श्रवणम्

1.45.8 समानपद
आ त्वा॒ विप्रा᳚ अचुच्यवुः सु॒तसो᳚मा अ॒भि प्रयः᳚ ।
बृ॒हद्भा बिभ्र᳚तो ह॒विरग्ने॒ मर्ता᳚य दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । विप्राः᳚ । अ॒चु॒च्य॒वुः॒ । सु॒त॑सो᳚माः । अ॒भि । प्रयः᳚ ।
बृ॒हत् । भाः । बिभ्र᳚तः । ह॒विः । अग्ने᳚ । मर्ता᳚य । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सुतसोमा अभिषुतसोमयुक्ता विप्रा मेधाविन ऋत्विजः प्रयोऽभि हविर्लक्षणमन्नमभिलक्ष्य त्वा आचुच्यवुः । त्वामागमयंति । कीदृशं त्वाम् । बृहन्महांतं भा भासमानम् । कीदृशा विप्राः । दाशुषे मर्ताय हविष्प्रदस्य यजमानस्य संबंधि हविर्बिभ्रतो धारयंतः ॥ अचुच्यवुः । च्युङ् गतौ । अस्मादंतर्भावितण्यर्थात् लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपः श्लुः । सिजभ्यस्तविदिभ्यश्च (पा ३-४-१०९) इति झेर्जुसादेशः । जुसि च (पा ७-३-८३) इति गुणः । बृहत् । भाः । उभयत्र सुपां सुलुगिति विभक्तेर्लुक् । बिभ्रतः । डुभृञ् धारणपोषणयोः । शतरि नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । मर्ताय दाशुषे । उभयत्र षष्ठ्यर्थे चतुर्थी वक्तव्या । पा २-३-६२-१ । इती चतुर्थी ॥ ८ ॥