प्रथमं मण्डलम् - सूक्तम् 21

6 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: इंद्राग्नी छन्दः: गायत्री

सूक्तम् 1.21 - सम्पूर्णम्

1 / 6
ऋक्: 1.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.21.1
इ॒हेन्द्रा॒ग्नी उप᳚ ह्वये॒ तयो॒रित्स्तोम᳚मुश्मसि ।
ता सोमं᳚ सोम॒पात᳚मा ॥
▶ पदपाठः (Word-by-word)
इ॒ह । इ॒न्द्रा॒ग्नी इति᳚ । उप᳚ । ह्व॒ये॒ । तयोः᳚ । इत् । स्तोम᳚म् । उ॒श्म॒सि॒ ।
ता । सोम᳚म् । सो॒म॒॑पात᳚मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहास्मिन्कर्मणींद्राग्नि देवावुप ह्वये । आह्वयामि । तयोरिंद्राग्न्योरेव स्तोमं स्तोत्रमुश्मसि । कामयामहे । सोमपातमातिशयेन सोमं पातुं क्षमौ तौ द्वौ देवौ सोमं पिबतामिति शेषः ॥ इंद्राग्नी । अत्र देवताद्वंद्वेऽपि पूर्वपदस्यानङ् न भवति । तत्र हि द्वंद्व इत्यनुवृत्तौ पुनर्द्वंद्वंग्रहणाल्लोकप्रसिद्धसाहचर्याणामेव द्वंद्व अनङित्युत्तम् । का ६-३-२६ । तस्मादत्रावग्रहे ह्रस्व इंद्रशब्दः । समासस्येत्यंतोदात्तत्वम् । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वं तु न भवति । अग्निशब्दस्यानुदात्तादित्वेन नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति प्रतिषेधात् । उश्मसि । वशि कांतौ । लटो मस् । इदंतो मसिः (पा ७-१-४६) इतीकारोपजनः । आदादित्वाच्छपो लुक् । मसेर्ङित्त्वाद्ग्रहिज्येत्यादिना संप्रसारणम् । ता सोमपातमा । उभयत्र सुपां सुलुगित्याकारः ॥ १ ॥

1.21.2
ता य॒ज्ञेषु॒ प्र शं᳚सतेन्द्रा॒ग्नी शु᳚म्भता नरः ।
ता गा᳚य॒त्रेषु᳚ गायत ॥
▶ पदपाठः (Word-by-word)
ता । य॒ज्ञेषु᳚ । प्र । शं॒स॒त॒ । इ॒न्द्रा॒ग्नी इति᳚ । शु॒म्भ॒त॒ । न॒रः॒ ।
ता । गा॒य॒त्रेषु᳚ । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरो मनुष्या ऋत्विजः ता पूर्वोक्तौ ताविंद्राग्नी यज्ञेष्वनुष्टीयमानकर्मसु प्रशंसत शस्त्रैः । तथा शुंभत । नानाविधैरलंकारैः शोभितौ कुरुत । तथा ता पूर्वोक्तौ ताविंद्राग्नि गायत्रेक्षु गायत्रीच्छंदस्केषु मंत्रेषु सामरूपेण गायत ॥ ता । सुपां सुलुगित्याकारः । शुंभत । अस्य संहितायामन्येषामपि दृश्यत इति दीर्घः ॥ २ ॥

1.21.3
ता मि॒त्रस्य॒ प्रश᳚स्तय इन्द्रा॒ग्नी ता ह᳚वामहे ।
सो॒म॒पा सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
ता । मि॒त्रस्य᳚ । प्र॑श᳚स्तये । इ॒न्द्रा॒ग्नी इति᳚ । ता । ह॒वा॒म॒हे॒ ।
सो॒म॒॑पा । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रस्य स्नेहविषयस्य ममानुष्ठातुः प्रशस्तये ता पूर्वोक्तौ देवौ संपद्येतामिति शेषः । यद्वा । मित्रस्य मम संबंधिनौ ताविंद्राग्नि प्रशस्तये प्रशंसितुमिच्छाम इति शेषः । सोमपा सोमपानक्षमौ ता पूर्वोक्ताविंद्राग्नी सोमपीतये सोमपानार्थं हवामहे । आह्वयामः ॥ प्रशस्तये । तुमर्थाच्च भाववचनात् (पा २-३-१५) इति चतुर्थी । कृदुत्तरपदप्रकृतिस्वरत्वम् । बाधित्वा तादौ च निति कृत्यतौ (पा ६-२-५०) इति गतेः प्रकृतिस्वरत्वम् । सोमपीतये । सोमस्य पीतिर्यस्मिन्कर्मणि तस्मै । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सोमस्य पीतिरिति तत्पुरुषे वा दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

1.21.4
उ॒ग्रा सन्ता᳚ हवामह॒ उपे॒दं सव᳚नं सु॒तम् ।
इ॒न्द्रा॒ग्नी एह ग᳚च्छताम् ॥
▶ पदपाठः (Word-by-word)
उ॒ग्रा । सन्ता᳚ । ह॒वा॒म॒हे॒ । उप᳚ । इ॒दम् । सव᳚नम् । सु॒तम् ।
इ॒न्द्रा॒ग्नी इति᳚ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतमभिषवोपेतमिदमनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्मोप सामीप्येन प्राप्तुमुग्रा संता वैरिवधारिषु क्रूतौ संतौ देवौ हवामहे । आह्वयामः । इंद्राग्नी देवाविह कर्मण्या गच्छतां ॥ संता । अस्तेः शतरि श्नसोरल्लोपः । सवनं सुतमिति द्वयं सेमं नः स्तोममा गहि । ऋग्वे १-१६-५ । इत्यत्रोक्तं ॥ ४ ॥

1.21.5
ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा᳚ग्नी॒ रक्ष᳚ उब्जतम् ।
अप्र᳚जाः सन्त्व॒त्रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
ता । म॒हान्ता᳚ । सद॒स्पती॒ इति᳚ । इन्द्रा᳚ग्नी॒ इति᳚ । रक्षः᳚ । उ॒ब्ज॒त॒म् ।
अप्र᳚जाः । स॒न्तु॒ । अ॒त्रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तौ पूर्वेक्ताविंद्राग्नी रक्षो राक्षसजातिमुब्जतम् । ऋजुकुरुतम् । क्रौर्यं परित्याजयतमित्यर्थः । कीदृशौ । महांता महांतौ गुणैरधिकौ सदस्पती सभापालकौ । तयो प्रसादादत्रिणो भक्षका राक्षसा अप्रजा अनुत्पन्नाः संतु ॥ महांता । सांत महतः संयोगस्य (पा ६-४-१०) इति दीर्घः । सदस्पती सदसस्पती इति समासे षष्ठ्या लुकि प्रातिपदिकसकारस्य रुत्वाभावश्चांदसः । उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वम् । इंद्राग्नी । आमंत्रिताद्युदात्तत्वम् । अप्रजाः । प्रजायंत इति प्रजाः । अन्येष्वपि । दृश्यते (पा ३-२-१०१) इति जनेर्डप्रत्ययः । न प्रजाः अप्रजाः । प्रजाशब्दस्य बहुव्रीहौ हि नित्यमसिच् प्रजामेधयोः (पा ५-४-१२२) इत्यसिजादेशः स्यात् । अव्ययपूर्वपदप्रकृतिस्वरः । अत्रिणः । तृजंतस्यातृशब्दस्य जसश्छांदस इनुडागमः । चित इति ऋकार उदात्तः । तस्य यणादेश उदात्तयणो हल्पूर्वादितीकार उदात्तः ॥ ५ ॥

1.21.6
तेन᳚ स॒त्येन᳚ जागृत॒मधि᳚ प्रचे॒तुने᳚ प॒दे ।
इन्द्रा᳚ग्नी॒ शर्म᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
तेन᳚ । स॒त्येन᳚ । जा॒गृ॒त॒म् । अधि᳚ । प्र॒॑चे॒तुने᳚ । प॒दे ।
इन्द्रा᳚ग्नी॒ इति᳚ । शर्म᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी सत्येनावश्यफलप्रदानावितथेन तेनास्माभिरनुष्ठितेन कर्मणा प्रचेतुने प्रकर्षेण फलभोगज्ञापके पदे स्वर्गलोकादिस्थानेऽधि जागृतम् । आधिक्येन सावधानौ भवतम् । ततोऽस्मभ्यं शर्म यच्छतम् । सुखं गृहं वा । दत्तम् । गयः कृदर इत्यादिषु द्वाविंशतिसंख्याकेषु गृहनामसु शर्म वर्मेत्युक्तं ॥ जागृतम् । जागृ निद्राक्षये । अदिप्रभृतिभ्यः शप इति शपो लुक् । तिङ्ङतिङ इति निघातः । प्रचेतुने । चिती संज्ञान इत्यस्माण्यंताद्बाहुलकादौणादिक उनप्रत्ययः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्राग्नी । इहेंद्राग्नी इत्यत्रोक्तम् । आमंत्रितत्वादाद्युदात्तत्वमत्र विशेषः । शृणाति हिनत्ति दुःखमिति शर्म । शृ हिंसायाम् । अन्येभ्योऽपि दृश्यंत इति मनिन् । यच्छतम् । इषुगमियमां छ इति छः ॥ ३ ॥ ६ ॥