उ॒ग्रा सन्ता᳚ हवामह॒ उपे॒दं सव᳚नं सु॒तम् ।
इ॒न्द्रा॒ग्नी एह ग᳚च्छताम् ॥
इ॒न्द्रा॒ग्नी एह ग᳚च्छताम् ॥
पदपाठः (Word-by-word)
उ॒ग्रा । सन्ता᳚ । ह॒वा॒म॒हे॒ । उप᳚ । इ॒दम् । सव᳚नम् । सु॒तम् ।
इ॒न्द्रा॒ग्नी इति᳚ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥
इ॒न्द्रा॒ग्नी इति᳚ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥
सायणभाष्यम् (Sayana Commentary)
सुतमभिषवोपेतमिदमनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्मोप सामीप्येन प्राप्तुमुग्रा संता वैरिवधारिषु क्रूतौ संतौ देवौ हवामहे । आह्वयामः । इंद्राग्नी देवाविह कर्मण्या गच्छतां ॥ संता । अस्तेः शतरि श्नसोरल्लोपः । सवनं सुतमिति द्वयं सेमं नः स्तोममा गहि । ऋग्वे १-१६-५ । इत्यत्रोक्तं ॥ ४ ॥