पूजायाम् । औणादिक इन्प्रत्ययः । डुकृञ् करणे । कृवापाजीत्युण् । महयो महांतः कारवो येषां ते तथोक्ताः । आकारस्यैकारादेशश्छांदसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रियमेधाः । प्रियो मेधो येषां ते । अहूषत । ह्वेञ् स्पर्धायां शब्दे च । लुङि सिचि बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । हल इति दीर्घत्वं आदेशप्रत्यययोरिति षत्वं ॥ ४ ॥

1.45.5
घृता᳚हवन सन्त्ये॒मा उ॒ षु श्रु᳚धी॒ गिरः᳚ ।
याभि॒ः कण्व᳚स्य सू॒नवो॒ हव॒न्ते॑व᳚से त्वा ॥
▶ पदपाठः (Word-by-word)
घृत᳚॑आहवन । स॒न्त्य॒ । इ॒माः । ऊं॒ इति᳚ । सु । श्रु॒धि॒ । गिरः᳚ ।
याभिः᳚ । कण्व᳚स्य । सू॒नवः᳚ । हव᳚न्ते । अव᳚से । त्वा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे घृताहवन घतेनाहूयमान संत्य फलप्रदाग्ने इमा उ गिरोऽस्माभिः प्रयुज्यमाना अपि स्तोत्ररूपा वाचः सु श्रुधि । सुष्ठु शृणु । कण्वस्य महर्षेः सूनवः पुत्रा याभिर्गीर्भिरवसे स्वरक्षार्थं त्वा हवंते त्वामाह्वयंति ॥ घृताहवन । घृतेनाहूयतेऽस्मिन्निति घृताहवनः । अधिकरणे ल्युट् । आमंत्रिताद्युदात्तत्वम् । श्रुधि । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् ॥ ३१ ॥ ५ ॥

1.45.6 समानपद
त्वां चि᳚त्रश्रवस्तम॒ हव᳚न्ते वि॒क्षु ज॒न्तवः᳚ ।
शो॒चिष्के᳚शं पुरुप्रि॒याग्ने᳚ ह॒व्याय॒ वोळ्ह᳚वे ॥
▶ पदपाठः (Word-by-word)
त्वाम् । चि॒त्र॒श्र॒वः॒॑त॒म॒ । हव᳚न्ते । वि॒क्षु । ज॒न्तवः᳚ ।
शो॒चिः॑के᳚शम् । पु॒रु॒॑प्रि॒य॒ । अग्ने᳚ । ह॒व्याय᳚ । वोळ्ह᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वमेधे पौष्ण्यामिष्टौ स्विष्टकृतोऽनुवाक्या त्वां चित्रश्रवस्तमेत्येषा । सर्वान्कामानाप्स्यन्निति खंडे सूत्रितम् । त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नये । आ १०-६ । इति ॥

हे चित्रश्रवस्तमातिशयेन विविधहवीरूपान्न युक्त पुरुप्रिय बहूनां यजमानानां प्रीतिकराग्ने त्वां हव्याय वोळ्हवे हविर्वोढुं विक्षु जंतवः प्रजासूत्पन्ना यजमाना हवंते । आह्वयंति । कीदृशम् । शोचिष्केशं दीप्तिरूपकेशोपेतम् । तथा च वाजसनेयिन आमनंति । शोचंत इव ह्येतस्य समिद्दस्य रश्मयः केशा इति ॥ चित्रश्रवस्तम । श्रव इत्यन्ननाम । चित्रं श्रवो यस्यासौ चित्रश्रवाः । अतिशयेन चित्रश्रवाश्चित्रश्रवस्तमः । आमंत्रितानुदात्तत्वम् । शोचिष्केशम् । सुच दीप्तौ । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः (उ २-१०९) इतीसिः । प्रत्ययस्वरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हव्याय । हवनक्रियया प्राप्यत्वात् क्रियाग्रहणं कर्तव्यमिति संप्रदानत्वाच्चतुर्थी । वोळ्हवे । वह प्रापणे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । ढत्वधत्वष्टुत्वढलोपेषु कृतेषु सहिवहोरोदवर्णस्य (पा ६-३-११२) इत्यकारस्यौकारः । नित्त्वादाद्युदात्तत्वं ॥ ६ ॥

1.45.7
नि त्वा॒ होता᳚रमृ॒त्विजं᳚ दधि॒रे व᳚सु॒वित्त᳚मम् ।
श्रुत्क᳚र्णं स॒प्रथ᳚स्तमं॒ विप्रा᳚ अग्ने॒ दिवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । होता᳚रम् । ऋ॒त्विज᳚म् । द॒धि॒रे । व॒सु॒वित्॑त᳚मम् ।
श्रुत्॑क᳚र्णम् । स॒प्रथः᳚॑तमम् । विप्राः᳚ । अ॒ग्ने॒ । दिवि᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विप्रा मेधाविनो दिविष्टिषु यागेषु त्वां नि दधिरे । स्थापितवंतः । कीदृशम् । होतारमाह्वातारं ऋत्विजमृतुषु यजन शीलं वसुवित्तममतिशयेन धनस्य लंभयितारं श्रुत्कर्णं श्रवणयोग्यकर्णोपेतं सप्रथस्तममतिशयेन प्रख्यातं ॥ दधिरे ॥ इरेचश्चित्त्वादंतोदात्तत्वम् । पादादित्वान्निघाताभावः । दिविष्टिषु । इष्वय एषणानि । दिवः स्वर्गस्यैषणानि येषु यागेषु ते दिविष्टयः । सर्वे विधयश्छंदसि विकल्ब्यंत इति वचनाद्दिव उत् (पा ६-१-१३१) इत्युत्वं न क्रियते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.45.8 समानपद
आ त्वा॒ विप्रा᳚ अचुच्यवुः सु॒तसो᳚मा अ॒भि प्रयः᳚ ।
बृ॒हद्भा बिभ्र᳚तो ह॒विरग्ने॒ मर्ता᳚य दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । विप्राः᳚ । अ॒चु॒च्य॒वुः॒ । सु॒त॑सो᳚माः । अ॒भि । प्रयः᳚ ।
बृ॒हत् । भाः । बिभ्र᳚तः । ह॒विः । अग्ने᳚ । मर्ता᳚य । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सुतसोमा अभिषुतसोमयुक्ता विप्रा मेधाविन ऋत्विजः प्रयोऽभि हविर्लक्षणमन्नमभिलक्ष्य त्वा आचुच्यवुः । त्वामागमयंति । कीदृशं त्वाम् । बृहन्महांतं भा भासमानम् । कीदृशा विप्राः । दाशुषे मर्ताय हविष्प्रदस्य यजमानस्य संबंधि हविर्बिभ्रतो धारयंतः ॥ अचुच्यवुः । च्युङ् गतौ । अस्मादंतर्भावितण्यर्थात् लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपः श्लुः । सिजभ्यस्तविदिभ्यश्च (पा ३-४-१०९) इति झेर्जुसादेशः । जुसि च (पा ७-३-८३) इति गुणः । बृहत् । भाः । उभयत्र सुपां सुलुगिति विभक्तेर्लुक् । बिभ्रतः । डुभृञ् धारणपोषणयोः । शतरि नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । मर्ताय दाशुषे । उभयत्र षष्ठ्यर्थे चतुर्थी वक्तव्या । पा २-३-६२-१ । इती चतुर्थी ॥ ८ ॥

1.45.9
प्रा॒त॒र्याव्ण᳚ः सहस्कृत सोम॒पेया᳚य सन्त्य ।
इ॒हाद्य दैव्यं॒ जनं᳚ ब॒र्हिरा सा᳚दया वसो ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः॒॑याव्नः᳚ । स॒हः॒॑कृ॒त॒ । सो॒म॒॑पेया᳚य । स॒न्त्य॒ ।
इ॒ह । अ॒द्य । दैव्य᳚म् । जन᳚म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहस्कृत बलेन मथित संत्य फलदातसर्वसो निवासहेतुभूताग्ने इह देवयजनदेशेऽद्यास्मिन्दिने सोमपेयाय सोमपानार्थं प्रातर्याव्णः प्रातरागच्छतो देवान् दैव्यं जनमन्यमपि देवताजनं बर्हिरा सादय । यज्ञं प्रापय ॥ प्रातर्याव्णः । शस्यल्लोपोऽन इत्यकारलोपः । सहस्कृत । सहतेऽभिभवत्यनेनेति सहो बलम् । तेन क्रियत इति सहस्कृतः । ओजःसहोंऽभस्तमसस्तृतीयायाः (पा ६-३-३) इत्यलुगभावश्छांदसः ॥ ९ ॥

1.45.10 समानपद
अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू᳚तिभिः ।
अ॒यं सोमः᳚ सुदानव॒स्तं पा᳚त ति॒रोअ᳚ह्न्यम् ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्च᳚म् । दैव्य᳚म् । जन᳚म् । अग्ने᳚ । यक्ष्व᳚ । सहू᳚ति॑भिः ।
अ॒यम् । सोमः᳚ । सु॒॑दा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रः॑अ᳚ह्न्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अर्वांचमभिमुखं दैव्यं जनं देवतारूपं प्राणिनं सहूतिभिः समानाह्वानैर्देवांतरैः सह यक्ष्व । यज । हे सुदानवः सुष्ठु फलदातारो देवाः अयं सोमो युष्मदर्थं सोमः पुरुतो वर्तते । तं सोमं पात । पिबत । कीदृशम् । तिरोअह्न्यमेतन्नामकम् । पूर्वस्मिन्नह्न्यभिषुतो यः सोम उत्तरेऽहनि हूयते तस्यैतन्नामधेयं ॥ दैव्यम् । देवाद्यञञाविति प्राग्दीव्यतीयो यञ् । यक्ष्व । लोट बहुलं छंदसीति शपो लुक् । प्रत्ययस्वराभावश्छांदसः । अग्न इत्यस्य पादादौ वर्तमानस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वात् तिङ्ङतिङ इति निघाताभावः । सहूतिभिः । समानाहूतिराह्वानं येषां ते सहूतयः । समानस्य च्छंदसीति सभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पात । पा पानॆ । बहुलं छंदसीति शपो लुक् । तिरो अह्न्यम् । अहनि भवमह्न्यम् । भवे छंदसीति यत् । नस्तद्धित इति टलोपो न भवति अह्नष्टखोरेव (पा ६-४-१४५) इति नियमात् । भसंज्ञायामल्लोपोऽन इत्यकारलोपः । ये चाभावकर्मणोः (पा ६-४-१६८) इति प्रकृतिभावस्तु सर्वविधीनां छंदसि विकल्पितत्पान्न क्रियते । तिरोहितोऽह्न्यस्तिरोअह्न्यः । प्रकृत्यांतःपादमिति प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३२ ॥ १० ॥