श्रवणम्

1.21.6
तेन᳚ स॒त्येन᳚ जागृत॒मधि᳚ प्रचे॒तुने᳚ प॒दे ।
इन्द्रा᳚ग्नी॒ शर्म᳚ यच्छतम् ॥
▶ पदपाठः (Word-by-word)
तेन᳚ । स॒त्येन᳚ । जा॒गृ॒त॒म् । अधि᳚ । प्र॒॑चे॒तुने᳚ । प॒दे ।
इन्द्रा᳚ग्नी॒ इति᳚ । शर्म᳚ । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी सत्येनावश्यफलप्रदानावितथेन तेनास्माभिरनुष्ठितेन कर्मणा प्रचेतुने प्रकर्षेण फलभोगज्ञापके पदे स्वर्गलोकादिस्थानेऽधि जागृतम् । आधिक्येन सावधानौ भवतम् । ततोऽस्मभ्यं शर्म यच्छतम् । सुखं गृहं वा । दत्तम् । गयः कृदर इत्यादिषु द्वाविंशतिसंख्याकेषु गृहनामसु शर्म वर्मेत्युक्तं ॥ जागृतम् । जागृ निद्राक्षये । अदिप्रभृतिभ्यः शप इति शपो लुक् । तिङ्ङतिङ इति निघातः । प्रचेतुने । चिती संज्ञान इत्यस्माण्यंताद्बाहुलकादौणादिक उनप्रत्ययः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्राग्नी । इहेंद्राग्नी इत्यत्रोक्तम् । आमंत्रितत्वादाद्युदात्तत्वमत्र विशेषः । शृणाति हिनत्ति दुःखमिति शर्म । शृ हिंसायाम् । अन्येभ्योऽपि दृश्यंत इति मनिन् । यच्छतम् । इषुगमियमां छ इति छः ॥ ३ ॥ ६ ॥